धृतराष्ट्रः-
सञ्जयः-
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय
अभिमन्युर्महाराज तव पुत्रमयोधयत्
अयुध्यत महावीर्यः पाण्डवैस्सहसृज्जयैः
महत्या सेनया युक्तो भीष्महेतोः पराक्रमी
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्
दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः
आचक्ष्व मे यथायुद्धं भीष्मस्याहवशोभिनः
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिश्शरैः
सञ्जयः-
कुरवः पाण्डवैस्सार्धं यथाऽयुध्यन्त भारत
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्
यथा च तदभूद्युद्धं तत्ते वक्ष्यामि श्रृण्वतः
प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति
प्रेषिताः परलोकाय परमास्त्रैः किरीटिना
तामापतन्तीं सहसा घोररूपां विशां पते
अहन्यहनि सम्प्राप्ते तावकानां महारथाः
द्विधा चिच्छेद ते पुत्रस्ते क्षुरप्रेण महारथः
यथाप्रतिज्ञं कौरव्यस्स चापि समितिञ्जयः
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः
पार्थानामकरोद्भीष्मस्सततं समिति क्षयम्
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
कुरुभिस्सहितं भीष्मं युध्यमानं महारथम्
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम्
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे
तद्युद्धमभवद्धोरं चित्ररूपं च भारत
अवर्तत महारौद्रस्सततं समिति क्षयः
ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम्
तस्मिन्नयुतशो राजन्भूयश्चापि परन्तपः
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च
भीष्मश्शान्तनवो योधाञ्जघान परामास्त्रवित्
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः
ते हतास्तत्र भीष्मेण सर्वे शूरेण संयुगे
आजघानोरसि क्रुद्धो नाराचेन परन्तपः
दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम्
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत
निरविद्यत धर्मात्मा जीविते स परन्तपः
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे
अश्वत्थामा तु समरे सात्यकिं नवभिश्शरैः
न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत्
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः
भीष्मः-
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे
शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः
व्यदारयत् तदा राजन्महेष्वासं महारथम्
निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः
घ्नतश्च मे गतः कालस्सुबहून्प्राणिनो रणे
त्रिंशता निशितैर्बाणैर्विव्याध स महाभुजम्
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्
ननाद बलवन्नादं विव्याध निशितैश्शरैः
सञ्जयः-
तस्य तन्मतमाज्ञाय पाण्डवस्सत्यदर्शिनः
सोऽन्यत्कार्मुकमादाय पौरवं निशितैश्शरैः
भीष्मं प्रति ययुर्यत्तास्सङ्ग्रामे सह सृञ्जयैः
आजघान महाराज त्रिसप्तत्या शिलीमुखैः
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्
महता शरवर्षेण परस्परमवर्षताम्
धृष्टद्युम्नयुधिष्ठोरौ-
अभिद्रवत युद्ध्यध्वं भीष्मं जयत संयुगे
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत
रक्षितास्सत्यसन्धेन जिष्णुना रिपुजिष्णुना
विरथावसियुद्धाय सङ्गतौ तौ महारथौ
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः
आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्
तारकाशतचित्रे च निस्त्रिंशौ च महाप्रभौ
मा वो भीष्मभयं किञ्चिदस्त्वद्य युधि सृञ्जयाः
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ
ध्रुवं भीष्मं वधिष्यामः पुरस्कृत्य शिखण्डिनम्
वासितासङ्गमे यत्तौ सिंहाविव महावने
तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः
मण्डलानि विचित्राणि गतप्रत्यागतानि च
ब्रह्मलोकं जेतुकामास्सञ्जग्मुः क्रोधमूर्च्छिताः
चेरतुर्दर्शयन्तौ तौ प्रार्थयनौ परस्परम्
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम्
पौरवो धृष्टकेतुं च शङ्खदेशे वरासिना
भीष्मस्य पातने यत्नं परमं ते समास्थिताः
तावन्योन्यं महाराज समासाद्य महारणे
अन्योन्यवेगाभिहतौ निपेततुररिन्दमौ
ततस्त्व सुतादिष्टा नानाजनपदेश्वराः
ततस्स्वरथमारोप्य पौरवं तनयस्तव
द्रोणेन सहपुत्रेण सहसेना महाबलाः
जयत्सेनो रथेनाजावपोवाह रणाजिरात्
दुश्शासनश्च बलवान्सर्वैस्सह सहोदरैः
धृष्टकेतुं च समरे माद्रीपुत्रः प्रतापवान्
भीष्मं समरमध्यस्थं पालयाञ्चक्रिरे तदा
अपोवाह रणे राजन्सहदेवः पराक्रमी
ततस्तु तावकाश्शूराः पुरस्कृत्य यतव्रतम्
सहदेवस्सुशर्माणं विद्ध्वा बहुभिरायसैः
शिखण्डिप्रमुखान्पार्थान्योधमासुराहवे
पुनर्विव्याध तं षष्ट्या पुनश्च नवभिश्शरैः
चेदिभिस्सहपाञ्चालैस्सहितो वानरध्वजः
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम्
दशमिर्दशभिश्चैव विव्याध निशितैश्शरैः
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्
चित्रसेनश्च तं राजन्विंशत्या नतपर्वभिः
युधामन्युस्सहामात्यं दुर्योधमयोधयत्
आजघान रणे क्रुद्धस्स च तं प्रत्यविध्यत
विराटस्तु सहानीकस्सहनीकं जयद्रथम्
भीष्मस्य समरे राजन्यशो मानं च वर्धयन्
वृद्धक्षत्रस्य दायादमाससाद परन्तप
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत्
मद्रराजं महेष्वासं सह सैन्यर्युधिष्ठिरः
पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति
भीमसेनाभिगुप्तस्तु गजानीकमुपाद्रवत्
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा नवभिरायसैः
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्
पुनर्विव्याध सप्तत्या शरैस्सन्नतपर्वभिः
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यस्सह सोमकैः
कर्णिकारध्वजं चापि सिंहकेतुररिन्दमः
बृहद्बलं च सौभद्रो विद्ध्वा पञ्चभिरायसैः
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः
नाकम्पयत सङ्ग्रामे विद्ध्वा तं निशितैश्शरैः
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम्
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुनेः
राजभिस्समरे सार्धमभिपेतुर्जिघांसवः
आजघान शरैश्चापि त्रिंशद्भिः कङ्कपत्रिभिः
तस्मिन्नतिभये भीमे सेनयोर्वै पराक्रमे
सोऽन्यत्कार्मुकमादाय राजपुत्रं बृहद्बलम्
सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत
फाल्गुनिस्समरे क्रुद्धो विव्याध निशितैश्शरैः
तान्यनीकान्यनीकेषु समयुध्यन्त भारत
युद्धं तयोस्समभवद्भीष्महेतोः परन्तप
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे
संरब्धयोर्महाराज समरे चित्रयोधिनोः
यथा देवासुरे युद्धे बलिवासवयोरभूत्
ततस्तेषां प्रयततामन्योन्यमभिधावताम्
भीमसेनो गजानीकं योधयन्बह्वशोभत
प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान्
शङ्खदुन्दुभिनिर्घोषो वारणानां च बृंहितम्
ते वध्यमाना भीमेन मातङ्गा गिरिसन्निभाः
सिंहनादश्च सैन्यानां दारुणस्समपद्यत
निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम्
या तु सर्वनरेन्द्राणां चन्द्रार्कसदृशप्रभा
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः
हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत
विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः
रजोमेघास्तु सञ्जज्ञुश्शस्त्रविद्युद्भिरावृताः
युधिष्ठिरो महेष्वासो मद्रराजं महाहवे
धनुषां चापि निर्घोषो दारुणस्समपद्यत
महत्या सेनया युक्तं पीडयामास सङ्गतम्
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम्
रथघोषश्च सञ्जज्ञुस्सेनयोरुभयोरपि
पीडयामास सङ्क्रुद्धो भीष्महेतोः पराक्रमी
प्रासशक्त्यष्टिसङ्घैश्च बाणौघैश्च समाकुलम्
विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः
निष्प्रमाणमिवाकाशं सेनयोस्समपद्यत
नवभिस्सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत्
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे
विराटश्च महाराज सैन्धवं वाहिनीमुखे
कुञ्जरान्कुञ्जराजघ्नुः पादातांश्च पदातयः
त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे
तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैस्सह
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषं यथा
रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ
तयोस्समागमो घोरो बभूव युधि भारत
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे
अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे
महासमुदयं चक्रे शरैस्सन्नतपर्वभिः
ततो द्रोणो महाबाहुर्पार्षतस्य महद्धनुः
छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान्
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान्
ताञ्छराञ्शरसङ्घैश्च सन्निवार्य महारथः
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान्
तस्य क्रुद्धो महाराज पार्षतः परवीरहा
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे
तामापतन्तीं सहसा हेमपट्टविभूषिताम्
शरैः पञ्चाशता द्रोणो वारयामास संयुगे
सा छिन्ना बहुधा राजन्द्रोणचापच्युतैश्शरैः
चूर्णीकृता विशीर्यन्ती पपात वसुधातले
गदां विनिहतां दृष्ट्वा पार्षतश्शत्रुसूदनः
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम्
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत
पार्षतं च महेष्वासं पीजयामास संयुगे
एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत्
भीष्मं प्रति महाराज घोररूपं भयानकम्
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैश्शरैः
अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम्
प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान्
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः
तमापतन्तं सहसा महेन्द्रगजसन्निभम्
परं यत्नं समस्थाय बीभत्सुः प्रत्यविध्यत
ततो गजगतो राजा भगदत्तः प्रतापवान्
अर्जुनं शरवर्षेण वारयामास संयुगे
अर्जुनस्तु रणे नागमायान्तं पर्वतोपमम्
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत्
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत्
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत
ततस्ते तावकाश्शूराः पाण्डवं रभसं युधि
समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत्
नानाविधान्यनीकानि पुत्राणां ते जनाधिप
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः
शिखण्डी तु समासाद्य भरतानां पितामहम्
इषुभिस्तूर्णमव्यग्रो बहुभिस्स्तं समाचिनोत्
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान्
रथाग्न्यङ्गारचापार्चिरसिशक्तिगदेन्धनः
शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत्
यथा हि सुमहानग्निः कक्षे चरति सानिलः
तथा जज्वाल भीष्माग्नुिर्दिव्यान्यस्त्राण्युदीरयन्
न्यवारयत सैन्यं च पाण्डवानां महारथः
सुवर्णपुङ्खैरिषुभिश्शिरैस्सन्नतपर्वभिः
छादयन्स दिशो भीष्मः प्रदिशश्च महायशाः
पातयन्रथिनो राजन्गजाश्वान्सहसादिभिः
मुण्डतालवनानीव स चकार रथव्रजान्
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे
चकार समरे भीष्मस्सर्वशस्त्रभृतां वरः
तस्य ज्यातलनिर्घोषं विष्फूर्जितमिवाशनेः
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः
अमोघान्यपतन्बाणाः पितुस्ते भरतर्षभ
नासज्जन्त शरीरेषु भीष्मचापच्युताश्शराः
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः
वातायमानान्पशयामो ह्रियमाणान्विशां पते
चेदिकाशिकरूशानां सहस्राणि चतुर्दश
महारथास्समाख्याताः कुलपुत्रास्तनुत्यजः
अपरावर्तिनश्शूरास्सुवर्णविकृतध्वजाः
सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्
तत्र नासीन्महाराज सोमकानां महारथः
यस्सम्प्राप्य रणे भीष्मं जीविताय मनो दधे
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति
नीतान्भीष्मेण मन्यन्ते दृष्ट्वा भीष्मस्य विक्रमम्
न कश्चिदेनं समरे प्रत्युद्याति महारथः
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम्
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम्