सञ्जयः-
भगदत्तः कृपश्शल्यः कृतवर्मा च सात्वतः
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा
दशैते तावका योधा भीमसेनमयोधयन्
महत्या सेनया युक्ता नानादेशसमुत्थया
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत्
कृतवर्मा त्रिभिर्भाणैः कृपश्च नवभिश्शरैः
चित्रसेनो विकर्णश्च भगदत्तश्च वीर्यवान्
दशभिर्दशभिर्बाणैर्भीमसेनमताडयन्
सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमडायत्
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिश्शरैः
दुर्मर्षणश्च विंशत्या बाणैस्सन्नतपर्वभिः
स तान्राजन्महाराज भ्राजमानान्पृथक्पृथक्
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान्
विव्याध निशितैर्बाणैर् भीमसेनो महाबलः
शल्यं च पञ्चविंशत्या विध्वा बाणैस्सुपर्वभिः
विव्याध निशितैर्बाणैः कृतवर्माणमष्ठभिः
कृपस्य सशरं चापं मध्ये चिच्छेद भारत
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः
विन्दानुविन्दावावन्त्यौ त्रिभिस्त्रिभिरजिह्मगैः
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम्
विद्ध्वा भीमोऽनदद्धृष्टस्सैन्धवं च पुनस्त्रिभिः
अथान्यद्धनुरादाय गौतमो रथिनां वरः
भीमं विव्याध संरब्धो दशभिर्निशितैश्शरैः
स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः
व्यनदत्समरे शुरस्सिंहव्दरणमूर्धनि
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्
गौतमं ताडयामास शरैर्बहुभिराहवे
सैन्धवस्य तथाऽश्वांश्च सारथिं च त्रिभिश्शरैः
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः
महारथाञ्शरैर्विद्ध्वा वारयित्वा च भारत
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः
न तु तं ममृषे शल्यो भीमसेस्य विक्रमम्
स सन्धाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान्
भीमं विव्याध समरे तिष्ठि तिष्ठेति चाब्रवीत्
कृपश्च कृतवर्मा च भगदत्तश्च वीर्यवान्
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे
दुर्मर्षणो विकर्णश्च दुष्कर्णश्चापि वीर्यवान्
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिश्शरैः
शल्यं विव्याध सप्तत्या पुनश्च दशभिश्शरैः
तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः
सारथिं चास्य भल्लेन पुनर्विव्याध मर्मणि
विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान्
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरुसि चार्पयत्
भगदत्तं तथा वीरः कृतवर्माणमाहवे
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः
ताडयामास समरे सिंहवाद्विननाद च
तेऽपि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदाः
त्रिभिस्त्रिभिरजिह्माग्रैर्भृशं मर्मस्वताडयन्
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे
पर्वतो वारिधाराभिर्सिच्यमान इवाम्बुदैः
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः
प्रग्ज्योतिषं शतेनाजौ राजन्विव्याध संयुगे
ततस्तु सशरं चापं सात्वतस्य महात्मनः
क्षुरप्रेण सुतीक्ष्णेन पातयामास भारत
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम्
आजघान भ्रुवोर्मध्ये नाराचेन परन्तपः
विरराज महाबाहुर्ललाटस्थेन पत्रिणा
एकश्रृङ्गो महाराज यथा पर्वतसत्तमः
अथ भीमो महाबाहुः क्रुद्धस्सर्वान्महारथान्
विमुखीकृत्य बाणाघैस्तस्थौ गिरिरिवाचलः
भीमस्तु समरे विद्ध्वा शल्यं नवभिराशुगैः
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः
द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान्
ते तु तं समरे राजन्विव्यधुर्निशितैश्शरैः
स तथा भिद्यमानोऽपि सर्वशस्त्रैर्महारथैः
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्छरान्
प्रेषयामासुरव्याग्राश्शतशोऽथ सहस्रशः
तस्य शक्तिं महावेगां भगदत्तो महारथः
चिक्षेप समरे वीरो हेमदण्डां महाधनाम्
तोमरं सैन्धवो राजा पट्टसं चैव सात्त्वतः
शतघ्नीं च कृपो राजञ्छरान्शल्यश्च संयुगे
तथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान्
भीमसेनं समुद्दिश्य प्रेषयामासुरञ्जसा
तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः
पट्टसं च त्रिभिर्बाणैश्चिच्छेद तिलशस्तथा
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः
शक्तिं चिच्छेद समरे भगदत्तेरितां रणे
तथेतराञ्शरान्घोराञ्शरैस्सन्नतपर्वभिः
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत्
ततो धनञ्जयस्तत्र वर्तमाने महारणे
आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम्
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ
नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभाः
दृष्ट्वाऽर्जुनो रणे भीमं योधयन्तं महारथान्
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्
आससाद रणे वीरांस्तावकान्दश भारत
ये स्म राजन्रणे भीमं योधयन्तो व्यवस्थिताः
बीभत्सुस्तानथाविध्यद्भीमस्य हितकाम्यया
ततो दुर्योधनो राजा सुशर्माणमचोदयत्
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः
दुर्योधनः-
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः
जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ
सञ्जयः-
तच्छ्रुत्वा शासनं तस्य त्रैगर्तः प्रस्थलाधिपः
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनाम्
रथैरनेकसाहस्रैः परिवव्रे समन्ततः
ततः प्रववृते युद्धमर्जुनस्य परैस्सह