सञ्जयः-
अथ वीरो महेष्वासो मत्तवारणविक्रमः
आददानो महच्चापं मत्तवारणवारणम्
विधुन्वानो धनुश्श्रेष्ठो द्रावयाणो महारथान्
पृतनां पाण्डवेयानां गाहमानो महारथः
निमित्तानि निमित्तज्ञस्सर्वतो वीक्ष्य वीर्यवान्
प्रतपन्तमनीकाग्रे द्रोणः पुत्रमभाषत
द्रोणः-
अयं स दिवसस्तात यत्र पार्थो महारथः
जिघांसुस्समरे भीष्मं परं यत्नं करिष्यति
उत्पतन्तीव मे बाणा धनुः प्रस्फुरतीव मे
योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः
दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति
नष्टप्रभ इवादित्यः लोहितास्सर्वतो दिशः
रवते चलते भूमिरनुष्ठनति वाहनम्
गृध्रा वार्ध्रवलाश्चैव व्याहरन्ति मुहुर्मुहुः
शिवाश्चाप्यशिवा घोरा वेदयाना महद्भयम्
ववाशिरे भयकरा दीप्तास्याभिमुखे रवेः
पपात महती चोल्का मध्येनादित्यमण्डलाम्
सकबन्धस्सपरिघो भानुमानुदतिष्ठति
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्
वेदयानो भयं घोरं राजमुख्यावकर्तनम्
देवतायतनस्थाश्च देवताः कौरवे बले
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च
अपसव्यं ग्रहाश्चेरुरलक्ष्माणं निशाकरम्
अधिश्शराश्च भगवानुपातिष्ठति चन्द्रमाः
वपूंषि च नरेन्द्राणां धार्तराष्ट्रस्य योधिनाम्
निष्प्रभाणि च गात्राणि न च भ्राजन्ति दंशिताः
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान्
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्स्वनः
ध्रुवमभ्येति बीभत्सुरुत्तमास्त्राणि संयुगे
अपास्य च रणे योधानभ्येष्यति पितामहम्
हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम्
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम्
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्
असङ्कल्पध्वजश्चैव याज्ञसेनिर्महाबलः
न चामङ्गल्पिते तस्मिन्प्रहरेत पितामहः
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम्
रिपुं प्रमुखतस्स्थाप्य भीष्मस्य सुमहात्मनः
अयं भीष्मं रणे पार्थः पातयेत रथोत्तमात्
युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसमागमः
मम चाप्यतिसंरम्भः प्रजानां नाशनं ध्रुवम्
मनस्वी बलवांश्चैव कृतास्त्रो लघुविक्रमः
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः
अजेयस्समरे चापि देवैरपि सवासवैः
बलवान्बुद्धिमांश्चैव तीर्णपारो युधां पतिः
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः
अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम्
तस्य मार्गं परिहरन्द्रुतं गच्छ पितामहम्
पश्य चैतं महाघोरे संयुगे वैशसं महत्
हेमचित्राणि शूरणां महान्ति च शुभानि च
कवचानि वशीर्यन्ते शरैस्सन्नतपर्वभिः
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च
प्रासाश्च विमलास्तीक्ष्णाश्शक्त्यश्च कनकोज्ज्वलाः
वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना
नायं संरक्षितुं कालः प्राणान्युद्धोपजीविनाम्
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च
हयनागरथावर्तां महाघोरां सुदुर्गमाम्
रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः
ब्रह्मण्यता तपो दानं स्वधीतं ज्ञानमेव च
यस्मिन्प्रतोष्ठितं पार्थे धर्मपुत्रे युधिष्ठिरे
बलवांस्तादृगुणो यस्य भ्राता धनञ्जयः
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ
वासुदेवश्च वार्ष्णेयो नाथो यस्य व्यवस्थितः
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः
तपो भावितदेहस्य कोपो दहति वाहिनीम्
एष सन्दृश्यते पार्थो वासुदेवव्यपाश्रयः
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना
महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम्
हाहाकिलकिलाशब्दाश्श्रूयन्ते च चमूमुखे
याहि पाण्डवादायादमहं योत्स्ये युधिष्ठिरम्
दुर्गमाभ्यन्तरो राज्ञो व्यूहस्तस्यामितौजसः
समुद्रकुक्षिप्रतिमस्सर्वतोऽतिरथैस्स्थितैः
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम्
उपेन्द्रसदृशश्यामो महासाल इवोच्छ्रितः
एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः
उत्तमास्त्राणि चादाय गृहीत्वाऽन्यन्महद्धनुः
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम्
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीस्समाः
क्षत्रधर्मं समाश्रित्य ततस्त्वां नियुजाम्यहम्
एष चापि रणे भीष्मो दहते च महाचमूम्
युद्धेऽपि सदृशस्तात यमस्य वरुणस्य च
सञ्जयः-
पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान्
महारणे महाराज धर्मराजमयोधयत्