सञ्जयः-
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे
आर्श्यशृङ्गिर्महावीर्यो वारयामास सायकैः
माधवस्तु महावीर्यो राक्षसं नवभिश्शरैः
आजघान रणे राजन्प्रहसन्निव भारत
तथैव राक्षसो राजन्माधवं नवभिश्शरैः
अर्दयामास राजेन्द्र सङ्क्रुद्धश्शिनिपुङ्गवम्
शैनेयश्शरसङ्घतान् प्रेषयामास संयुगे
राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्
विव्याध निशितैर्बाणैस्सिंहनाद ननाद च
माधवस्तु भृशं विद्धो राक्षसेन तदा रणे
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च
भगदत्तस्ततः क्रुद्धो माधवं निशितैश्शरैः
ताडयामास समरे तोत्रैरिव महाद्विपम्
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः
प्राग्ज्योतिषाय चिक्षेप शरान्सन्नतपर्वणः
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः
चिच्छेद शितधारेण भल्लेन कृतहस्तवत्
अथान्यद्धनुरादाय वेगवत्परवीरहा
भगदत्तं रणे क्रुद्धो विव्याध निशितैश्शरैः
सोऽतिविद्धो महेष्वासस्सृक्किणी परिसंलिहन्
शक्तिं कनकवैडूर्यहेमचित्रां तथाऽऽयसीम्
कालदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै
तामापतन्तीं सहसा तस्य बाहुबलेरिताम्
सात्यकिस्समरे राजन्द्विधा चिच्छेद सायकैः
सा हेमविकृता शक्तिर्माधवस्य भुजच्युतेः
निपपात शरैश्छिन्ना महोल्केव हतप्रभा
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते
महता रथवंशेन वारयामास माधवम्
ततः परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्
दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह
दुर्योधनः-
तथा कुरुत कौरव्या यथा वस्सात्यको युधि
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात्
अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम्
सञ्जयः-
तत्तथेति वचस्तस्य परिगृह्य महारथाः
शैनेयं योधयामासर्भीष्मस्य प्रमुखे तथा
अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे
काम्भोजराजो बलवान्वारयामास भारत
आर्जुनिं नृपतिर्विद्ध्वा शरैस्सन्नतपर्वभिः
पुनरेव चतुष्षष्ट्या राजन्विव्याध तं नृप
सुदक्षिणं च समरे पुनर्विव्याध पञ्चभिः
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम्
तद्युद्धमासीत्सुमहत्तयोः पुरुषसिंहयोः
तथाऽभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः
विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम्
भीष्मस्य युधि संरब्धौ प्राद्रवेतां महारथौ
अश्वत्थामा रणे क्रुद्धस्समायाद्रथसत्तमः
ततः प्रववृते युद्धं तयोस्तस्य च भारत
विराटो दशभिर्भल्लैराजघान परन्तप
यतमानं महेष्वासं द्रौणिमाहवशोभिनम्
द्रुपदश्च त्रिभिर्भल्लैर्विव्याध निशितैश्शरैः
गुरुपुत्रं समासाद्य भीष्मस्य प्रमुखे स्थितम्
अश्वत्थामा ततस्तौ तु विव्याध निशितैश्शरैः
विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्
यद्द्रौणेस्सायकान्घोरान्प्रत्यवारयतां युधि
सहदेवं तथाऽऽयान्तं कृपश्शारद्वतोऽभ्ययात्
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्
कृपश्च समरे शूरो माद्रीपुत्रं महारथम्
निजघान शरैस्तीक्ष्णैस्सप्तत्या रुक्मभूषणैः
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः
अथैनं छिन्नधन्वानं विव्याध निशितैश्शरैः
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम्
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैश्शरैः
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम्
तथैव पाण्डवो राजन्ब्राह्मणं वेदपारगम्
आजघान रणे क्रुद्धो भीष्मस्य वधकाङ्क्षया
तयोस्समभवद्युद्धं घोररूपं भयावहम्
नकुलं तु रणे शूरं विकर्णश्शत्रुतापनः
विव्याध सायकैष्षष्ट्या रक्षन्भीष्मं महाबलम्
नकुलोऽपि भृशं विद्धस्तव पुत्रं नरेश्वर
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः
तत्र तौ पुरुषव्याघ्रौ भीष्महेतोः परन्तपौ
ततक्षतुस्तदाऽन्योन्यं गोष्ठे गोवृषभाविव
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम्
दुर्मुखस्समरे प्रायाद्भीष्यहेतोः पराक्रमी
हैडिम्बं तं रणे राजन्दुर्मुखश्शत्रुतापनः
आजघानोरसि क्रुद्धो नवत्या निशितैश्शरैः
भीमसेनसुतश्चापि दुर्मुखः सुमुखैश्शरैः
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि
धृष्टद्युम्नं ततो यान्तं भीष्मस्य वधकाङ्क्षया
हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम्
हार्दिक्यं पार्षतश्शूरो विद्ध्वा पञ्चभिराशुगैः
पुनः पञ्चाशता तूर्णमाजघान महारथम्
तथैव पार्षतो राजन्हार्दिक्यं नवभिश्शरैः
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्नगैः
तयोस्समभवद्युद्धं भीष्महेतोर्महाहवे
अन्योन्यं निघ्नतोर्बाणैर् यथा वृत्रमहेन्द्रयोः
भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम्
भूरिश्रवा ययौ तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
सौमदत्तिरथो भीममाजघान स्तनान्तरे
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे
उरस्स्थेन च बाणेन भीमसेनः प्रतापवान्
स्कन्दशक्त्या यथा क्रौञ्चो विबभौ नृपते पुरा
तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान्
अन्योन्यस्य रणे क्रुद्धौ प्रेषयेतां नरोत्तमौ
कृतिप्रतिकृते यत्तौ चेष्टमानौ परस्परम्
भीमो भीष्मवधे यत्तस्सौमदत्तिं महारथम्
तदा भीष्मजये गृध्नुस्सौमदत्तिश्च पाण्डवम्
अयोधयेतां समरे तुल्यवेगौ नरोत्तमौ
युधिष्ठिरं महाराज महत्या सेनया वृत्तम्
भीष्मायाभिमुखं यान्तं भारद्वाजोऽभ्यवारयत्
तत्र युद्धमभूद्धोरं तयोः पुरुषसिंहयोः
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्
श्रुत्वा प्रभद्रका राजन्समकम्पन्त भारत
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे
द्रोणेन वारिता यत्ता न चचाल पदात्पदम्
चेकितान रणे क्रुद्धं भीष्मं प्रति जनेश्वर
चित्रसेनस्सुतस्तुभ्यं क्रुद्धश्शूरमुपाद्रवत्
भीष्महेतोः पराक्रान्तं चित्रसेनो महारथः
चेकितानं परं शक्त्या योधयामास भारत
तथैव चेकितानोऽपि चित्रसेनमयोधयत्
तदाऽऽसीत्तुमुलं युद्धं तयोस्तत्र महात्मनोः
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते
विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह
दुश्शासनोऽपि परया शक्त्या पार्थमवारयत्
कथं भीष्मं न नो हन्यादिति निश्चित्य भारत
पार्थोऽपि समरे राजन् दुश्शासनमताडयत्
ताडिते बहुधा पुत्रे पार्थबाणैरजिह्मगैः
बभूव व्यथिता सेना दृष्ट्वा पार्थपराक्रमम्
पुनश्च ताडिता तेन पार्थेनामितततेजसा
सा वध्यमाना समरे तव पुत्रस्य वाहिनी
लोड्यते रथिभिर्वीरैस्तत्रतत्रैव भारत