सञ्जयः-
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम्
शिखण्डिनमथोवाच समभ्योहि पितामहम्
न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः
अभ्यद्रवेतां गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः
अभ्यद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
नकुलस्सहदेवश्च धर्मराजश्च वीर्यवान्
तथेतराणि सैन्यानि समवेतानि भारत
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
प्रत्युद्ययुस्तावकाश्च समवेतान्महाबलान्
यथाशक्ति यथोत्साहं तन्मे निगदतश्शृणु
चित्रसेनो महाराजं चेकितानं समभ्यायात्
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम्
त्वरमाणं रणे यत्तं कृतवर्माऽभ्यवरायत्
भीमसेनं रणे यत्तं गाङ्गेयस्य वधैषिणम्
त्वरमाणं रणे यत्तस्सौमदत्तिरवारयत्
तथैव नकुलं शूरं किरन्तं सायकान्बहून्
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम्
सहदेवं तथाऽऽयान्तं राजन्भीष्मरथं प्रति
वारयामास सङ्क्रुद्धः कृपश्शारद्वतो युधि
राक्षसं घोरकर्माणं भैमसेनिं महाबलम्
भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली
सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिर्न्यवारयत्
भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति
सुदक्षिणो महावीर्यः काम्भोजः प्रत्यवारयत्
विराटद्रुपदौ वृद्धौ ससेनावरिमर्दनौ
अश्वत्थामा रणे क्रुद्धो वारयामास भारत
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम्
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्
अर्जुनं रभसं क्रुद्धं पुरस्कृत्य शिखण्डिनम्
भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश
दुश्शासनो महेष्वासो वारयामास संयुगे
अन्ये च तावका योधाः पाण्डवानां महारथान्
भीष्मस्याभिमुखान्यातान्वारयामासुराहवे
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः
धृष्टद्युम्नः-
अभ्यद्रवत संरब्धा भीष्ममेकं महारथम्
एषोऽर्जुनो रणे भीष्मं प्रयातः कुरुनन्दनः
अभिद्रवत माभैष्ट भीष्मो न प्राप्स्यते हि वः
अर्जुनं समरे योद्धुं नोत्सहेदपि वासवः
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः
सञ्जयः-
इति सेनापतेश्श्रुत्वा पाण्डवानां महारथाः
अभ्यद्रवन्त सङ्क्रुद्धा गाङ्गेयस्य रथं प्रति
आगच्छतस्तान्समरे वार्योघानचला इव
न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः
दुश्शासनो महाराज भयं त्यक्त्वा महारथः
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत्
अयोधयच्च समरे तव पुत्रो न्महारथाः
तत्राद्भुतमपश्याम चित्ररूपं विशां पते
दुश्शासनरथं प्राप्य यत्पार्थो नाभ्यवर्तत
यथा वारयते वेला क्षुब्धतोयं महार्णवम्
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्
उभौ तौ रथिनां श्रेष्ठावुभौ भारत दुर्जयौ
उभौ चन्द्रार्कसदृशौ दीप्त्या कान्त्या च भारत
तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ
दुश्शासनार्जुनौ वीरौ वृत्रेन्द्रसमतेजसौ
समीयतुर्महासङ्ख्ये यमशक्रौ यथा पुरा
दुश्शासनो महाराज पाण्डवं निशितैस्त्रिभिः
वासुदेवं च विंशत्या ताडयामास सायकैः
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम्
दुश्शासनं शतेनाजौ नाराचानां समार्पयत्
ते तस्य कवचं भित्त्वा पपुश्शोणितमाहवे
यथैव पन्नगा राजंस्तटाकं तृषितास्तथा
दुश्शासनस्ततः क्रुद्धः पार्थं विव्याध पत्रिभिः
ललाटे भरतश्रेष्ठ शरैस्सन्नतपर्वभिः
ललाटस्थैस्तु तैर्बाणैश्शुशुभे पाण्डवर्षभः
यथा मेरुर्महाराज शृङ्गैरत्यन्तमुच्छ्रितैः
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव
दुश्शासनं ततः क्रुद्धः पीडयामास पाण्डवः
पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम्
पीड्यमानो बलवता पुत्रस्तव विशां पते
विव्याध समरे पार्थं कङ्कपत्रैश्शिलाशितैः
तस्य पार्थो धनुश्छित्वा त्वरमाणः पराक्रमी
आजघान ततः पश्चात्पुत्रं ते निशितैश्शरैः
सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः
अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत्
तस्य क्रुद्धो महाराज पाण्डवश्शत्रुकर्शनः
अप्रैषयच्छरान्राजन्यमदण्डोपमान्बहून्
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव
यतमानस्य पार्थस्य तदद्भुतमिवाभवत्
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव
ततः क्रुद्धो रणे पार्थश्शरान्सन्धाय कार्मुके
प्रेषयामास निशितान् स्वर्णपुङ्खाञ्छिलाशितान्
न्यमञ्जंस्ते महाराज तस्य काये महात्मनः
यथा हंसा महाराज तटाकं प्राप्य भारत
पीडितश्चापि पुत्रस्ते पाण्डवेन महात्मना
हित्वा पार्थरथं तूर्णं भीष्मस्य रथमाश्रयत्
अगाधे मञ्जतस्तस्य भीष्मो द्वीपोऽभवत्तदा
प्रतिलभ्य ततस्सञ्ज्ञां पुत्रस्तव विशां पते
अवारयत्ततश्शूरो भूय एव पराक्रमी
शरैस्सुनिशितैः पार्थं यथा वृत्रः पुरन्दरः
निर्बिभेद महावार्यो विव्यथे च तदाऽर्जुनः
अर्जुनस्तु सुसङ्क्रुद्धस् तव पुत्रं महाबलम्
पुर्जघान समरे तदद्भुतमिवाऽभवत्