धृतराष्ट्रः-
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम्
पाञ्चाल्यस्समरे क्रुद्धो धर्मात्मानं यतव्रतम्
केऽरक्षन्पाण्डवायुद्धे शिखण्डिनमुदायुधम्
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः
कथं शान्तनवो भीष्मस्स तस्मिन्दशमेऽहनि
अयुध्यत महावीर्यैः पाण्डवैस्सह सृञ्जयैः
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना
कच्चिन्न रथभङ्गोऽस्य धनुर्वाऽस्य व्यशीर्यत
सञ्जयः-
नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत्
युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ
निघ्नतस्समरे शत्रूञ्शरैस्सन्नतपर्वभिः
अनेकशतसाहस्तावकानां महारथाः
तथा दन्तिगणा राजन्हायनामयुतानि च
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्
यथाप्रतिज्ञं कौरव्यस्स चापि समितिञ्जयः
पार्यानामकरोद्भीष्मस्सततं समिति क्षयम्
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः
पाञ्चालाः पाण्डवैस्सार्ध सर्वतस्समवारयन्
दशमेऽहनि सम्प्राप्ते भीष्मः कालाग्निसन्निभः
ददाह समरे वीरान् पाञ्चालान् पाण्डुसैनिकान्
कीर्यमाणां शितैर्बाणैश्शतशोऽथ सहस्रशः
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज
अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम्
अथोपायान्महाराज सव्यसाची धनञ्जयः
त्रासयन्रथिनस्सर्वान्बीभत्सुरपराजितः
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे
तस्य शब्देन वित्रस्तास्तावका भरतर्षभ
सिंहस्येव मृगा राजन्व्यद्रवन्त रणाजिरात्
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चापि पीडितम्
दुर्योधनस्ततो भीष्ममब्रवीद्भृशदुःखितः
दुर्योधनः-
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः
दहते मामकं सैन्यं कृष्णवर्त्मेव काननम्
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः
पण्डवेन युधि श्रेष्ठ काल्यमानानि संयुगे
यथा पशुगणान्पालस्सङ्कालयति कानने
तथेदं मामकं सैन्यं काल्यत्येष फल्गुनः
धनञ्जयशरैर्भग्नं द्रवमाणमतिस्ततः
भीमो ह्येष दुराधर्षो विद्रावयति मे बलम्
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ
अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः
विद्रावयेते सहसा सैन्यं मम महारणे
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः
अन्यां गतिं न पश्यामि स्थाते युद्धे च भारत
त्वामृते पुरुषव्याघ्र देवतुल्यपराक्रमम्
पर्याप्तस्तु भवान्क्षिप्रं पीडितानां गतिर्भव
सञ्जयः-
एवमुक्तो महाराज पिता देवव्रतस्तव
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः
पुत्रामाश्वासयत् तुभ्यं नृपते शन्तनोस्सुतः
भीष्मः-
दुर्योधन विजानीहि स्थिरो भूत्वा विशां पते
पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन्
प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम्
पूर्वकालं तव मया प्रतिज्ञातं महाबल
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम्
सङ्ग्रामादपयास्यामि ह्येतत्कर्म समाहितम्
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ
अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम्
अहं वा निहतस्स्वप्स्ये न हनिष्यामि पाण्डवान्
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः
किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः
अद्य ते पुरुषव्याघ्र प्रतमोक्ष्ये ऋणं महत्
भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे
सञ्जयः-
इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रहरञ्छरैः
आससाद दुराधर्षः पाण्डवानामनीकिनीम्
अकम्पयद्दुराधर्षश् शरैस्सन्नतपर्वभिः
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ
आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन्
दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन
पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम्
सारोहाणां महाराज हयानामयुतं शुभम्
पूर्णे शतसहस्रे द्वे पत्तीनां च नरोत्तमः
प्रजज्वाल रणे भीष्मो द्वितीय इव पावकः
न चैनं पाण्डवेयानां केचिच्छक्ता निरीक्षितुम्
उत्तरां दिशमास्थाय तपन्तमिव भास्करम्
ते पाण्डवेवास्संरब्धा महेष्वासेन पीडिताः
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः
स वध्यमानो बहुभिर्भीष्मश्शान्तनवस्तदा
अवकीर्णो महेष्वासश्शैलो मेघैरिवावृतः
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन्
महत्या सेनया सार्धं ततो युद्धमवर्तत