धृतराष्ट्रः-
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे
पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय
सञ्जयः-
ततः प्रभाते विमले सूर्यस्योदयनं प्रति
वाद्यमानासु भेरीषु मृदङ्गेष्वाहतेषु च
ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः
शिखण्डिनं पुरस्कृत्य निर्ययुः पाण्डवा युधि
रजन्कृत्वा महाव्यूहं सर्वशत्रुनिबर्हणम्
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते
चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान्
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभो
प्रययौ सिंहनादेन नादयन्भरतर्षभ
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः
द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत्
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान्
जघनं पालयामासुः पाण्डवेयश्च राक्षसः
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम्
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः
तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम्
अग्रतस्सर्वसैन्यानां प्रययुः पाण्डवान्प्रति
पुत्रैस्तव दुराधर्षो रक्षितस्सुमहाबलैः
प्रययौ पाण्डवानीकं भीष्मश्शन्तनुनन्दनः
ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ
काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः
तथेतरे महेष्वासास्सुशर्मप्रमुखा नृपाः
जघनं पालयामासुस्तव सैन्यस्य भारत
दिवसे दिशमे प्राप्ते भीष्मश्शान्तनवो युधि
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान्
ततः प्रववृते युद्धं तव तेषां च भारत
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम्
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्
तत्र भारत भीमेन ताडितास्तावकाश्शरैः
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा
नकुलस्सहदेवश्च सात्यकिश्च महारथः
तव सैन्यं समासाद्य पीडयामासुरोजसा
ते वध्यामानास्समरे तावका भरतर्षभ
नाशक्नुवन्धारयितुं पाण्डवानां महद्बलम्
ततस्तु तावकं सैन्यं हन्यमानं समन्ततः
सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः
त्रातारं नाध्यगच्छन्त तावकास्तु विशां पते
वध्यमानाश्शितैर्बाणैः पाण्डवैस्सहसृञ्जयैः
धृतराष्ट्रः-
पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय
तं कथं पाण्डवा युद्धे प्रत्युद्याताः परन्तपाः
निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय
सञ्जयः-
आचक्षे ते महाराज यदकार्षीत्पिता तव
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः
प्रहृष्टमनसश्शूराः पाण्डवाः पाण्डुपूर्वज
अभ्यवर्तन्त युध्यन्तस्तव पुत्रस्य वाहिनीम्
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम्
नामृष्यत तदा भीष्मस्सैन्यघातं तदा परैः
स पाणडवान्महेष्वासः पञ्चालान्सहसृञ्जयान्
अभ्यद्रवद्दुराधर्षस्त्यक्त्वा जीवितमात्मनः
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान्
आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु
रथिनः पातयन्राजन्रथेभ्यः पुरुषर्षभ
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च धरातलात्
गजारोहान्गजेभ्यश्च परेषां विदधद्भयम्
तमेकं समरे भीष्मं चरमाणं महारथम्
पाण्डवास्समवर्तन्त वज्रहस्तमिवासुराः
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान्
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत
सङ्ग्रामे युध्यमानस्य शक्रचापोपमं महत्
दृष्ट्वा तत्समरे कर्म पुत्रास्तव विशां पते
विस्मायं परमं प्राप्ताः पितामहमपूजयन्
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम्
दशमेऽहनि निष्पन्नं रथानीकं शिखण्डिनः
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम्
तं शिखण्डी त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम्
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मश्शिखण्डिनम्
पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत्
भीष्मः-
कामं प्रहर वा मा वा न त्वां योत्स्ये कथञ्चन
यैव त्वं विहिता धात्रा सैव त्वं हि शिखण्डिनी
सञ्जयः-
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः
उवाच भीष्मं समरे सृक्विणी परिसंलिहन्
शिखण्डी-
जानामि त्वां महाबाहो क्षत्रियाणां भयङ्करम्
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह
दिव्यश्च ते प्रभावोऽयं मया च बहुशश्श्रुतः
जनन्नपि प्रभावं ते त्वया योत्स्येऽम्यहं सह
पाण्डवानां प्रियं कुर्वन्नात्मनश्च महाप्रियम्
अद्य त्वां योधयिष्यामि रणे भारतसत्तम
कृपां त्यक्त्वा हनिष्यामि शपे सत्येन तेऽग्रतः
एतज्ज्ञात्वा वचो मह्यं यत्क्षमं तत्समाचर
कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे
सुदृष्टः क्रियतामद्य लोकोऽयं कुरुनन्दन
सञ्जयः-
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः
अविध्यत रणे राजन्प्रतुदन्वाक्छरैर्भृशम्
तस्य तद्वचनं श्रुत्वा सव्यसाची धनञ्जयः
कालोऽयमिति निश्चित्य शिखण्डिनमचोदयत्
अर्जुनः-
अहं त्वामनुयास्यामि परान्वित्रासयन्रणे
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम्
न हि ते संयुगे पीडां कर्तुं शक्ताो महाबलाः
तस्मादद्य महाबाहो वीरं भीष्ममभिद्रव
अहत्वा समरे भीष्म यदि यास्यसि भारतम्
अवहास्योऽस्य लोकस्य भविष्यसि मया सह
नापहास्या यथा वीर भवेम परमाहवे
तथा कुरु रणे यत्नं सादयस्व पितामहम्
कुरूंश्च सर्वान्सहितान्यतमानान्महाबलान्
अहमावारयिष्यामि सादयस्व पितामहम्
अहं ते रक्षणं युद्धे करिष्यामि परन्तप
वारयन्रथिनस्सर्वान्सादयं त्वं पितामहम्
द्रोणं च द्रोणपुत्रं च कृपं च ससुयोधनम्
चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम्
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम्
भगदत्तं महाशूरं मागधं च बृहद्बलम्
सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम्
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः
अहमावारयिष्यामि सादयस्व पितामहम्॥