सञ्जयः-
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप
वासुदेवं समुद्वीक्ष्य वक्यमेतदुवाच ह
युधिष्ठिरः-
पश्य कृष्ण माहात्मानं भीष्मं भीमपराक्रमम्
गजं नलवनानीव विमृद्गन्तं बलं मम
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम्
मम माधव सैन्येषु वध्यमानेषु तेन वै
कथं योतयाम दुर्धर्षं श्रेयो मेऽत्र विधीयताम्
त्वमेव गतिरस्माकं नान्यां गतिमुपास्महे
न युद्धं रोचते मह्यं भीष्मेण सह माधव
हन्ति भीष्मो महावीरो मम सैन्यं च संयुगे
यथा घोरो महानागस्तक्षको वै विषोल्बणः
तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापनः
गृहीतचापस्समरे प्रविमुञ्चञ्शिताञ्छरान्
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्
वरुणः पाशभृच्चापि सगदो वा धनेश्वरः
न तु भीष्मस्सुसङ्क्रुद्धश्शक्यो जेतुं महामृधे
एवं भीष्मं न शक्तास्स्म वयं जेतुं महाहवे
सोऽहमेवं गते कृष्ण निमग्नश्शोकसागरे
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे
वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतिः
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नस्सदा
यथा प्रज्वलितं वह्निं पतङ्गस्समभिद्रवन्
एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान्
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी
भ्रातरश्चैव मे शुरास्सायकैर्भृशपीडिताः
मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्
जीवितस्यावशेषेण चरिष्ये धर्ममुत्तमम्
यदि तेऽहमनुग्राह्यो भ्रातृभिस्स केशव
स्वधर्मस्याविरोधेन तदुदाहर केशव
सञ्जयः-
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्
प्रत्युवाच ततः कृष्णस्सान्त्वयानो युधिष्ठिरम्
श्रीभगवान्-
धर्मपुत्र विषादं त्वं मा कृथास्सत्यसङ्गर
यस्य ते भ्रातरश्शूरा दुर्जयाश्शत्रुसूदनाः
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वनौ
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव
त्वप्रयुक्तो ह्यहं राजन् किं न कुर्यां महाहवे
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभ
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः
यदि भीष्मे हते वीरे जयं पश्यसि पण्डव
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम्
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात्
यश्शत्रुः पाण्डुपुत्राणां मच्छत्रुस्स न संशयः
मदर्था भवदर्थास्ते ये मदीयास्तवैव ते
तव भ्राता मम सखा सम्बन्धी शिष्य एव च
मांसान्युत्कृत्य दास्येऽहमर्जुनार्थे महीपते
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्
एष नस्समयस्तात रमयेम परस्परम्
स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम्
प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन धीमतः
पातयिष्यामि गाङ्गेयमित्युलूकस्य सन्निधौ
परिरक्ष्यं मम कृतं वचः पार्थस्य धीमतः
अनुज्ञाते तु पार्थेन मया कार्यं न संशयः
अथवा फल्गुनस्यैष भारः परिमितो रणे
निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम्
अशक्यमपि कुर्याद्धि रणे पार्थस्समुद्यतः
त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः
निहन्त्यादर्जुनस्सङ्ख्ये किमु भीष्मं नराधिप
विपरीतो महावीर्यो गतसत्त्वोऽल्पचेतनः
भीष्मश्शान्तनवो नूनं कर्तव्यं नावबुध्यते
युधिष्ठिरः-
एवमेतन्महाबाहो यथा वदसि माधव
सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे
नियतं समावाप्स्यामि सर्वमेव यथेप्सितम्
यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर
त्वया नाथेन गोविन्द किमु भीष्मं महाहवे
न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात्
अयुध्यमानास्सहाय्यं यथोक्तं कुरु माधव
समयस्तु कृतः कश्चिन्मम भीष्मेण माधव
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कदाचन
दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव
तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः
भवता सहितास्सर्वे पृच्छामो मधुसूदन
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम्
रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय मा चिरम्
स वक्ष्यति हितं वाक्यं तथ्यमस्माज्जनार्दन
यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे
स मे जयस्य दाता च मन्त्रस्य च यतव्रतः
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम्
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव
पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम्
सञ्जयः-
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम्
श्रीभगवान्-
रोचते मे महाबाहो सततं तव भाषितम्
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्
गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम्
वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्
प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम भारत
स नो दास्यति सन्मन्त्रं यं तेन योत्स्यामहे परान्
सञ्जयः-
एवं सम्मन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज
जग्मुस्ते सहितास्सर्वे वासुदेवश्च वीर्यवान्
विमुक्तकवचास्सर्वे भीष्मस्य सदनं प्रति
प्रविश्य च ततो भीष्मं शिरोभिः प्रणिपेदिरे
पूजयन्तो महाराज पाण्डवा भरतर्षभम्
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः
भीष्मः-
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा
किं वः कार्यं करोम्यद्य युष्मत्प्रीतिविवर्धनम्
युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ
सर्वात्मनाऽपि कर्तास्मि यद्यपि स्यात्सदुष्करम्
सञ्जयः-
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः
उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः
युधिष्ठिरः-
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि
प्रजानां च क्षयो न स्यात्कथं तन्मे बद प्रभो
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः
भवन्तं समरे तात विषहेम कथं वयम्
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह
मण्डलेनैव धनुषा दृश्यसे संयुगे सदा
आददानं सन्दधानं विकर्षन्तं धनुर्न च
पश्यामस्त्वां महाबाहो रथे सूर्यमिव स्थितम्
रथाश्वनरनागानां हन्तारं परवीरहन्
कथमुत्सहते हन्तुं त्वां पुमान्भरतर्षभ
वर्षता शरवर्षाणि महान्ति पुरुषर्षभ
क्षयं निता हि पृतना भवता महती मम
यथा युधि जयेम त्वां यथा राज्यं भवतन्मम
भवेत्सैन्यस्य नो हानिस्तन्मे ब्रूहि पितामह
सञ्जयः-
ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज
भीष्मः-
न कथञ्चन कौन्तेय मयि जीवति संयुगे
युष्मासु दृश्यते वृद्धिस्सत्यमेतद्ब्रवीमि ते
निर्जिते मयि युद्धे तु ध्रुवं जेष्यसि कौरवान्
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम्
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम्
एवं हि सुकृतं मन्ये भवतां विदितोऽस्म्यहम्
हते मयि हतं सर्वं तस्मादेवं विधीयताम्
युधिष्ठिरः-
ब्रूहि तत्त्वमुपायं नो यथा युद्धे जयेमहि
भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम्
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा
न भवान्समरे शक्यस्सेन्द्रैरपि सुरासुरैः
भीष्मः-
सत्यमेतन्महाबाहो यथा वदसि पाण्डव
नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः
न्यस्तशस्त्रे हि मां राजन् हन्युर्युधि महारथाः
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे
द्रवमाणे च भीते च तवास्मीति च वादिनि
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके
अप्रसूते च षण्डे च न युद्धं रोचते मम
इमं मे शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम्
असङ्कल्पध्वजं दृष्ट्वा न युध्येयं कथञ्चन
य एष द्रौपदो राजंस्तव सैन्ये महारथः
शिखण्डी समरामर्षी शूरश्च समितिञ्जयः
यथाऽभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम्
अर्जुनस्समरे शूरः पुरस्कृत्य शिखण्डीनम्
मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः
असङ्कल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः
न प्रहर्तुमभीप्सामि गृहीतेषुः कथञ्चन
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ
न तं पश्यामि लोकेषु मां हन्यात्समुद्यतम्
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात्
पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः
मां पातयतु बीभत्सुरेवं ते विजयो भवेत्
एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम
ततो जेष्वसि सङ्ग्रामे धार्तराष्ट्रान्समागतान्
सञ्जयः-
तेऽनुज्ञातास्ततः पार्था जग्मुस्वशिबिरं प्रति
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम्
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते
अर्जुनो दुःखसन्तप्तस्सव्रीळमिदमब्रवीत्
अर्जुनः-
गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता
पितामहेन सङ्ग्रामे कथं योत्स्यास्मि माधव
क्रीडता हि मया बाल्ये वासुदेव महाद्युतिः
पांसुरूषितगात्रेण महात्मा परुषीकृतः
यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत
इति मामब्रवीद्बाल्ये यस्स वध्यः कथं मया
सैन्यं मे हन्यतां कामं नाहं योत्स्ये महात्मना
जयोऽस्तु वा वधो वा मे कथं वा कृष्ण मन्यसे
कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम्
न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे
श्रीभगवान्-
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि
पातयैनं रथात्पार्थ वज्रपणिरिवाचलम्
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति
दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते
हन्ता भीष्मस्य पार्थोऽपि इति यन्न तदन्यथा
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम्
त्वदन्यश्शक्नुयाद्योद्धुमपि वज्रधरस्स्वयम्
जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः
ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम्
आततायिनमायान्तं हन्याद्धातकमात्मनः
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः
अर्जुनः-
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम्
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते
ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम्
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियास्यति
श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम्
कन्या ह्येषा पुरा जाता पुरुषस्समपद्यत
सञ्जयः-
अर्जुनस्य वचश्श्रुत्वा भीष्मस्य वधसंयुतम्
जहृषुर्हृष्टरोमाणस्सकृष्णाः पाण्डवास्तदा
इत्येवं निश्चयं कृत्वा पाण्डवास्सहमाधवाः
अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः
शयनानि यथाऽर्हाणि भेजिरे पुरुषर्षभाः