सञ्जयः-
ततः पितामहः क्रुद्धो निशितैस्सायकोत्तमैः
आजघान रणे पार्थान्सहसैन्यान्परन्तपः
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिश्शरैः
नकुलं च त्रिभिर्बाणैस्सहदेवं च पञ्चभिः
युधिष्ठिरं च नवभिर्बाह्वोरुरसि चार्पयत्
सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः
धृष्टद्युम्नं त्रिभिर्विद्ध्वा विननाद महाबलः
नकुलः पञ्चविंशत्या माधवश्च त्रिभिश्शरैः
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम्
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमुखानपि
एकैकं पञ्चभिर्बाणैर्यमदण्रिवाहनत्
ते च तं प्रत्यविध्यन्त त्रिभिस्त्रिभिरजिह्मगैः
तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम्
सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः
अभीषाहाश्शूरसेनाश्शिबयोऽथ वसातयः
सङ्ग्रामे न जहुर्भीष्मं वध्यमानाश्शितैश्शरैः
तथैवान्ये महीपाला पाण्डवेयैर्महात्मभिः
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः
तथैव पाण्डवा राजन्परिवव्रुः पितामहम्
स समन्तात्परिवृतो रथौघैरपराजितः
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान्
रथाश्वाङ्गारश्चापार्चिरसिशक्तिगजेन्धनः
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान्
यथा हि सुमहानग्निः कक्षे चरसि सानिलः
तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन्
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैस्सुतेजनैः
कर्णिनालीकनाराचैश्छादयामास तद्बलम्
अपातयद्ध्वजांश्चैव रथिनश्च शितैश्शरैः
मुण्डतालवनानीव चकार स रथव्रजान्
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे
अकरोत्स महाबाहुस्सर्वशस्त्रभृतां वरः
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः
निशम्य सर्वभूतानि समकम्पन्त भारत
अमोघाश्चापतन्बाणास्संयुगे भरतर्षभ
नासज्जन्त तनुत्रेषु भीष्मचापच्युताश्शराः
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः
अपश्याम महाराज ह्रियमाणान्रणाजिरे
चेदिकाशिकरूशानां सहस्राणि चतुर्दश
महारथास्समाख्याताः कलपुत्रास्तनुत्यजः
अपरावर्तिनस्सर्वे सुवर्णविकृतध्वजाः
सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्
निमग्नाः परलोकाय सवाजिरथकुञ्जराः
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत
अपश्याम रथान्राजन्शतशोऽथ सहस्रशः
सवरूथै रथैयुगै रथिभिश्च निपातितैः
अश्वैश्च कवचैश्छिन्नैः पट्टसैश्च विशां पते
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च भारत
बाहुभिः कार्मुकैः खङ्गैश्शिरोभिश्च सकुण्डलैः
तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः
चापैश्च बहुधा च्छिन्नैस्समास्तीर्यत मेदिनी
गजारोहा गजान्राजन्हयांश्च हयसादिनः
अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः
पतमाना हि ते वीरा द्रवमाणा महारथाः
नाशक्नुवन्धारयितुं भीष्मबाणप्रपीडिताः
महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च द्वौ सम्प्रधावताम्
आविद्धरथनागाश्वं पदातिध्वजकुञ्जरम्
अनीकं पाण्डुपुत्राणां हाहाकारमचेतनम्
जघाना च पिता पुत्रं पुत्रस्तु पितरं तथ
प्रियं सखायं चाक्रन्दत्सखा दैवबलात्कृतः
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः
प्रकीर्य केशान्धावन्तस्समदृश्यन्त भारत
तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकुञ्जरम्
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा
प्रभज्यमानं तत् सैन्यं दृष्ट्वा यादवनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्
श्रीभगवान्-
अयं स कालस्सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया
प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने
यत्पुरा कथितं वीर त्वया राज्ञां समागमे
विराटनगरे पार्थं सञ्जयस्य समीपतः
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम
क्षत्रधर्ममनुस्मृत्य युध्यस्व पुरुषर्षभ
सञ्जयः-
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः
अकाम इव बीभत्सुरिदं वचनमब्रवीत्
अर्जुनः-
बन्धूनां च वधं कृत्वा राज्यं च नरकोत्तरम्
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत्
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम्
सञ्जयः-
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः
यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे
ततो भीष्मः कुरुश्रेष्ठस्सिंहवद्विनदन्मुहुः
धनञ्जयरथं शीघ्रं पूरयामास पत्रिभिः
क्षणेन सहयस्तस्य सरथस्सहसारथिः
शरवर्षेण महता न प्राज्ञायत किञ्चन
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय वीर्यवान्
चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्स्वनम्
पातयामास भीष्मस्य धनुश्छित्त्वा शितैश्शरैः
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
चकर्ष विततो दोर्भ्यां धनुर्जलदनिस्स्वनम्
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः
तस्य तत्पूजयामास लाघवं शन्तनोस्सुतः
साधु पार्थ महाबाहो साधु कुन्तीसुतेति च
स सम्भाष्यैनमपरं प्रगृह्य रुचिरं धनुः
मुमोच समरे भीष्मश्शरान्पार्थरथं प्रति
अचोदयद्वासुदेवो हयान्पार्थस्य संयुगे
अगोचरान् भीष्ममार्गे कृत्वाऽन्यत्र च संस्थितान्
मोघान्कुर्वञ्शरांस्तस्य मण्डलानि प्रदर्शयन्
सारथ्यं निपुणं कुर्वन्प्रत्यदृश्यत संयुगे
भीष्मस्तावत्सुसङ्क्रुद्धः पुनर्बाणान्मुमोच ह
पार्थाय युधि राजेन्द्र तदद्भुतमिवाभवत्
अर्जुनस्तु सुसङ्क्रुद्धः पितामहमरिन्दमः
अवर्षद्बाणवर्षेण योद्धुं ह्यभिमुखे स्थितम्
तावुभौ युधि दुर्धर्षौ युयुधाते परस्परम्
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्कितौ
शुशुभाते नरव्याघ्रो तावुभौ शरविक्षतौ
भीष्मोऽतीव सुसङ्क्रुद्धः पृषत्कैरर्जुनं बलात्
जघान समरे मूर्ध्नि सिंहवद्विनदन्मुहुः
वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम्
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले
नामृष्यत महाबाहुर्माधवः परवीरहा
वासुदेवस्सुसङ्क्रुद्धो रोषाज्जज्वाल संयुगे
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष
क्रुद्धो नाम महायोगी प्रचस्कन्द रथोत्तमात्
अभिदुद्राव भीष्मं स भुजप्रहरणो बली
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः
दारयन्निव पद्भ्यां तु जगतीं जगदीश्वरः
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः
ग्रसन्निव च तेजांसि तावकानां महाहवे
दृष्ट्वा च देवकीपुत्रं भीष्मायोद्यतमन्तमाहवे
हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः
क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः
शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाऽम्बुदः
स सिंह इव मातङ्गं यथर्षभ इवर्षभम्
अभिदुद्राव तेजस्वी विनदन्यादवर्षभः
तमापतन्तं तु सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे
असम्भ्रमेण भीष्मोऽपि विचकर्ष महद्धनुः
उवाच चैव गोविन्दमसम्भ्रान्तेन चेतसा
भीष्मः-
एह्येहि पुण्डरीकाक्ष वासुदेव नमोऽस्तु ते
मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे
त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ
श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च
सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे
सञ्जयः-
अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम्
निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः
जगाम चैनमादाय वेगेन पुरुषोत्तमः
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा
स जग्राह हृषीकेशं कथञ्चिद्दशमे पदे
ततश्चैनमुवाचेदं क्रोधपर्याकुलेक्षणम्
निश्श्वसन्तं यथा नागमर्जुनः प्रणयात्सखा
अर्जुनः-
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि
यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव
मिथ्यावादीति लोके त्वां कथयिष्यन्ति माधव
ममैष भारस्सर्वो हि हनिष्यामि यतव्रतम्
शपे माधव सख्येन सत्येन सुकृतेन च
अन्तमद्य करिष्यामि शत्रूणां शत्रुकर्शन
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम्
तारापतिमिवापूर्णमन्तकाले यदृच्छया
सञ्जयः-
माधवस्तद्वचश्श्रुत्वा फल्गुनस्य महात्मनः
अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्
न किञ्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः
तौ रथस्थौ नरव्याघ्रौ भीष्मश्शान्तनवः पुनः
ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ
प्राणानादत्त योधानां पिता देवव्रतस्तव
गभस्तिभिरिवादित्यः पयांसि शिशिरात्यये
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवाः
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता
हतविद्रुतसैन्यास्तु निरुत्साहा हतौजसः
निरीक्षितुं न शेकुस्तं भीष्ममप्रतिमं रणे
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा
ते वध्यमाना भीष्मेण कालनेव युगक्षये
वीक्षाञ्चक्रुर्महाराज पाण्डवा भयपीडिताः
वध्यमाना रणे चापि भीष्मेणामित्रकर्शिना
त्रातारं नाधिगच्छन्ति गाजाः पङ्कगता इव
पिपीलिका यथा पद्भ्यां मथ्यन्ते बलवत्तरैः
तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना
समरे मृदितास्सर्वे पाण्डवास्सह सृञ्जयैः
महारथं भारत दुष्प्रधर्षणं शरौघिणं प्रतपन्तं नरेन्द्रान्
भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम्
विमृद्गतस्तस्य हि पाण्डुसेनामस्तं जगामाथ सहस्ररश्मिः
ततोऽपि भीष्मस्सबलाससैन्यान्न्यवारयत्पाण्डुसुताञ्शरौघैः
जघान चैतान्सुभृशं महाबलो महाव्रतः पाण्डुसुतान्महास्त्रैः
रणे करूणाधिपचेदिपैर्बलैर्वृतान्सदा चक्रधरस्य पश्यतः
ततो बलानां श्रमकर्शितानां मेदोवसासृक्स्रुतिसम्भ्रमे सति
भीष्मं यथा चान्तककल्पमेवम् आयोधने चान्तकमेव मेनिरे
एवं प्रववृते युद्धं भीष्मपाणडवयोस्तदा
युध्यतां च परेषां च तावकानां च भारत
सुचिरं बहुधा राजन् भास्करोऽस्तमुपागमत्
सञ्जयः-
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते
सन्ध्या समभवद्धोरा नापश्याम ततो रणम्
ततो युधिष्ठिरो राजा सन्ध्यां सन्दृश्य भारत
बध्यमानं बलं चापि भीष्मेणामित्रघातिना
निरुत्साहं बलं दृष्ट्वा पीडितं शरविक्षतम्
मुक्तशस्त्रं परावृत्तं पलायनपरायणम्
भीष्मं च युधि संरब्धमनुयान्तं महारथम्
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्
निशामुखं च सम्प्रेक्ष्य घोररूपं भयानकम्
चिन्तयित्वा महाराजस्ततः परमचिन्तयत्
कथं जयेम भीषं वै महाबलपराक्रमम्
बुद्धिं स्वशिबिरं गन्तुं चक्रे राजा युधिष्ठिरः
ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः
तथैव तव सैन्यानामपहारो ह्यभूत्तदा
ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः
न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे शरविक्षताः
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः
नालभन्त तदा शान्तिं भृशं भीष्मेण ताडिताः
भीष्मोऽपि समरे जित्वा पाण्डवान्सृञ्जयैस्सह
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत
न्यविशत्कुरुशार्दूलैर्हृष्टरूपैस्समन्ततः
ततो रात्रिस्समभवत्सर्वभूतप्रमोहिनी
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिस्सह
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन्
आत्मनिश्श्रेयसे मन्त्रं प्राप्तकालं महाबलाः
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः
हनिष्याम यथा भीष्मं जयेम पृथिवीभिमाम्