सञ्जयः-
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम्
यथा मेघैर्महाराज तपान्ते दिवि भास्करम्
दुर्योधनो महाराज दुश्शासनमभाषत
दुर्योधनः-
एष भीष्मो महेष्वासश्शूरश्शत्रुनिषूदनः
छादितः पाण्डवैश्शूरैस्समन्ताद्भरतर्षभः
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैस्सह
तच्च कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं विशेषतः
स भवान्सर्वसैन्येन परिवार्य पितामहम्
समरे दुष्करं कर्म कुर्वाणं परिपालय
सञ्जयः-
एवमुक्तस्तु समरे पुत्रो दुश्शासनस्तव
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः
पालयामास महता यत्नेन च सुसंयतः
ततश्शतसहस्रेण हयानां सुबलात्मजः
विमलप्रासहस्तानां यष्टितोमरधारिणाम्
दर्पितानां सुवेगानां बलस्थानां पताकिनाम्
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः
एवं बहुसहस्रैश्च योधानां युद्धशालिनाम्
संवृतश्शकुनिस्तस्थौ युद्धायैव सुदंशितः
नकुलस्सहदेवश्च धर्मपुत्रश्च पाण्डवम्
न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः
ततो दुर्योधनो राजा शूराणां हयसादिनाम्
अयुतं प्रेषयामास शकुनेः प्रियकाम्यया
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे
शुशुभे स महातेजाश्शकुनिस्सुबलात्मजः
तैरश्वैस्सुमहावेगैर्मरुद्भिरिव वासवः
खुराहता धरा राजंश्चकम्पे च ननाद च
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा
महावंशवनस्येव दह्यमानस्य पर्वते
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः
दिवाकररथं प्राप्य छादयामास भास्करम्
वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम्
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः
तुरगैर्वायुवेगैश्च तत् सैन्यं व्याकुलीकृतम्
हेषतां चैव शब्देन न प्राज्ञायत किञ्चन
अतस्तदा महान्घोषस्तुरगाणामभूच्छ्रुतः
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम्
उद्धूतस्य महाराज प्रावृषीव महोदधेः
पौर्णमास्यामम्बुवेगं यथा वेला दधार ह
ततस्ते रथिनो राजञ्शरैस्सन्नतपर्वभिः
न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम्
विनिपेतुर्महाराज निहता दृढधन्विनः
नागैरिव महादृप्तैर्यथा स्युर्गिरिगह्वरे
तेऽपि प्रासैस्सुनिशितैश्शरैस्सन्नतपर्वभिः
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश
अभ्याहता हयारोहा शक्तिभिर्भरतर्षभ
न्यपतन्त महाराज वातरुग्णा इव द्रुमाः
कायेभ्यो न्यपतन् भूमावुत्तमाङ्गनि सादिनाम्
फलानि कालपक्वानि द्रुमेभ्यः पतितान्यधः
समादिनो हया राजंस्तत्रतत्र निषूदिताः
पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सङ्घशः
वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः
यथा सिंहं समासाद्य मृगाः प्राणपरायणाः
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे
दध्मुश्शङ्खांश्च भेरीश्च ताडयामासुराहवे
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यमवस्थितम्
अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः
दुर्योधनः-
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मे बलम्
पश्यतां नो महाबाहो सेनां द्रावयते बली
तं वारय महाबाहो वेलेव मकरालयम्
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्
प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः
तदापतद्वै सहसा शल्यस्य सुमहद्बलम्
महौघमिव शैलेन्द्रो वारयामास पाण्डवः
मद्रराजं तु समरे धर्मराजो युधिष्ठिरः
दशभिस्सायकैस्तूर्णमाजघान स्तनान्तरे
नकुलस्सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः
युधिष्ठिरं पुनष्षष्ट्या विव्याध निशितैश्शरैः
माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत्
पुनस्स बहुभिर्बाणैरजघान युधिष्ठिरम्
ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा
अभ्यद्रवत सङ्ग्रामे मद्रराजममित्रहा
आपतन्नेव भीमस्तु मद्रराजमताडयत्
सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः
ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ
राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्
अपरां दिशमास्थाय द्योतमाने दिवाकरे
क्षीणप्रभे महाराज गन्तुमस्ताद्रिमिच्छति