सञ्जयः-
एकीभूतास्ततस्सर्वे कुरवः पाण्डवैस्सह
अयुध्यन्त महारङ्गे मध्यं प्राप्ते दिवाकरे
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः
नाकम्पयत शैनेयः किरन्बाणान्सहस्रशः
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शरैस्त्रिभिः
पुनर्विव्याध सप्तया सारथिं च त्रिभिश्शरैः
भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम्
विद्ध्वाऽनदन्महाराज गवां मध्ये यथा वृषः
अर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः
चित्रसेनं त्रिभिर्बाणैर् विव्याध हृदये भृशम्
तौ वौ समागतौ युद्धे पितापुत्रौ विरेजतुः
यथा समागतौ राजन्काले बुधनिशाकरौ
तस्याश्वांश्चतुरो हत्वा सूतं च नचभिश्शरैः
ननाद बलवान्नादं सौभद्रः परवीरहा
हताश्वात् तु रथात् तूर्णमवप्लुत्य महारथः
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते
द्रोणश्च द्रुपदं विद्ध्वा शरैस्सन्नतपर्वभिः
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्
भीमसेनस्तु राजानं महूर्तादिव बाह्लिकम्
व्यश्वसूतरथं चक्रे सर्वलोकस्य पश्यतः
ससम्भ्रमो महाराज संशयं परमं गतः
अवप्लुत्य ततो यानाद्बाह्लीकः पुरुषर्षभः
आरुरोह रथं तूर्णं लक्ष्मणस्य महात्मनः
अर्जुनश्च नरव्याघ्रस्सुशर्मप्रमुखान्रथान्
अजयद्रथिनां श्रेष्षस्सर्वानप्रतिमान्रणे
सुशर्माऽपि ततो बाणैः पार्थं विव्याध वै तदा
वासुदेवं च सप्तत्या पार्थं च नवभिश्शरैः
तान्निवार्य शरौघेण शक्रसूनुर्महारथः
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम्
ते हन्यमानाः पार्थेन कालेनेव युगक्षये
व्यद्रवन्त रणे राजन्भये जाते महामृधे
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च भारत
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश
अपरे तुद्यमानस्तु वाजिनागरथा नराः
त्वरया परया युक्ताः प्राद्रवन्त विशां पते
कशाभिस्ताडयामासुः पार्ष्णिभिश्च मुहुर्मुहुः
हयारोहा द्रवन्त्यैव चोदयन्तो हयोत्तमान्
तथा तोत्रनिपातैश्च अङ्कुशानां च विभ्रमैः
गजारोहा गजांस्तूर्णं त्वरयन्तः प्रदुद्रुवुः
रथिनश्च प्रतोदैश्च वाग्मिश्चैवः पुनः पुनः
भर्त्सयन्तो हयान्राजन्प्राद्रवन्त दिशो दश
पादाताश्चैव शस्त्राणि समुत्सृज्य महारणे
निरपेक्षाभ्यधावन्त तेन तेन स्म भारत
वार्यमाणास्सुबहुशस्त्रैगर्तेन सुशर्मणा
तथान्यैः पार्थिवश्रेष्ठैर्नावतिष्ठन्त संयुगे
पुत्रांश्च पतितान्भूमौ मातुलांश्च पितॄंस्तथा
सोदरांश्चावमृद्गन्तो दुद्रुवुस्ते समन्ततः
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रस्तव विशां पते
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम्
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत्
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते
स एकस्समरे तस्थौ किरन्बहुविधाञ्शरान्
भ्रातृभिस्सहितस्सर्वैश्शेषा हि प्रद्रुता नराः
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः
हाहाकारकृतोत्साहाद्भीष्मं जग्मुस्समन्ततः
ततस्तालध्वजश्शूरः पाण्डवानामनीकिनीम्
छादयामास समरे शरैस्सन्नतपर्वभिः
सात्यकिः कृतवर्माणं वारयित्वा महारथम्
शरैर्बहुविधै राजन्नाससाद पितामहम्
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवापिभिः
नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः
हेमचित्रां महावेगां नागकन्योपमां शुभाम्
तामापतन्तीं सहसा मृत्युकलोपमां शुभाम्
पीडयामास वार्ष्णेयो लाघवेन महायशाः
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा
न्यपतद्धरणीपृष्ठे महोल्केव हतप्रभा
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम्
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति
वार्ष्णेयभुजवेगेन प्रयुक्ता सा महारवा
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम्
तामापतन्तीं सहसा द्विधा चिच्छेद भारतः
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सा व्यशीर्यत मेदिनीम्
छित्त्वा शक्तिं तु गाङ्गयस्सात्यकिं नवभिश्शरैः
आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः
ततस्सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
परिवब्रू रणे भीष्मं माधवत्राणकारणात्
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
पाण्डवानां कुरूणां च समरे विजयैषिणाम्