सञ्जयः-
मध्याह्ने तु महाराज सङ्ग्रामस्समपद्यत
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम्
व्यधमन्निशितैर्बाणैश्शतशोऽथ सहस्रशः
सम्ममर्द च तत्सैन्यं पिता देवव्रतस्तव
मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम्
धृष्टद्युम्नश्शिखण्डी च विराटो द्रुपदस्तथा
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथाः
धृष्टद्युम्नं ततोऽविध्यद्भीष्मश्शरशतैश्शितैः
धृष्टकेतुं च दशभिर्विराटं द त्रिभिश्शरैः
द्रुपदाय द नाराचान् प्रेषयामास वै दश॥
ततो विद्धा महेष्वासा भीष्मेणामित्रकर्शिना
चुक्रुधुस्समरे राजन्पदस्पृष्टा इवोरगाः
कोपेन प्राज्वलन् वीरा हव्यसिक्ता इवाग्नयः
शिखण्डिनं न विव्याध भारतानां पितामहः
स्त्रियं च समनुध्यात्वा नास्मै प्राहरदच्युतः
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन्
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
द्रुपदः पञ्चविंशत्या विराटो दशमिश्शरैः
शिखण्डी चापि विंशत्या भीष्मं विव्याध सायकैः
सोऽतिविद्धो महाराज भीष्मस्सङ्ख्ये महात्मभिः
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः
द्रुपदस्य च भल्लेन धनुश्चिच्छेद भारत
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः
सारथिं च त्रिभिर्बाणैर्निशितै रणमूर्धनि
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः
केकया भ्रातरः पञ्च सात्यकिश्चैव माधवः
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया
प्रतिरक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे
तथैव तावकास्सर्वे भीष्मरक्षार्थमुद्यताः
प्रत्युद्ययुः पाण्डुसेनां सहसेना नराधिप
तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम्
नराश्वरथनागानां यमराष्ट्रविवर्धनम्
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्
हयो हयं समासाद्य गजो नागं तथैव च
योधो योधं समासाद्य प्रत्ययुध्यत भारत
तेऽन्योन्यं समरे जघ्नुश् शरैस्सन्नतपर्वभिः
प्रेषयन्परलोकाय परस्परजिगीषया
अस्त्रैश्च विविधैस्तत्र योधा जघ्नुस्तथा रथान्
रथाश्च रथिभिर्हीना हतसारथयस्तथा
प्रविद्रुताश्वास्समरे दिशो जग्मुस्समन्ततः
मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः
कुण्डलोष्णीषिणस्सर्वे निष्काङ्गदविभूषणाः
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि
ऋद्ध्या वैश्रवणेनैव विनयेन बृहस्पतेः
सर्वलोकेश्वराश्शूरास्तत्र तत्र विशां पते
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः
मृद्गन्तस्स्वान्यनीकानि निपेतुस्सर्वशब्दगाः
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च भारत
कक्ष्याभिरथ तोत्रैश्च घण्टाभिस्तोमरैस्तथा
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश
नगमेघप्रतीकाशैर्जलदोपमनिस्स्वनैः
तथैव दन्तिभिर्हीनान्गजारोहान्महारणे
धावमानानपश्याम तव तेषां च सङ्कुले
नानादेशसमुत्थांश्च तुरगान्हेमवर्मितान्
वातायमानानद्राक्षं शतशोऽथ सहस्रशः
अश्वारोहान्रथैरश्वैर्गृहीतासन्हिसमन्ततः
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे
गजो गजं समासाद्य द्रवमाणो महारणे
ययौ विमृद्गंस्तरसा पादातान्वाजिनस्तथा
तथैव च रथान्राजन्प्रममर्द रणे गजः
रथाश्चैव समासाद्य पदातींस्तुरगांस्तथा
व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम्
दृश्यन्ते स्म महाबाहो तत्र तत्र महाबलाः
तस्मिन्रौद्रे महायुद्धे वर्तमाने भयावहे
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
अस्थिसञ्चयसङ्घाटा केशशैवलशाद्वला
रथह्रदा शरावर्ता हयमीना दुरासदा
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला
कवचोष्णीषफेनौघा धनुर्मीनासिपन्नगा
शङ्खनक्रौघसम्पूर्णा छत्रकूर्मरथोडुपा
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी
क्रव्यादहंससङ्कीर्णा यमराष्ट्रविवर्धनी
तां नदीं क्षत्रियाश्शूरा हयनागरथप्लवैः
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति
क्षत्रियाः-
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्
दुर्योधनापराधेन क्षयं गच्छन्ति पार्थिवाः
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः
सञ्जयः-
एवं बहुविधा वाचश्श्रूयन्तेऽस्मासु भारत
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः
ता निशम्य ततो वाचस्सर्वयोधैरुदाहृताः
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत
दुर्योधनः-
सञ्जयः-
युध्यध्वमनहङ्कराः जयार्थं मे जनेश्वराः
इति दुर्योधनोत्सृष्टास्सर्वे युयुधिरे नृपाः
ततः प्रववृते युद्धं कुरूणां पाण्डवैस्सह
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा
यत्पुरा त्वं न गृह्नीषे वार्यमाणो महात्मभिः
वैचित्रवीर्य पश्येदं फलं तस्य यथातथम्
न हि पाण्डुसुता राजन्ससैन्यास्सपदानुगाः
रक्षन्ति समरे प्राणान्कौरवाणां विशां पते
एतस्मात्कारणाद्धोरो वर्तते स्म जनक्षयः
दैवाद्वा पुरुषव्याघ्र तव पापतया नृप