धृतराष्ट्ः-
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः
समेयतां रणे वीरौ तन्ममाचक्ष्व सञ्जय
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय
तावुभौ रथिनो सङ्ख्ये हृप्तौ सिंहाविवोत्कटौ
कथं समीयतुर्युद्धे भारद्वाजधनञ्जयौ
सञ्जयः-
तं द्रोणस्समरे पार्थं जानीते प्रियमात्मनः
क्षत्रधर्मं पुरस्कृत्य द्रोणोऽयुध्यत पाण्डवम्
तथैव पाण्डवो द्रोणं वेत्त्येव प्रियमात्मनः
क्षत्रधर्मरतो नित्यं क्षत्रधर्मेण युध्यत
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम्
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिस्सह
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिश्शरैः
नाचिन्तयच्च तान्बाणान्पार्थबाणासनच्युतान्
शरवृष्ट्या पुनः पार्थं छादयामास संयुगे
स वै जज्वाल रोषेण गगनेऽग्निरिवोत्थितः
ततोऽर्जुनं रणे द्रोणं शरैस्सन्नतपर्वभिः
वारयामास राजेन्द्र नचिरादेव भारत
ततो दुर्योधनो राजा सुशर्माणमचोदयत्
द्रोणस्य समरे राजन्पार्ष्णिग्राहककारणात्
त्रिगर्तराजस्सङ्क्रुद्धो भृशमायम्य कार्मुकम्
छादयामास समरे पार्थं बाणैरयोमुखैः
ताभ्यां मुक्ताश्शरा राजन्नन्तरिक्षे विरेजिरे
हंसा इव महाराज शरत्काले नभस्स्थले
ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो
फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः
अर्जुनस्तु रणे राजन्विनद्य रथिनां वरः
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः
ते वध्यमानाः पार्थेन कालेनेव युगक्षये
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः
मुमुचुश्शरवृष्टिं च पाण्डवस्य रथं प्रति
शरवृष्टिं ततस्तां तु शरवर्षैण पाण्डवः
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम्
विमुक्तां बहुभिश्शूरैश्शरावृष्टिं दुरासदाम्
यदेको वारयामास मारुतोऽभ्रगणानिव
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्स्थलम्
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान्
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्
शैलमन्यं महाराज घोरमस्त्रं मुमोच ह
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे
प्रशशाम ततो वयुः प्रसन्नाश्च दिशोऽभवन्
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान्
निरुत्साहान्रणे चक्रे विमुखान्निष्पराक्रमान्
ततो दुर्योधनो राज कृपश्च रथिनां वरः
अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः
विन्दानुविन्दावावन्त्यौ बाह्लिकस्सह बाह्लिकैः
महता रथवंशेन पार्थस्यावारयन्दिशः
तथैव भगदत्तश्च श्रतायुश्च महाबलः
गजानीकेन भीमस्य ताववारयतां दिशः
भूरिश्रवाश्शलश्चैव कौसलश्च विशां पते
शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन्
भीष्मस्तु सहितस्सर्वैर्धार्तराष्ट्रस्य सैनिकैः
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत्
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः
लोलिहन्सृक्किणी वीरो मृगराडिव कानने
ततस्तु बलिनां श्रेष्ठो गदां गृह्य महाहवे
अवप्लुत्य रथात्तूर्णं तव गिर्यग्रादिव केसरी
स तस्थौ सगदो भीमस् सश्रृङ्ग इव पर्वतः
सिंहो दृष्ट्वा मृगं यद्वत् तव सैन्यं विभीषयन्
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजयोधिनः
परिवव्रू रणे भीमं यत्रादेव समन्ततः
गजमध्यमनुप्राप्तः पाण्डवस्स व्यराजत
मेघजालस्य महतो यथा मध्यगतो रविः
व्यधमत्स गजानीकं गदया पाण्डवर्षभः
महाभ्रजालमतुलं मातरिश्वेव सन्ततम्
ते वध्यमाना बलिना भीमसेनेन दन्तिनः
आर्तनादन्रणे चक्रुर्गर्जन्तो जलदा इव
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः
फुल्लाशोकनिभः पार्थश्शुशुभे रणमूर्धनि
सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः
वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि
विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम्
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत्
विषाणेन च तेनैव दन्तेष्वाहत्य दन्तिनः
पातयामास समरे दण्डपाणिरिवान्तकः
शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः
सिक्ताङ्गश्शोणितेनैव रुद्रवत्प्रत्यदृश्यत
एवं ते वध्यमानास्तु हतशेषा महागजाः
प्राद्रवन्त दिशो राजन्विमृद्गन्तस्स्वकं बलम्
द्रवद्भिस्तैर्महानागैस्समन्ताद्भरतर्षभ
दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम्