धृतराष्ट्रः-
आर्जुनं समरे शूरं विनिघ्नन्तं महारथान्
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय
आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे
धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय
भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः
नकुलस्सहदेवो वा सात्यकिर्वा महारथः
एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय
सञ्जयः-
हन्ते तेऽहं सम्प्रवक्ष्यामि सङ्ग्रामं रोमहर्षणम्
यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च भारत
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः
नकुलस्सहदेवश्च रणे चक्रुः पराक्रमम्
तथैव तावकास्सर्वे भीष्मद्रोणपुरोगमाः
अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत्
अलम्बुसस्तु समरे अभिमन्युं महारथम्
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्
सौभद्रोऽपि रणे राजन् सिंहवद्विनदन् मुहुः
अलम्बुसं महेष्वासं पितुरत्यन्तवैरिणम्
ततस्समीपतुस्सङ्ख्ये त्वरितौ नरराक्षसौ
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ
मायावी राक्षसश्रेष्ठो दिव्यास्त्रश्चापि फाल्गुनिः
ततः कर्ष्णिर्महाराज निशितैस्सायकैस्त्रिभिः
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः
अलम्बुसोऽपि समरे कार्ष्णि नवभिराशुगैः
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम्
ततश्शरसहस्रेण क्षिप्रकारी निशाचरः
अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः
विव्याध निशिसैर्बाणै राक्षसस्य महोरसि
ते तस्य विविशु क्षिप्रं कायं निर्भिद्य मर्मणि
स तैर्विभिन्नसर्वाङ्गश् शुशुभे राक्षसोत्तमः
पुष्पितैः किंशुकै राजन् सङ्कीर्ण इव पर्वतः
स सन्दधानश्च शरान् हेमपुङ्खान् महाबलः
विबभौ राक्षसश्रेष्ठस् सज्वाल इव पर्वतः
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः
तेन ते विशिखा मुक्ता यमदण्डोपमाश्शराः
अभिमन्युं विनिर्भिद्य प्राविशन्त महीतलम्
तथैवार्जुनिना मुक्ताश् शराः काञ्चनभूषणाः
अलम्बुसं विनिर्भिद्य प्राविशन्नवनीतलम्
सौभद्रस्तु रणे रक्षश् शरैस्सन्नतपर्वभिः
चक्रे विमुखमासाद्य बलं शक्र इवाहवे
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम्
ततस्तु तमसा पूर्वं वृतमासीन्महीपते
नाभिमन्युं प्रपश्यामस् तमसा संवृतं तदा॥
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः
ततः प्रकाशमभवज् जगत् सर्वं महीपते
तां चाभिजघ्निवान् मायां राक्षसस्य दुरात्मनः
सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः
छादयामास समरे शरैस्सन्नतपर्वभिः
ततो बहुविधा मायाः प्रयुक्तास्तेन रक्षसा
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः
हतमायं ततो रक्षो वध्यमानं च सायकैः
रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात्
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे
आर्जुनिस्समरे सैन्यं तावकं सम्ममर्द ह॥
मदान्धो वन्यनागेन्द्रस्सपद्मां पद्मिनीमिव
ततश्शान्तनवो भीष्मो दृष्ट्वा सैन्यमभिद्रुतम्
महता रथवंशेन सौभद्रं पर्यवारयत्
कोष्ठीकृत्य महावीरं धार्तराष्ट्रा महाबलाः
एकं तु बहवो युद्धे ततक्षुस्सायकैभृशम्
स तेषां रथिनां वीरः पितृतुल्यपराक्रमः
सदृशो वासुदेवस्य विक्रमेण बलेन च
उभयोस्सदृशं कर्म स र्मातुलस्य पितुस्तथा
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः
ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान्
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः
तथैव समरे राजन्पिता देवव्रतस्तव
आससाद रणे पार्थं स्वर्भानुरिव भास्करम्
ततस्सरथनागाश्वाः पुत्रास्तव विशां पते
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम्
रणाय महते युक्ता दंशिता भरतर्षभ
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम्
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत्
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शरैः कृपम्
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम्
गौतमोऽपि त्वरायुक्तो माधवं नशितैश्शरैः
हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः
गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम्
तमापतन्तं वेगेन शक्राशनिसमद्युतिम्
द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः
समुत्सृज्य तु शैनेयो गौतमं रथिनां वरम्
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत
अथैनं छिन्नधन्वानं ताडयामास सायकैः
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम्
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत्
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः
प्रतिलभ्य ततस्सञ्ज्ञां द्रोणपुत्रः प्रतापवान्
वार्ष्णेयं समभिक्रुद्धो नाराचेन समर्पयत्
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम्
वसन्तकाले द्युतिमान्बिलं सर्पशिशुर्यथा
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम्
चिच्छेद समरे द्रौणिस्सिंहनादं ननाद ह
पुनश्चैनं शरैर्घोरैश्छादयामास भारत
निदाघान्ते महाराज यथा मेघो दिवाकरम्
सात्यकोऽपि महाराज शरजालं निहत्य तत्
द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा
तापयामास च द्रौणिं सिंहनादं ननाद च
पुनश्चैव शरैर्घोरैश् शैनेयः परवीरहा
छादयामास वै द्रौणिं महामेघ इवाचलम्
द्रौणिस्तद्बाणजालं तु छित्त्वा कोपसमन्वितः
विमुक्तश्शरजालेन मेघमुक्तो यथा शशी
स शराणां सहस्रेण पुनरेनं समुद्यतम्
सात्यकिश्छादयामास ननाद च महाबलः
दृष्ट्वा पुत्रं तदा ग्रस्तं राहुणेव निशाकरम्
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान्
विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे
परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम्
सात्यकिस्तु रणे हित्वा द्रोणपुत्रं महारथम्
द्रोणं विव्याध सप्तया सर्वपारशवैश्शरैः
तदन्तरममेयात्मा कौन्तेयश्श्वेतवाहनः
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः
ततो द्रोणश्च पार्थश्च समेयातां महामृधे
यथा बुधश्च शुक्रश्च महाराज नभस्स्थले