सञ्जयः-
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः
अभिदुद्राव तेजस्वी दुर्योधनबलं महत्
विकिरञ् शरवर्षाणि वारिधारा इवाम्बुदः
न शेकुस्समरे क्रुद्धं सौभद्रमपराजितम्
क्रोडरूपं हरिमिव प्रविशन्तं महार्णवम्
सेनासागरमक्षोभ्यं प्रविशन्तं तथाऽऽर्जुनिम्
न निवारयितुं शक्तास् त्वदीयाः कुरुपुङ्गव
तेन मुक्ता रणे राजञ् शराश्शत्रुनिबर्हणाः
नयन्ति क्षत्रियाञ् शूरान् प्रेतराजनिवेशनम्
यमदण्डोपमान् घोराञ् ज्वलिताशीविषोपमान्
सौभद्रस्समरे क्रुद्धः प्रेषयामास सायकान्
रथानं स रथात् तूर्णं हयापृष्ठाच्च सादिनम्
गजारोहं च सगजं पातयामास फाल्गुनिः
तस्य तत् कुर्वतः कर्म महत् सङ्ख्येऽद्भुतं नृपाः
पूजयाञ्चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम्
तान्यनीकानि सौभद्रो द्रावयन् बह्वशोभत
तूलराशिमिवाधूय मारुतस्सर्वतो दिशम्
तेन विद्राव्यमाणानि तव सैन्यानि भारत
त्रतारं नाध्यगच्छन्त पङ्कमग्ना इव द्वीपाः
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम
अभिमन्युस्स्थितो राजन् विधूमोऽग्निरिव ज्वलन्
न चैनं तावकः कश्चित् सहते रिपुघातिनम्
प्रदीप्तं ज्वलनं यद्वत् पतङ्गः कालचोदिताः
प्रहरन् सर्वशत्रुभ्यः पाण्डवानां महारथः
अदृश्यत महेष्वासस् सवज्र इव वासवः
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः
तोयदेषु महाराज यथा शक्रधनुर्महत्
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे
वनात् फुल्लद्रुमाद्राजन् भ्रमराणामिव व्रजाः
तथैव चरतस्तस्य मण्डलानि महात्मनः
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्
सैन्धवं च महेष्वासम् अन्यांश्चैव महीपतीन्
विकिरन् निशितैर्बाणैर् व्यचरल्लघु सुष्ठुः च
मण्डलीकृतमेवास्य धनुः पश्याम भारत
सूर्यमण्डलसङ्काशं प्रतपत् तव वाहिनीम्
तं दृष्ट्वा क्षत्रियाश्शुराः प्रतपन्तं शरार्चिषा
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः
तेनार्दिता महाराज भारती सा महाचमूः
वभ्राम तत्र तत्रैव योषिन्मदवशादिव
द्रावयित्वा ततस्सैन्यं कम्पयित्वा महारथान्
नन्दयामास सुहृदो बलं जित्वेव वासवः
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे
चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम्
तं श्रुत्वा निनदं घोरं तस्य सैन्यस्य भारत
मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि
दुर्योधनस्तदा राजन् आर्श्यशृङ्गिमभाषत
दुर्योधनः-
एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः
चमूं द्रावयते क्रोधाद् वृत्रो देवचमूमिव
तस्य चान्यं प्रपश्यामि संयुगे भेषजं महत्
ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम्
त्वं गत्वा त्वरितं वीरं जहि सौभद्रमाहवे
वयं पार्थान् हनिष्यामो भीष्मद्रोणपुरस्सराः
सञ्जयः-
एवमुक्तस्स बलवान् राक्षसेन्द्रः प्रतापवान्
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्
नर्दमानो महानादं प्रावृषीव बलाहकः
तस्य शब्देन महता पाण्डवानां महद्बलम्
प्राचलत् सर्वतो राजन् पूर्यमाण इवार्णवः
बहवश्च महाराज तस्य नादेन भीषिताः
प्रियान् प्राणान् परित्यज्य निपेतुर्धरणीतले
कार्ष्णिश्चापि समायुक्तः प्रगृहीतशरासनः
नृत्यन्निव रथोपस्थे तद्रक्षस्समुपाद्रवत्
ततस्स राक्षसः क्रुद्धस् सम्प्राप्यैवार्जुनिं रणे
नातिदूरे स्थितां तस्मिन् द्रावयामास वै चमूम्
सा वध्यमानां समरे पाण्डवानां महाचमूः
प्रत्यद्ययौ रणे रक्षो देवसेना यथा बलिम्
विमर्दस्सुमहानासीत् तस्य सैन्यस्य मारिष
रक्षसा घोररूपेण वध्यमानस्य संयुगे
ततश्शरसहस्त्रैस्तां पाण्डवानां महाचमूम्
व्यद्रावयद्रणे रक्षो दर्शयन् वै पराक्रमम्
सा वध्यमाना समरे पाण्डवानां महाचमूः
रक्षसा घोररूपेण प्रदुद्राव रणे भयात्
तां प्रमृद्य ततस्सेनां पद्मिनीं वारणो यथा
ततोऽभिद्रद्राव रणे द्रौपदेयान् कुमारकान्
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः
राक्षसं दुद्रुवुस्सङ्ख्ये ग्रहाः पञ्च यथा रविम्
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः
यथा युगक्षये घोरैश् चन्द्रमाः पञ्चभिर्ग्रहैः
प्रतिविन्ध्यस्ततो रक्षो बिभेद दशभिश्शरैः
सर्वपारशवैस्तूर्णम् अकुण्ठाग्रैर्महाबलः
स तैर्भिन्नतनुत्राणश् शुशुभे राक्षसाधिपः
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान्
विषक्तैस्सशरैश्चापि तपनीयपरिच्छदैः
आर्श्यशृङ्गिर्बभौ राजन् दीप्तशृङ्ग इवाचलः
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे
विव्यधुर्निशितैर्बाणैस् तपनीयविभूषितैः
स निर्भिन्नश्शरैर्घोरैर् भुजगैः कोपितैरिव
अलम्बुसो भृशं राजन् नागेन्द्र इव चुक्रुधे
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः
प्रतिलभ्य ततस्सञ्ज्ञां क्रोधेन द्विगुणीकृतः
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च
एकैकं च त्रिभिर्बाणैर् आजघान स्मयन्निव
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः
त्वरमाणो भृशं क्रुद्धो हयांस्तेषां महात्मनाम्
जघान राक्षसः क्रुद्धस् सारथींश्च महाबलः
बिभेद च सुसंरब्धः पुनश्चैनान् सुसंशितैः
शरैर्बहुविधाकारैश् शतशोऽथ सहस्रशः
विरथांश्च महेष्वासान् कृत्वा तत्र स राक्षसः
अभिदुद्राव वेगेन हन्तुकामो निशाचरः
तानर्दितान् रणे तेन राक्षसेन दुरात्मना
दृष्ट्वाऽर्जुनसुतस्सङ्ख्ये राक्षसं समुपाद्रवत्
तयोस्समभवद्युद्धं वृत्रवासवयोरिव
ददृशुः पाण्डवास्सर्वे पार्थिवाश्च महारथाः
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्
उद्दृत्य चक्षुषी राजन् क्रोधात् प्रस्फुरिताधरौ
महाबलौ महावीर्यो क्रोधसंरक्तलोचनौ
परस्परमवेक्षेतां कालानलसमौ युधि
आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम्
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा
तयोस्समागमो घोरो बभूवात्यन्तदारुणः