सञ्जयः-
ततश्शान्तनवो भीष्मो निर्ययौ सेनया सह
अव्यूहत महाव्यूहं सर्वतोभद्रमाहवे
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः
शकुनिस्सैन्धवश्चैव काम्भोजश्च सुदक्षिणः
भीष्मेण सहितास्सर्वे पुत्रैश्च तव भारत
अग्रतस्सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः
द्रोणो भूरिश्रवाश्शल्यो भगदत्तश्च मारिष
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः
अश्वत्थामा सोमदत्तस् तथाऽऽवन्त्यौ महारथौ
महत्या सेनया गुप्ता वामपार्श्वमपालयन्
दुर्योधनो महाराज त्रिगर्तैस्सर्वतो वृतः
व्यूहमध्ये स्थितो राजा पाण्डवान् प्रति भारत
अलम्बुसो रथश्रेष्ठश् श्रुतायुश्च महारथः
पृष्ठतस्सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ
एवमेतं महाव्यूहं कृत्वा भारत तावकाः
सन्नद्धास्समपद्यन्त प्रतपन्त इवाग्नयः
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः
नकुलस्सहदेवश्च द्रौपदेयाश्च सर्वशः
अग्रतस्सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः
स्थितास्सैन्येन महता परानीकविनाशनाः
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान्
स्थिता रणाय महते महत्या सेनया वृताः
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः
केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयाः
पाण्डवास्समरे शूरास् स्थिता युद्धाय मारिष॥
तावकास्तु रणे यत्तास् सहसैन्या नराधिपाः
अभ्युद्ययू रणे पार्थान् भीष्मं कृत्वाऽग्रतो नृप
तथैव पाण्डवा राजन् भीमसेनपुरोगमाः
भीष्मं योद्धुमभिययुस् सङग्रामे विजिगीषवः
क्ष्वेलान् किलकिलाशब्दान् कृकरान् गोविषाणकान्
भेरीमृदङ्गपटहान् नादयन्तश्च वारिजान्
पाण्डवा अभ्यधावन्त नदन्तो भैरवान् रवान्
भेरीमृद्गशङ्खानां दुन्दुभीनां च निस्स्वनैः
उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः
अस्माकं प्रतिशब्दैश्च तदासीत् तुमुलं महत्
सहसा ह्यभिसङ्क्रुद्धा नदन्तो भैरवस्वनान्
ततोऽन्योन्यं प्रधावन्तस् सम्प्रहारं प्रचक्रिरे
ततश्शब्देन महता प्रचकम्पे वसुन्धरा
पक्षिणश्च महाघोरं व्याहरन्तो विवभ्रमुः
सप्रभश्चोदितस्सूर्यो निष्प्रभस्समपद्यत
ववुश्च तुमुलाः वाताश् शंसन्तस्सुमहद्भयम्
घोराश्च घोरनिर्ह्रादाश् शिवास्तत्र ववाशिरे
वेदयन्त्यो महाराज महद्वैशसमागतम्
दिशः प्रज्वलिता राजन् पांसुवर्षं पपात च
रुधिरेण समुन्मिश्रम् अस्थिवर्षं तथैव च
रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम्
प्रसुस्रुवुश्शकृन्मूत्रं प्रध्यायन्तो विशां पते
अन्तर्हिता महानादाश् श्रूयन्ते भरतर्षभ
रक्षसां पुरुषादानां नदतां भैरवान् रवान्
सम्पतन्तस्स दृश्यन्ते गोमायुबळवायसाः
श्वानश्च विविधैर्नादैर् भषन्तस्तत्र भारत
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम्
निपेतुस्सहसा भूमौ वेदयाना महद्भयम्
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः
चकम्पिरे शङ्खमृदङ्गनिस्स्वनैः प्रकम्पितानीव वनानि वायुना
नरेन्द्रनागाश्वसमाकुलानां समाकुलानामशिवे मुहूर्ते
बभूव घोषस्तुमुलश्चमूनां वातोद्धतानामिव सागराणाम्