सञ्जयः-
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः
दुश्शासनश्च कितवस् सूतपुत्रश्च वीर्यवान्
समागम्य महाराज मन्त्रयाञ्चक्रिरे मिथः
कथं पाण्डुसुता युद्धे जेतव्यास्सगणा इति
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः
सूतपुत्रं समाभाष्य सौबलं च महामतिम्
दुर्योधनः-
द्रोणो भीष्म कृपश्शल्यस् सौमदत्तिश्च संयुगे
न पार्थान् प्रतिबाधन्ते न जाने किं नु कारणम्
अवध्यमानास्ते चापि क्षपयन्ति बलं मम
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे
त्वय्युद्धविमुखे चापि जितश्चास्मि हि पाण्डवैः
द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम
भीमसेनेन राधेय मम चैवानुपश्यतः
निकृतः पाण्डवैश्शूरैर् अवध्यैर्दैवतैरपि
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम्
सञ्जयः-
एवमुक्तस्तु राधेयो दुर्योधनमरिन्दमम्
ततोऽब्रवीन्महाराज सूतपुत्रो नराधिपम्
कर्णः-
मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव
भीष्मश्शान्तनवस्तूर्णम् अपयातु महारणात्
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत
अहं पार्थान् हनिष्यामि सहितान् सर्वसोमकैः
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप
पाण्डवेषु दयां नित्यं राजन् भीष्मः करोति वै
अशक्तश्च रणे भीष्मो जेतुमेतान् महारथान्
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः
स कथं पाण्डवान् युद्धे जेष्यते तात सङ्गतान्
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति
अनुमान्य गुरुं भीष्मं शस्त्रं त्याजय भारत
न्यस्तशस्त्रे ततो भीष्मे निहतान् पश्य पाण्डवान्
मयैकेन रणे राजन् ससुहृद्गणबान्धवान्
सञ्जयः-
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव
अब्रवीद्भ्रातरं तत्र दुश्शासनमिदं वचः
दुर्योधनः-
सञ्जयः-
अनुयानं यथा सर्वं सज्जं भवति सर्वतः
दुश्शासन तथा क्षिप्रं सर्वमेवोपपादय
एवमुक्त्वा ततो राजन् कर्णमाह जनेश्वरः
दुर्योधनः-
अनुमान्य रणे भीष्मम् एषोऽहं द्विपदां वरम्
आगमिष्ये पुनः क्षिप्रं त्वत्समीपमरिन्दम
ततस्त्वं पुरुषव्याघर प्रहरिष्यसि संयुगम्
सञ्जयः-
एवमुक्त्वा ततो राजन् सुतो दुर्योधनस्तव
निष्पपात ततस्तूर्णं सानुगस्ससयुहृज्जनः
सहितो भ्रातृभिस्सार्थं देवैरिव शतक्रतुः
ततस्तं नृपशार्दूलश् शार्दूलसमविक्रमम्
आरोपयद्धयं तूर्णं भ्राता दुश्शासनस्तदा
अङ्गदी बद्धमुकुटो हस्ताभरणवान् नृपः
धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन्
तदा पुष्पनिकाशेन तपनीयनिभेन च
अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना
विरजोम्बरसंवीतस् सिंहखेलगतिर्नृपः
शुशुभे विमलार्चिष्मान् नभसीव दिवाकरः
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति
अनुजग्मुर्महेष्वासास् सर्वलोकेषु मानिनम्
भ्रातरश्च नरव्याघ्रास् त्रिदशा इव वासवम्
हयानन्ये समारुह्य गजानन्ये च भारत
रथानन्ये नरश्रेष्ठाः परिवव्रुस्सुतास्तव
पदातयश्च त्वरिता नखरप्रासयोधिनः
परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम्
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः
प्रादुर्बभूवुः पुत्राश्च शक्रस्येव तदाऽमराः
सम्पूज्यमानः कुरुभिः कौरवाणां महारथः
प्रययौ सदनं राजन् गाङ्गेयस्य यशस्विनः
तमन्वयुर्महाराज सोदरास्सर्वतो रथैः
पृष्ठे पुरस्तात् प्रययुर् वामदक्षिणपार्श्वयोः
परिवार्य महाराज समन्तात् पृथिवीपतिम्
हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम्
दक्षिणं दक्षिणः काले उद्यम्यालङ्कृतं भुजम्
स्वीकुर्वन्नञ्जलीनॄणाम् उद्यतास्सर्वतो दिशम्
श्रृण्वन् वै मधुरा वाचो नानादेशनिवासिनाम्
संस्तूयमानस्सूतैश्च मागधैश्च महायशाः
पूजयानश्च तान् सर्वान् जनान् दृष्ट्याऽबलोकयन्
एवं स प्रययौ राजा सर्वसैनयसमावृतः
प्रदीपैः काञ्चनैस्तत्र गन्धतैलाक्षितैर्जनाः।
परिवव्रुर्महात्मानं प्रज्वलद्भिस्समन्ततः
स तैः परिवृतो राजा प्रदीपैः काञ्चनैश्शुभैः
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः
प्रोत्सारयन्तश्शनकैस् तं जनं सर्वतो दिशम्
सम्प्राप्य च ततो राजा भीष्मस्य सदनं शुभम्
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः
अभिवाद्य ततो भीष्मं निषण्णः परमासने
काञ्चने सर्वतोभद्रे मृद्वास्तरणसंवृते
उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः
दुर्योधनः-
त्वामहं समुपाश्रित्य संयुगे शत्रुसूदन
उत्सहेयमहं जेतुं सेन्द्रानपि सुरासुरान्
किमु पाण्डुसुतान् वीरान् ससुहृद्गणबान्धवान्
परिपालय गाङ्गेय रणान्मां ससुहृद्गणम्
कृतां प्रतिज्ञां सत्यां वै कर्तुमर्हसि मानद
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो
जहि पाणडुसुतान् वीरान् महेन्द्र इव दानवान्
पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान्
पाञ्चालान् पाणडवैस्सार्धं करूशांश्चैव सर्वशः
त्वद्वचस्सत्यमेवास्तु जहि पार्थान् समागतान्
सोमकांश्च महेष्वासान् सत्यवाग् भव पार्थिव
अथवा दययाऽतीव द्वेषाद्वाऽपि मयि प्रभो
मन्दभाग्यतया वाऽपि मम रक्षसि पाण्डवान्
अनुजानीहि कर्णं त्वं योद्धुमाहवशोभिनम्
स जेष्यति रणे पार्थान् ससुहृद्गणबान्धवान्
सञ्जयः-
एतावमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव
नोवाच वचनं किञ्चिद् भीष्मं भीमपराक्रमम्