सञ्जयः-
तस्मिन् महति सङ्क्रन्दे राजा दुर्योधनस्तदा
पराजयं राक्षसेन नामृष्यत परन्तपः
गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च
तस्य सर्वं यथावृत्तम् आख्यातुमुपचक्रमे
घटोत्कचस्य विजयम् आत्मनश्च पराजयम्
कथयामास दुर्धर्षो विनिश्श्वस्य पुनःपुनः
अब्रवीच्च महाराज भीष्मं कुरुपितामहम्
दुर्योधनः-
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह
पाण्डवैर्विग्रहो घोरस् समारब्धो मया प्रभो
एकादश समाख्याता अक्षौहिण्यश्च या मम
निदेशे तव तिष्ठन्ति मया सार्धं परन्तप
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः
तन्मे दहति गात्राणि शुष्केन्धनमिवानलः
तदिच्छामि महाभाग त्वत्प्रसादात् परन्तप
राक्षसापशदं हन्तुं स्वयमेव पितामह
त्वां समाश्रित्य दुर्धर्ष तन्मे कर्तुं त्वमर्हसि
सञ्जयः-
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम
दुर्योधनमिदं वाक्यं भीष्मश्शान्तनवोऽब्रवीत्
भीष्मः-
शृणु राजन् मम वचो यत् त्वां वक्ष्यामि कौरव
यथा त्वया महाराज वर्तितव्यं परन्तप
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम
धर्मराजेन सङ्ग्रामस् त्वया कार्यः परन्तप
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः
अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति
न तु कार्यस्त्वया राजन् हैडिम्बेन दुरात्मना
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः
शल्यश्च वृषसेनश्च विकर्णश्च महारथः
शेषाश्च भ्रातरस्त्वन्ये दुश्शासनपुरोगमाः
त्वदर्थं प्रतियोत्स्यामो राक्षसं तं परन्तप
रौद्रं हन्तुं राक्षसेन्द्रं यदि ते हृच्छयो महान्
अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः
भगदत्तो महीपालः पुरन्दरसमो युधि
सञ्जयः-
एतावदुक्त्वा वचनं भगदत्तमथाब्रवीत्
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः
भीष्मः-
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम्
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा
तव दिव्यानि शास्त्राणि विक्रमश्च परन्तप
समागमश्च बहुभिः पुराऽभूद्दानवैस्सह
त्वमस्य राजशार्दूल प्रतिषेद्धा मतो मम
स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम्
सञ्जयः-
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः
प्रययौ सिंहनादेन परानभिमुखोद्यतः
तमापतन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम्
अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः
द्रौपदेयास्सत्यधृतिः क्षत्रदेवश्च मारिष
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा
सुप्रतीकेन तांश्चापि भगदत्तोऽभ्युपाद्रवत्
ततस्समभवद्युद्धं घोररूपं भयानकम्
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम्
प्रयुक्ता रथिभिर्बाणा भीमवेगास्सुतेजनाः
विनिपेतुर्महाराज नागेषु च हयेषु च
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः
परस्परं समासाद्य सन्निपेतुरभीतवत्
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे
विनेदुर्दन्तमुसलैस् समासाद्य परस्परम्
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः
चोदितास्सादिभिः क्षिप्रं निजघ्नुरितरेतरम्
पादातायः पदात्योघैस् ताडिताश्शक्तितोमरैः
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः
रथिनश्च रथस्थांश्च कर्णिनालीकतोमरैः
निहत्य समरे राजन् सिंहनादं विनेदिरे
तस्मिंस्तथा वर्तमाने सङ्ग्रामे रोमहर्षणे
भगदत्तो महेष्वासो भीमसेनमुपाद्रवत्
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्
पर्वतेन यथा तोयं क्षरता वै समन्ततः
किरञ् छरसहस्राणि सुप्रतीकशिरोगतः
ऐरावतस्थो मघवान् वारिधारा इवानघ
स भीमं शरजालेन ताडयामास भारत
पर्वतं वारिधाराभिस् तपान्ते जलदो यथा
भीमसेनस्तु सङ्क्रुद्धः पादरक्षान् परश्शतान्
निजघान महेष्वासस् सङ्क्रुद्धश्शरवृष्टिभिः
तान् दृष्ट्वा निहतान् क्रुद्धो भगदत्तः प्रतापवान्
चोदयामास नागेन्द्रं भीमसेनरथं प्रति
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा
अभ्यधावत वेगेन भीमसेनपुरोगमान्
तमापतन्तं सम्प्रेक्ष्य गर्जन्तमिव तोदयम्
अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः
दृष्ट्वा वेगेन सहिता भीमसेनपुरोगमाः
केकया द्रौपदेयाश्च अभिमन्युश्च सर्वशः
दशार्णाधिपतिश्चैव क्षत्रदेवश्च मारिष
चेदिपो धृष्टकेतुश्च सङ्कद्धास्सर्व एव हि
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः
तमेकं कुञ्जरं क्रुद्धास् समन्तात् पर्यवारयन्
स विद्धो बहुभिर्बाणैर् व्यरोचत महाद्विपः
सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्
दशार्णाधिपतिश्चैव स्वनागं भूमिधरोपमम्
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्
तमापतन्तं समरे राजन् राजपतिस्स च
सुप्रतीको रुरोधाग्रे वेलेव मकरालयम्
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः
साधु साध्विति सैन्यानि त्वदीयान्यभ्यपूजयन्
ततः प्राग्ज्योतिषः क्रुद्धस् तोमरांश्च चतुर्दश
रुरोध तं सुप्रतीको वेलेव मकरालयम्
प्राहिणोत् तस्य नागस्य प्रमुखे नृपसत्तमः
छित्त्वा बाणैर्मुखं तस्य पुनरन्यैर्जघान च
तस्य वर्म मुखत्राणां शातकुम्भपरिष्कृतम्
ते मुखं प्राविशान् भित्त्वा वल्मीकमिव पन्नगाः
स गाढविद्धो व्यथितो नागो भरतसत्तम
उपावृत्य ततः क्षिप्रं स न्यवर्तत युद्धतः
अभिदुद्राव वेगेन विनदन् भैरवस्वनम्
स मर्दमानस्स्वबलं वायुर्वृक्षानिवौजसा
तस्मिन् पराजिते नागे पाण्डवानां महारथाः
सिंहनादं विनद्योच्चैर् युद्धायैवावतस्थिरे
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन्
किरन्तो विविधान् बाणाञ् शस्त्राणि विविधानि च
तेषामापततां राजन् संरब्धानां मनीषिणाम्
श्रुत्वा स निनदं घोरम् अमर्षागतसाध्वसः
भगदत्तो महेष्वासस् स्वनागं समचोदयत्
अङ्कुशाङ्गुष्ठमृदितस् स गजप्रवरो युधि
तस्मिन् क्षणे समभवत् संवर्तक इवानलः
रथसङ्घांस्तथा नागान् हयांश्च हयसादिनः
पादातांश्च सुसङ्क्रुद्धश् शतशोऽथ सहस्रशः
प्रामृद्गात् समरे राजन् सम्प्रधावंस्ततस्ततः
तेन सँल्लोड्यमानं च पाण्डूनां सुमहद्बलम्
सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम्
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता
घटोत्कचस्सुसङ्क्रुद्धो भगदत्तमुपाद्रवत्
विकटः परुषो राजन् दीप्तास्यो दीप्तलोचनः
रूपं विभीषणं कृत्वा क्रोधेन प्रज्वलन्निव
जग्राह विपुलं शूलं गिरीणामपि दारणम्
नागं जिघांसुस्सहसा चिक्षेप स महाबलः
स विष्फुलिङ्गज्वालाभिस् समन्तात् परिवेष्टितम्
तमापतन्तं सहसा दृष्ट्वा ज्वालासमाकुलम्
सन्दधे निशितं चोग्रम् अर्धचन्द्रं स पार्थिवः
चिक्षेप च महच्छूलं तेन बाणेन वेगवान्
तत् पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम्
महाशनिर्यथा भ्रष्टा नभसश्च गता भुवि
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम्
चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत्
तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च
पुनर्बाणान् स चिक्षेप भगदत्ताय वैरिणे
भगदत्तोऽपि सङ्क्रुद्धो घटोत्कचमथाच्छिनत्
आकर्णपूरितैर्बाणैश् शितैस्सन्नतपर्वभिः
घटोत्कचोऽपि तान् बाणान् द्विधा च्छित्त्वा व्यपातयत्
तान् बाणांश्छेदितान् दृष्ट्वा भगदत्तोऽपि रक्षसा
क्रोधेन महताऽऽविष्टस् सृक्वणी परिसँल्लिहन्
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम्
घटोत्कचाय चिक्षेप तिष्ठ तिष्ठोति चाब्रवीत्
तामापतन्तीं सम्प्रेक्ष्य जग्राह स घटोत्कचः
बभञ्ज चैनां त्वरितो जानुमारोप्य भारत
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत्
तदवेक्ष्य कृतं कर्म राक्षसस्य बलीयसः
घटोत्कचस्य तद्युद्धं तथा कृतवतोऽद्भुतम्
दिवि देवास्सगन्धर्वा मुनयश्चापि विस्मिताः
पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः
साधु साध्विति नादेन पृथिवीमन्वनादयन्
तं श्रुत्वा सुमहानादं प्रहृष्टानां महात्मनाम्
नामृष्यत महेष्वासो भगदत्तः प्रतापवान्
विष्फार्य सुमहच्चापम् इन्द्राशनिसमस्वनम्
अभिदुद्राव वेगेन पाण्डवानां महारथान्
विसृजन् विमलांस्तीक्ष्णान् नाराचाञ्ज्वलनप्रभान्
भीममेकेन विव्याध राक्षसं नवभिश्शरैः
अभिमन्युं त्रिभिश्चैव केकयान् पञ्च पञ्चभिः
पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा
बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे
पपात सहसा तस्य सशरं धनुरुत्तमम्
द्रौपदेयांस्ततः पञ्च पञ्चभिस्समताडयत्
भीमसेनस्य सङ्क्रुद्धो निजघान तुरङ्गमान्
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः
निर्बिभेद त्रिभिश्चान्यैश् सारथिं चास्य पत्रिभिः
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
विसञ्ज्ञो भरतश्रेष्ठ भगदत्तेन संयुगे
पुनस्सञ्ज्ञां ततः प्राप क्षेणेन भरतर्षभ
ततो भीमो महाराज विरथो रथिनां वरः
गदां जग्राह वेगेन प्रचस्कन्द रथादपि
तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्
तावकानां भयं घोरं समजायत भारत
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः
आजगाम महाबाहुर् निघ्नञ् शत्रून् सहस्रशः
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ
प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ
दृष्ट्वा च पाण्डवो भ्रातॄन् युध्यमानान् महारथान्
त्वरितो भरतश्रेष्ठस् तत्रायाद्विकिरञ् छरान्
ततो दुर्योधनो राजा त्वरमाणो महारथः
सेनामचूचुदत् क्षिप्रं रथनागाश्वसङ्कुलाम्
तामापतन्तीं सहसा कौरवाणां महाचमूम्
अभिदुद्राव वेगेन पाण्डवः कृष्णसारथिः
भगदत्तोऽपि समरे तेन नागेन भारत
विमृद्गन् पाण्डवबलं युधिष्ठिरमुपाद्रवत्
आसीत् तत्र महद्युद्धं भगदत्तस्य भारत
पाञ्चालैस्सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ
अश्रावयद्यथावृत्तम् इरावद्वधमुत्तमम्