सञ्जयः-
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनस्स्वयम्
अभ्यधावत् सुसङ्क्रुद्धो भीमसेनमरिन्दमम्
प्रगृह्य सुमहच्चापम् इन्द्राशनिसमस्वनम्
महता शरवर्षेण पाण्डवं समवारयत्
अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवापिनम्
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः
तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः
सन्दधे निशितं बाणं गिरीणामपि दारणम्
तेनोरसि महाबाहुर् भीमसेनमताडयत्
स गाढविद्धो व्यथितस् सृक्विणी परिसँल्लिहन्
समाश्रयत तेजस्वी ध्वजं हेमपरिष्कृतम्
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव कौरवान्
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः
तमभ्यधावन् क्रोशन्तो राजानं जातसम्भ्रमाः
सम्प्रेक्ष्य तानापततस् सङ्क्रुद्धाञ्जातसम्भ्रमान्
भारद्वाजोऽब्रवीद्राजन् तावकानां महारथान्
द्रोणः-
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत
संशयं परमं प्राप्तं मञ्जन्तमिव सागरे
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः
भीमसेनं पुरस्कृत्य दुर्योधनमभिद्रुताः
नानाविधानि शस्त्राणि विसृजन्तो महारथाः
नदन्तो भैरवान् नादांस् त्रासयन्तश्च भूमिपान्
सञ्जयः-
तदाचार्यवचश्श्रुत्वा सौमदत्तपुरोगमाः
तावकास्समवर्तन्त पाण्डवानामनीकिनीम्
कृपो भूरिश्रवाश्शल्यो द्रोणपुत्रो विविंशतिः
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्
ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक
ततो गत्वा महाबाहुर् महद्विष्फार्य कार्मुकम्
भारद्वाजस्ततो भीमं षड्विंशत्या समर्पयत्
भूयश्चैनं महाबाहुश् शरैर्बहुभिरावृणोत्
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः
तं प्रत्यविध्यद्दशभिर् भीमसेनश्शिलीमुखैः
त्वरमाणो महेष्वासो वामपार्श्वस्तनान्तरे
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत
स नष्टसञ्ज्ञस्सहसा रथोपस्थ उपाविशत्
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनस्स्वयम्
द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ
तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ
भीमसेनो महाबाहुर् गदामादाय सत्वरः
अवप्लुत्य रथात् तूर्णं तस्थौ गिरिरिवाचलः
समुद्यम्य गदां गुर्वीं कुलदण्डोपमां रणे
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्
तावापतन्तौ सहसा त्वरितौ बलिनां वरौ
अभ्यधावत वेगेन त्वरमाणो वृकोदरः
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम्
तमभ्यधावंस्त्वरिताः कौरवाणां महारथाः
भारद्वाजमुखाश्चैव भीमसेनजिघांसया
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्
सहिताः पाण्डवं सर्वे समन्तात् समपीडयन्
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्
अभिमन्युप्रभृतयः पाण्डवानां महारथाः
अभ्यधावन् परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्
अनूपाधिपतिर्वीरो भीमस्य दयितस्सखा
नीलो नीलाम्बुदप्रख्यस् सङ्क्रुद्धो द्रौणिमभ्यगात्
स्पर्धते च महेष्वासो नित्यं द्रोणसुतेन सः
विव्याध सुमहच्चापं विष्कार्य द्रौणिमाहवे
यथा रुद्रो महाराज पुरा विव्याध दानवम्
विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम्
येन लोकस्त्रयः क्रोधात् त्रासितास्स्वेन तेजसा
स रुद्रेण जितः पूर्वं निहतो मातरिश्वना
तदा नीलेन निर्भिन्नस् सुमुक्तेन सुपत्रिणा
स जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः
स विष्फार्य धनुश्चित्रम् इन्द्राशनिसमस्वनम्
दध्रे नीलविनाशाय मतिं मतिमतां वरः
ततस्सन्धाय विमलान् भल्लान् कर्मारमार्जितान्
जघान चतुरो वाहान् पातयामास च ध्वजम्
सूतं चैकेन भल्लेन रथनीडादपाहरत्
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम्
घटोत्कचोऽपि सङ्क्रुद्धो ज्ञातिभिः परिवारितः
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम्
तथेतरे चाभ्यधावन् राक्षसा युद्धदुर्मदाः
भीमसेनोऽपि समरे नीलं नीलाञ्जनप्रभम्
आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत्
घटोत्कचं च सम्प्रेक्ष्य राक्षसं घोरदर्शनम्
अभ्यधावत तेजस्वी भारज्वाजः प्रतापवान्
निजघान च सङ्क्रुद्धो ज्ञातिभिः परवारितः
अभिदुद्राव वेगेन राक्षसान् भीमदर्शनान्
तेऽद्रवन्त ततः क्रुद्धा राक्षसस्य पुरस्सराः
विमुखांश्चैव तान् दृष्ट्वा द्रोणचापच्युतैश्शरैः
अक्रुद्ध्यत महाबाहुः भैमसेनिर्घटोत्कचः
प्रादुश्चक्रे महामायां घोररूपां भयावहाम्
मोहयन् समरे द्रौणिं मायावी राक्षसाधिपः
ततस्ते कौरवास्सर्वे मायया विमुखीकृताः
अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले
विचेष्टमानान् कृपणान् शोणितेन परिप्लुतान्
द्रोणं दुर्योधनं शल्यम् अश्वत्थामानमेव च
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः
विध्वस्ता रथिनस्सर्वे गजाश्च विनिपातिताः
हयाश्चैव हयारोहास् सन्निकृत्तास्सहस्रशः
दुद्रुवुस्समरे राजन् समन्ताच्छिबिरं प्रति
दृष्ट्वैव तावकं सैन्यं विद्रुतं शिबिरं प्रति
मम प्राक्रोशतो राजँस् तथा देवव्रतस्य च
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे
घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः
न च ते श्रद्दधुर्भीता वदतोरावयोर्वचः
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्य च पाण्डवाः
घटोत्कचेन सहितास् सिंहनादं प्रचक्रिरे
शङ्खदुन्दुभिनिर्घोषास् समन्तात् सस्वनुर्भृशम्
एवं तव बलं सर्वं हैडिम्बेन महात्मना
सूर्यास्तमनवेलायां प्रभग्नं सर्वतो दिशम्