सञ्जयः-
विमुखीकृत्य तान् सर्वांस् तावकान् युधि राक्षसः
जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत्
तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम्
अभ्यधावञ्जिघांसन्तस् तावका युद्धदुर्मदाः
तालमात्राणि चापानि विकर्षन्तो महारथाः
तमेकमभ्यधावन्त सिंहनादेन पार्थिवाः
तथैनं शरवर्षेण समन्तात् पर्यवारयन्
पर्वतं वारिधाराभिः पावृषीव वलाहकाः
स गाढविद्धो व्यथितस् तोत्रार्दित इव द्विपः
उत्पपात तदाऽऽकाशं सहसा वैनतेयवत्
व्यनदच्च महानादं जीमूत इव शारदः
दिशः खं विदिशश्चैव नादयन् भैरवस्वनः
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः
उवाच भरतश्रेष्ठो भीमसेनं महाबलम्
युधिष्ठिरः
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः
यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम्
अतिभारं च पश्यामि तस्मिन् राक्षसपुङ्गवे
पितामहश्च सङ्क्रुद्धः पाञ्चालान् हन्तुमुद्यतः
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः
त्वरस्व यत्नः कर्तव्यो रक्षणार्थाय तस्य वै
एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम्
गच्छ रक्ष च हैडिम्बं संशयं परमं गतम्
सञ्जयः-
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः
प्रययौ सिंहनादेन त्रासयन् सर्वपार्थिवान्
वेगेन महता राजन् पर्वकाले यथोदधिः
तमन्वयात् सत्यधृतिस् सौचित्तिर्युद्धदुर्मदः
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः
क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च
अनूपाधिपतिश्चैव नीलस्स्वबलमास्थितः
महता रथवंशेन हैडिम्बं पर्यवारयन्
कुञ्चरैश्च सदा मत्तैष् षट्सहस्रैः प्रहारिभिः
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्
सिंहनादेन महता नेमिघोषेण चैव ह
खुरशब्दनिपातैश्च कम्पयन्तो वसुन्धराम्
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम्
भीमसेनभयोद्विग्नं विकीर्णमभवत् तदा
परिवृत्य महाराज परित्यज्य घटोत्कचम्
ततः प्रववृते युद्धं नृपाणां बलशालिनाम्
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम्
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तस् सम्प्रहारं प्रचक्रिरे
व्यतिषक्तं महारौद्रं वीरभीरुभयावहम्
हया हयैस्समाजग्मुः पादातैश्च पदातयः
रथा रथैस्समागच्छन् नागा नागैश्च संयुगे
अन्योन्यं समरे राजन् प्रार्थयाना महद्यशः
समुत्पपात चाकाशं सन्निपाते महद्रजः
रथाश्वगजपत्तीनां पादनेमिसमुत्थितम्
ताम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्
नैव स्वे न परे राजन् प्रजानन्त परस्परम्
पिता पुत्रं न जानीते पुत्रो वा पितरं रणे
निर्मर्यादे तथाभूते वैशसे रोमहर्षणे
अस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम्
सुमहानभवच्छब्द अश्मनां पततामिव
गजवाजिमनुष्याणां शोणिताम्भस्तरङ्गिणी
प्रावर्तत नदी तत्र केशशैवलशाद्वला
शूराणां चैव कायेभ्यश् शिरसां पततां रणे
शुश्रुवे सुमहाञ् छब्दः पततामश्मनामिव
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः
अश्वैस्सम्भिन्नदेहैश्च सङ्कीर्णाऽभूद्वसुन्धरा
नानाविधानि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तस् सम्प्रहारं प्रचक्रिरे
हया हयान् समासाद्य प्रेषिता हयसादिभिः
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः
नरा नरान् समासाद्य क्रोधरक्तेक्षणा भृशम्
रथिनो रथिभिस्सार्थं समासाद्य निजघ्निरे
प्रेषिताश्च महामात्रैर् वारणाश्शत्रुवारणाः
अभिजघ्नुर्विषाणाग्रैर् वारणानेव संयुगे
ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः
केचिद्भिन्ना विषाणाग्रैर् भिन्नकुम्भाश्च तोमरैः
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा यथा
केचिद्धस्तैर्द्विधा छिन्नैश् छिन्नगात्रास्तथाऽपरे
निपेतुस्तुमुले तस्मिंश् छिन्नपक्षा इवाद्रयः
पार्श्वेषु दारिताश्चान्ये वारणा वरवारणैः
मुमुचुश्शोणितं भूरि धातूनिव महीधराः
नाराचनिहताश्चान्ये तथा विद्धाश्च तोमरैः
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः
केचित् क्रोधसमाविष्टा मदान्धा निरवग्रहाः
रथान् हयान् पदातांश्च ममृदुश्शतशो द्विपाः
तथा हया हयारोहैस् ताडिताः प्रासतोमरैः
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः
रथिनो रथिभिस्सार्धं कुलपुत्रास्तनुत्यजः
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत्
स्वयंवर इवामर्दे निजघ्नुरितरेतरम्
प्रार्थयाना यशो राजन् स्वर्गं वा रुधिरोक्षिताः
तस्मिंस्तथा वर्तमाने सङ्ग्रामे रोमहर्षणे
धार्तराष्ट्रं महत् सैन्यं प्रयशो विमुखीकृतम्