सञ्जयः-
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि
दधार युधि राजेन्द्रो यथा वर्षं महागजः
ततः क्रोधसमाविष्टो निश्श्वसन्निव पन्नगः
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ
मुमोच निशितान् बाणान् वेगितान् पञ्चविंशतिम्
तेऽपतन् सहसा राजंस् तस्मिन् राक्षसपुङ्गवे
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने
स तैर्विद्धस्स्रवन् रक्तं प्रभिन्न इव कुञ्जरः
दध्रे मतिं विनाशाय राज्ञस्स पिशिताशनः
जग्राह च महाशक्तिं गिरीणामपि दारिणीम्
सम्प्रदीप्तां महोल्काभाम् अशनिं मघवानिव
तमागच्छन्महाबाहुर् जिघांसुस्तनयं तव
तामुद्यतां स सम्प्रेक्ष्य वङ्गानामधिपस्त्वरन्
कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत्
स नागप्रवरेणाजौ बलिना शीघ्रगामिना
यतो दुर्योधनरथस् तं मार्गं प्रत्यषेधयत्
पन्थानं वारयामास कुञ्जरेण सुतस्य ते
मार्गमावारितं दृष्ट्वा वङ्गराजेन धीमता
घटोत्कचो महाराज क्रोधसंरक्तलोचनः
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे
स तयाऽभिहतो राजंस् तस्य बाहुविमुक्तया
सञ्जातरुधिरोत्पीडः पपात च ममार च
पतत्यथ गजे चापि वङ्गानामीश्वरो बली
जवेन समभिप्लुत्य जगाम धरणीतलम्
दुर्योधोऽपि सम्प्रेक्ष्य पतितं वरवारणम्
भग्नं च स्वबलं दृष्ट्वा जगाम परमां व्यथाम्
अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम्
क्षत्रधर्मं पुरस्कृत्य ह्यात्मनश्चावमानिताम्
प्राप्तेऽपक्रमणो राजा तस्थौ गिरिरिवाचलः
सन्धाय च शितं बाणं कालाग्निसमतेजसम्
मुमोच परमक्रुद्धस् तस्मिन् घोरे निशाचरे
तमापतन्तं सम्प्रेक्ष्य वणिमिन्द्राशनिप्रभम्
लाघवान्मोचयामास महामायो घटोत्कचः
भूयश्च विननादोच्चैः क्रोधसंरक्तलोचनः
त्रासयन् सर्वभूतानि युगान्ते ज्वलनो यथा
तं श्रुत्वा निनिदं घोरं तस्य भीमस्य रक्षसः
आचार्यमुसङ्गम्य भीष्मश्शान्तनवोऽब्रवीत्
भीष्मः-
यथैव निनन्दो घोरश् श्रूयते राक्षसेरितः
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च
नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केन चित्
तत्र गच्छत भद्रं वो राजानं परिरक्षितुम्
अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम्
एतद्धि परमं कृत्यं सर्वेषां नः परन्तप
सञ्जयः-
पितामहवचश्श्रुत्वा त्वरमाणा महारथाः
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः
द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः
कृपो भिरिश्रवाश्शल्य आवन्त्यस्स बृहद्बलः
अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः
रथाश्चानेकसाहस्रा ह्येतेषामनुयायिनः
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव
तदनीकमनाधृष्यं पालितं वीरसत्तमैः
आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः
नाकम्पत महाबाहुर् मैनाक इव पर्वतः
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि
ततस्समभवद्युद्धं तुमुलं रोमहर्षणम्
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च
धनुषां कूजतां शब्दस् सर्वतस्तुमुलो रणे
अश्रूयत महाराज वेणूनामिव दह्यताम्
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्
शब्दस्समभवद्राजन् गिरीणामिव भिद्यताम्
वीरबाहुविसृष्टानां तोमराणां विशां पते
रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम्
ततः परमसङ्क्रुद्धो विष्फार्य सुमहद्धनुः
राक्षसन्द्रो महाबाहुर् विनदन् भैरवरवनम्
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम्
सोमदत्तेश्च बाणेन ध्वजमुन्मथ्य नानदत्
बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे
कृपमेकेन विव्याध चित्रसेनं त्रिभिश्शरैः
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च
जत्रुदेशे समासाद्य विकर्णं समताडयत्
स न्यषीदद्रथोपस्थे शोणितेन परिप्लुतः
ततः पुनरमेयात्मा नाराचान् दश पञ्च च
भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ
ते वर्म भित्त्वा सुभृशं प्राविशान् मेदिनीतलम्
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत्
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम्
सैन्धवस्यार्धचन्द्रेण वाराहं स्वर्णभूषितम्
उन्ममाथ ध्वजं राजन् द्वितीयेनाच्छिनद्धनुः
चतुर्भिरपि नाराचैर् आवन्त्यस्य महात्मनः
जघान चतुरो वाहान् क्रोधसंरक्तलोचनः
पूर्णायतविसृष्टेन पीतेन निशितेन च
निर्बिभेद महाराज राजपुत्रं बृहद्बलम्
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः
चिक्षेप निशितांस्तीक्ष्णाञ् छरानाशीविषोपमान्
बिभिदुस्ते महाराज शल्यं युद्धविशारदम्