धृतराष्ट्रः-
इरावन्तं हतं दृष्ट्वा सर्वे पार्था महारथाः
सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय
सञ्जयः-
इरावन्तं तु सङ्ग्रामे निहतं वीक्ष्य राक्षसः
व्यनदत् सुमहानादं भैमसेनिर्घटोत्कचः
नदतस्तस्य शब्देन पृथिवी सागराम्बरा
सपर्वतवना राजंश् चचाल सुभृशं तदा
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा
चेलुश्च सहसा तत्र तेन नादेन नादिताः
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत
ऊरुस्तम्भस्समभवद् वेपथुस्स्वेद एव च
सर्व एव तु राजेन्द्र तावका दीनचेतसः
चर्मवत् समवेष्टन्त सिंहभीता गजा इव
नर्दित्वा सुमहानादं निर्घातमिव राक्षसः
ज्वलन्तं शूलमुद्यम्य रूपं कृत्वा विभीषणम्
नानारूपप्रहरणैर् वृतो राक्षसपुङ्गवैः
आजगाम सुसङ्क्रुद्धः कालान्तकयमोपभः
तमापतन्तं सम्प्रेक्ष्य गजानीकैश्च संवृतम्
स्वसैन्यं च भयात् तस्य प्रायशो विमुखीकृतम्
दुर्योधनस्ततो राजन् घटोत्कचमुपाद्रवत्
प्रगृह्य विपुलं चापं सिंहवद्विनदन् मुहुः
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः
कुञ्जरैर्दशसाहस्रैर् वङ्गानामधिपस्स्वयम्
तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम्
पुत्रं तव महाराज चुकोप स निशाचरः
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
राक्षसानां च राजेन्द्र राज्ञो दुर्योधनस्य च
गजानीकं च सम्प्रेक्ष्य मेघबृन्दमिवोद्धतम्
अभ्यधावन्त सङ्क्रुद्धा राक्षसाश्शूलपाणयः
नदन्तस्सुमहानादान् मेघा इव सविद्युतः
शरशक्त्यृष्टिनाराचैर् निघ्नन्तो गजयोधिनः
भिण्डिपालैस्तथा शूलैर् मुसलैश्च परश्वथैः
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान्
भिन्नकुम्भान् सरुधिरान् भिन्नगात्रांश्च वारणान्
अपश्याम महाराज वध्यमानान् निशाचरैः
स तेषु क्षीयमाणेषु भग्नेषु गजयोधिषु
दुर्योधनो महाराज राक्षसान् समुपाद्रवत्
अमर्षवशमापन्नस् त्यक्त्वा जीवितमात्मनः
मुमोच निशितान् बाणान् राक्षसेषु परन्तप
जघान च महेष्वासास् प्रधानांस्तत्र राक्षसान्
सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम्
शरैश्चतुर्भिश्चतुरो निजघान महारथान्
ततः पुनरमेयात्मा शरवर्षं दुरासदम्
मुमोच भरतश्रेष्ठो निशाचररथं प्रति
तत् तु दृष्ट्वा महत् कर्म पुत्रस्य तव मारिष
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः
स विष्फार्य महच्चापम् इन्द्राशनिसमस्वनम्
अभिदुद्राव वेगेन दुर्योधनमरिन्दमम्
तमापतन्तं सम्प्रेक्ष्य कालसृष्टमिवान्तकम्
न विव्यथे महाराज पुत्रो दुर्योधनस्तव
अथैनमब्रवीत् क्रुद्धः क्रूरस्संरक्तलोचनः
घटोत्कचः-
क्रूर त्वया नृशंसेन दीर्घकालं प्रवासिताः
यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया
अस्य पापस्य दुर्बुद्धे फलं प्राप्नुहि दुर्मते
सञ्जयः-
एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम्
सन्दश्य दशनैरोष्ठं दन्तान् कटकटाप्य च
शरवर्षेण महता दुर्योधनमवाकिरत्
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः