धृतराष्ट्रः-
दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय
मन्येऽहं सर्वथा पुत्रान् दैवेनोपहतान् भृशम्
यत्र मे तनयास्सर्वे जीयन्ते न जयन्त्युत
यत्र द्रोणस्य भीष्मस्य कृपस्य च महात्मनः
सौमदत्तेश्च शूरस्य भगदत्तस्य चोभयोः
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम्
तथा सर्वस्य सैन्यस्य मध्यस्थास्तनया मम
यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः
न हि दुर्योधनो मन्दः पुरा ह्येतदबुध्यत
वार्यमाणो मया तात भीष्मेण विदुरेण च
गन्धार्या चैव दुर्मेधास् सततं हितकाम्यया
नावबुध्यत् पुरा मोहात् तस्य प्राप्तमिदं फलम्
यद्भीमसेनस्समरे मम पुत्रान् विचेतसः
अहन्यहनि सङ्क्रुद्धो नयते यमसादनम्
इदं तत् समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्
न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा
निवारय सुतान् द्यूतात् पाण्डवान् मा द्रुहेति च
सुहृदां हितकामानां ब्रुवतां तत्तदेव च
न शृणोमि परं वाक्यं मर्तुकाम इवौषधम्
तदिदं समनुप्राप्तं वचनं साधु भाषितम्
विदुरद्रोणभीष्माणां तथाऽन्येषां मनीषिणाम्
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः
तदेतत् समतिक्रान्तं पूर्वमेव हि सञ्जय
तस्मान्मे वद धर्मज्ञ यथा युद्धमवर्तत
के केऽयुध्यन्त समरे ब्रूहि त्वं मम सञ्जय
सञ्जयः-
मध्याह्ने तुमुलो घोरस् सङ्ग्रामस्समपद्यत
जनक्षयकरो राजंस् तन्मे निगदतश्शृणु
ततस्सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्
अभ्यद्रवन्त सङ्ग्रामे भीष्ममेव जिघांसया
धृष्टद्युम्नश्शिखण्डी च सात्यकिश्च महारथः
युक्तानीका महाराज भीष्ममेव समभ्ययुः
अर्जुनो द्रुपदश्चैव चेकितानश्च संयुगे
दुर्योधनसमादिष्टान् राज्ञस्सर्वान् समभ्ययुः
अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः
भीमसेनश्च सङ्क्रुद्धस् तेऽभ्यधावन्त कौरवान्
त्रिधाभूतैरवध्यन्त कौरवाः पाणडवैर्युधि
तथैव पाण्डवा राजन्नवध्यन्त परै रणे
द्रोणस्तु रथिनां श्रेष्ठस् सोमकान् सह सृञ्जयैः
अभ्यद्रवत सङ्क्रुद्धः प्रेषयानो यमक्षयम्
तत्राक्रन्दो महानासीत् सृञ्जयानां महात्मानाम्
वध्यतां समरे राजन् भारद्वाजेन धन्विना
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे
विचेष्टन्तोऽभ्यदृश्यन्त व्याधिक्लिष्टा नरा इव
कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे
अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव
तथैव कौरवेयाणां भीमसेनो महाबलः
चकार कदनं घोरं क्रुद्धः काल इवापरः
वध्यतां तत्र सैन्यानाम् अन्योन्येन महारणे
वर्धते प्रेतराजस्य विषयस्स विशां पते
स सङ्ग्रामो महाराज घोररूपोऽभत् तदा
कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः
ततो भीमो रणे क्रुद्धो गदां गृह्य शितां दृढाम्
गजानीकं समासाद्य प्रेषयामास संयमीम्
तत्र भारत भीमेन ताडिताः पतिता गजाः
विनेदुश्च भृशं घोरं भ्रामन्तो दिक्षु सर्वतः
भिन्नहस्ता महानागा भिन्नकुम्भाश्च मारिष
क्रौञ्चवद्व्यनदन् भीताः पृथिवीमनुशिश्यिरे
नकुलस्सहदेवश्च हयानीकमभिद्रुतौ
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिष्कृताः
वध्यमानाः प्रदृश्यन्त शतशोऽथ सहस्रशः
पतिद्भिश्च हयौघैश्च समास्तीर्यत मेदिनी
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः
हयैर्बभौ महाराज नानारूपधरैर्धरा
अर्जुनेन हतैस्सङ्ख्ये तथा भारत वाजभिः
प्रबभौ वसुधा घोरा तत्र तत्र विशां पते
रथैर्भिन्नैर्ध्वजैश्छिन्नैर् छत्रैश्च सुमहाप्रभैः
हरैर्निष्कैस्सकेयूरैश् शिरोभिश्च सकुण्डलैः
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः
अनुकर्षैश्शुभै राजन् योक्रैश्चैव सरश्मिभिः
सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः