सञ्जयः-
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम्
ततस्सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्
अभ्यद्रवन्त गाङ्गेयम् अर्दयन्तश्शितैश्शरैः
स तु भीष्मो रणश्लाघी सोमकान् सह सृञ्जयैः
पाञ्चालांश्च महेष्वासान् पातयामास सायकैः
ते वध्यमाना भीष्मेण पाञ्चालास्सह पाण्डवैः
भीष्ममेवाययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्
स तेषां रथिसिंहानां भीष्मश्शान्तनवो युधि
चिच्छेद समरे राजन् बाहून्यथ शिरांसि च
विरथान् रथिनश्चक्रे पिता देवव्रतस्तव
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम्
निर्मनुष्यांश्च मातङ्गान् शयानान् पर्वतोपमान्
अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान्
न तत्रासीत् पुमान् कश्चित् पाण्डवानां विशां पते
अन्यत्र रथिनां श्रेष्ठद् भीमसेनान्महाबलात्
स हि भीष्मं समासाद्य छादयामास सायकैः
ततो निष्टानको घोरो भीष्मभीमपराक्रमे
बभूव सर्वसैन्यानां घोररूपो भयानकः
तथैव पाण्डवा हृष्टास् सिंहनादमथानदन्
ततो दुर्योधनो राजा सोदर्यैः परिवारितः
भीष्मं जुगोप समरे वर्तमाने भयावहे
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः
द्रवमाणेन महता रथेनादित्यवर्चसा
चचार युधि राजेन्द्र भीमो भीमपराक्रमः
सुनाभस्तव पुत्रो वै भीमसेनमुपाद्रवत्
जघान निशितैर्बाणैर् भीमं विव्याध सप्तभिः
भीमसेनस्सुसङ्क्रुद्धश् शरेण नृतपर्वणा
विप्रद्रुते रथे तस्य द्रवमाणे समन्ततः
सुनाभस्य नरश्रेष्ठ शिरश्चिच्छेद भारत
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि
हते तस्मिन् महाराज तव पुत्रे महारथे
नामृष्यन्त रणे शूराश् सोदरास्सप्त संयुगे
आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः
अपराजितः पण्डितको विशालाक्षश्च दुर्जयः
पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः
अभ्यवर्तन्त सङ्ग्रामे योद्धुं युद्धाभिनन्दिनः
महोदरस्तु समरे भीमं विव्याध पत्रिभिः
नवभिर्वद्रसङ्काशैर् नमुचिं वृत्रहा यथा
आदित्यकेतुस्सप्तत्या बह्वाशी पञ्चभिस्तथा
नवत्या कुण्डधारस्तु विशालाक्षश्च पञ्चभिः
अपराजितो महाराज पराजिष्णुर्महारथः
शरैर्बहुभिरानर्च्छद् भीमसेनं महाबलम्
रणे पण्डितकश्चैनं त्रिभिर्बाणैस्समर्पयत्
स तन्न ममृषे भीमश् शत्रोर्विजयलक्षणम्
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
अपराजितस्य राजेन्द्र भीमसेनो महाबलः
शिरश्चिच्छेद समरे शरेणानतपर्वणा
तच्छिरस्तव पुत्रस्य कृत्तं गामगमच्छिरः
अथापरेण भल्लेन कुण्डधारं महाबलम्
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः
ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम्
प्रेषयामास समरे पण्डितस्य रथं प्रति
स शरः पण्डितं हत्वा विवेश धरणीतलम्
यथा नरं निहत्याशु भुजगः कालचोदितः
विशालाक्षशिरश्छित्त्वा पातयामास भूतले
शरैस्त्रिभिरमेयात्मा स्मरन् क्लेशान् पुरातनम्
महोदरं महेष्वासो नाराचेन स्तनान्तरे
विव्याध समरे राजन् स हतो न्यपतद्भुवि
आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत
बह्वाशिनं तथा वीरश् शरेणानतर्वणा
प्रेषयामास समरे यमस्य सदनं प्रति
वित्रेसुस्तनयाश्चान्ये भयाद्भीमसमुद्भवात्
मन्यमाना रणे भीमं कालान्तकमिति ब्रुवन्॥
एवमेते महेष्वासाः पुत्रास्त्व विशां पते
भ्रातॄन् सन्दृश्य निहतान् प्रस्मरन्त हि तद्वचः
यदुक्तवान् महाप्राज्ञः क्षत्ता हितमनामयम्
तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप
न बुध्यसे पुरा यत् तत् तथ्यमुक्तं हितं वचः
तथैव च वधार्थाय पुत्राणां पाण्डवो बली
नूनं जातो महावीर्यो यथा हन्ति स्म कौरवान्
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः
अब्रवीत् तावकान् योधान् भीमोऽयं वध्यतामिति
ततो दुर्योधनो राजा भीष्ममासाद्य मारिष
शोकेन महताऽऽविष्टो विललाप सुदुःखितः
दुर्योधनः-
निहता भ्रातरश्शूरा भीमसेनेन मे युधि
यतमानास्तथाऽन्येऽपि हन्यन्ते मम सैनिकाः
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते
सोऽहं कापथमारूढः पश्य दैवमिदं मम
सञ्जयः-
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव
दुर्योधनमिदं वाक्यम् अश्रुपूर्णेक्षणोऽब्रवीत्
भीष्मः-
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च
गान्धार्या च यशस्विन्या तत् त्वं तात न बुद्धवान्
समयश्च मया पूर्वं कृतोऽयं शत्रुकर्शन
नाहं युधि विमोक्तव्यो नाह्याचार्यः कथञ्चना
यं यं हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे
हनिष्यति रणे तं यं सत्यमेतद्ब्रवीमि ते
स त्वं राजन् स्थिरो भूत्वा दृढां कृत्वा रणे मतिम्
योधय त्वं रणे पार्थान् स्वर्गं कृत्वा परायणम्
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः
तस्माद्युधि स्थिरां कृत्वा बुद्धिं युद्ध्यस्व भारत