सञ्जयः-
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः
ततश्शब्दो महानासीत् सेनयोरुभयोर्नृप
निर्गच्छमानयोस्सङ्ख्ये यथा सागरयोरिव
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः
एकीभूतास्सुसंयत्ताः कौरवाणां महाचमूम्
व्यूहाय विदधू राजन् पाण्डवान् प्रति दंशिताः
ऊर्मव्यूहं ततः कृत्वा पिता देवव्रतस्तव
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्
अग्रतस्सर्वसैन्यानां भीष्मश्शान्तनवो ययौ
मालवैर्दाक्षिणात्यैश्च ह्यावन्त्यैश्च समावृतः
तदनन्तरमेवासीद् भारद्वाजः प्रतापवान्
पुलिन्दैर्दर्दरैश्चैव तथा क्षुद्रकमालवैः
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्
मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः
मेखलैस्त्रिपुरैश्चैव बर्बरैश्च समन्ततः
बृहद्बलादनु नृपस् त्रिगर्तः प्रस्थलाधिपः
काम्भोजैर्बहुभिस्सार्धं यवनैश्च सहस्रशः
द्रौणिस्तु रभसश्शूरस् त्रिगर्तादनु भारत
प्रययौ सिंहनादेन नादयानो नभस्स्थलम्
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा
द्रौणेरनन्तरं प्रायात् सोदरैः परिवारितः
दुर्योधनादनु ययौ कृपश्शारद्वतो युधि
एवमेव महाव्यूहः प्रययौ सागरोपमः
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत
चामराणि च शुभ्राणि व्यजनानि च सर्वशः
अङ्गदान्यत्र च दिव्यानि महार्हाणि धनूंषि च
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः
युधिष्ठिरोऽब्रवीत् तूर्णं पार्षतं पृतनापतिम्
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम्
प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ
ततस्स पार्षतश्शूरो व्यूहं चक्रे सुदारुणम्
श्रृङ्गाटकं महाराज तव व्यूहविदारणम्
श्रृङ्गेऽभूद्भीमसेनश्च सात्यकिश्च महारथः
रथैरनेकसाहस्रैस् तथा हयपदातिभिः
नाभावभून्नरश्रेष्ठश् श्वेताश्वो वानरध्वजः
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ
अभिमन्युस्ततः पश्चाद् विराटश्च महारथः
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः
अथेतरे महेष्वासास् सर्वसैन्यैर्नराधिपाः
व्यूहं तं पूरयामासुर् व्यूहशास्त्रविशारदाः
एवमेतं महाव्यूहं व्यूह्य भारतपाण्डवाः
अतिष्ठन् समरे शूरा योद्धुकामा जयैषिणः
भेरीशब्दाश्च तुमुला विमिश्राश्शङ्खनिस्स्वनैः
क्ष्वेलितास्फोटितोद्धुष्टैस् तुमुलोस्सर्वतो दिशः
ततश्शूरास्समासाद्य समरे ते परस्परम
नेत्रैरनिमिषै राजन् प्रेक्षाञ्चक्रुः परस्परम्
मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे
पुनराहूय तेऽन्योन्यं शरैरपि च चक्रिरे
ततः प्रववृते युद्धं घोररूपं सुदारुणम्
तावकानां परेषां च निघ्नतामितरेतरम्
नाराचा निशितास्सङ्ख्ये सम्पतन्ति स्म भारत
व्यात्तानना भयकरा उरगा इव सङ्घशः
निष्पेतुर्विमलाश्शक्त्यस् तैलधौता महाप्रभाः
अम्बुदेभ्यो यथा राजन् भ्राजमानाश्शतह्रदाः
गदाश्च विमलैः पट्टैः पिनद्धा रुक्मभूषिताः
आपतन्त्यस्स्म दृस्यन्ते गिरिशृङ्गोपमाश्शुभाः
निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसन्निभाः
आर्षभाणि च चर्माणि शतचन्द्राणि भारत
अशोभन्त रणे राजन् पातमानानि सर्वशः
तेऽन्योन्यं समरे सैन्ये युध्यमाने नराधिप
अशोभेतां यथा सेने देवदैत्यसमुद्यते
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः
दन्तिनां युध्यमानानां सङ्घर्षात् पावकोऽभवत्
दन्तेभ्योऽपि नरश्रेष्ठ सधूमस्सर्वतो दिशम्
प्रासैरभिहताः केचित् तत्र योधास्सकस्रशः
पतमानास्स्म दृश्यन्ते गिरिशृङ्गान्नगा इव
पादातास्समदृश्यन्त विनिघ्नन्तः परस्परम्
चित्ररूपधराश्शूरा परिघप्रासयोधिनः
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः
शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम्
ततश्शान्तनवो भीष्मो रथघोषेण नादयन्
अभ्यागमद्रणे पार्थान् धनुश्शब्देन मोहयन्
तं पाण्डवा महाराज नदन्तो भैरवं रवम्
अभ्यद्रवन्त सङ्ग्रामे धृष्टद्युम्नपुरोगमाः
ततः प्रववृते युद्धं तव तेषां च भारत
नराश्वरथमातङ्गप्रतियानं सुदर्शनम्