सञ्जयः-
विरथं तं समासाद्य चित्रसेनं महारथम्
रथमारोपयामास विकर्णस्तनयस्तव
तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम्
भीष्मश्शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत्
ततस्सरथनागाश्वास् समकम्पन्त सृञ्जयाः
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्
युधिष्ठिरोऽपि कौरव्य यमाभ्यां सहितः प्रभुः
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ
ततश्शरसहस्राणि प्रमुञ्चन् पाण्डवो युधि
भीष्मं सञ्छादयामास यथा मेघो दिवाकरम्
तेन सम्यक् प्रणीतानि शरजालानि मारिष
प्रतिजग्राह गाङ्गयश् शतशोऽथ सहस्रशः
तथैव शरजालानि भीष्मेणास्तानि भारत
आकाशे समदृश्यन्त स्वगमानां व्रजा इव
निमेषार्धाच्च कौन्तेयं भीष्मश्शान्तनवो युधि
अदृश्यं समरे चक्रे शरजालेन भारत
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः
नाराचान् प्रेषयामास क्रुद्धो ह्यशीविषोपमान्
असम्प्राप्तांस्ततस्तांस्तु क्षुरप्रेण महायशाः
चिच्छेद समरे भीष्मः पाण्डवस्य धनुश्च्युतान्
तांस्तु च्छित्त्वा रणे भीष्मो नाराचान् कलसम्मितम्
नजघ्ने कौरवेन्द्रस्य हयान् काञ्चनभूषणान्
हताश्वे तु रथे तिष्ठञ् शक्तिं चिक्षेप धर्मराट्
तामापतन्तीं सहसा कालपाशोपमां शिताम्
चिच्छेद समरे भीष्मश् शरैस्सन्नतपर्वभिः
हताश्वं तु रथं त्यक्त्वा धर्मराजो युधिष्ठिरः
आरुरोह रथं तूर्णं नकुलस्य महात्मनः
यमावपि हि सङ्क्रुद्धस् समासाद्य रणे तदा
शरैस्सञ्छादयामास भीष्मः परपुरञ्जयः
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ
जगामाथ परां चिन्तां भीष्मं प्रति युधिष्ठिरः
ततो धर्मात्मजो वश्यांस् तान् राज्ञस्समचोदयत्
भीष्मं शान्तनवं सङ्ख्ये निहतेति सुहृद्गणान्
ततस्ते पार्थिवास्सर्वे श्रुत्वा तस्य प्रभाषितम्
महता रथवंशेन परिवव्रुः पितामहम्
स समन्तात् परिवृतः पिता देवव्रतस्तव
चिक्रीड धनुषा राजन् पातयानो महारथान्
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने
तर्जयानं रमे शूरांस् त्रासयानं च सायकैः
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा यथा
रणे भारत भीष्मस्य ददृशुः क्षत्रिया गतिम्
अग्नेर्वायुसहायस्य यथा काष्ठं दिधक्षतः
शिरांसि रथिनां भीष्मः पातयामास संयुगे
तालेभ्य इव पक्वानि फलानि कुशलो नरः
पतद्भिश्च ततो राजञ् शिरोभिर्धरणीतले
बभूव तुमुलश्शब्दः पततामश्मनामिव
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयावहे
सर्वेषामेव सैन्यानाम् आसीद्व्यतिकरो महान्
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्
एकमेकं समाहूय युद्धायैवोपतस्थिरे
शिखण्डी तु समाहूय भरतानां पितामहम्
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्
अनादृत्य ततो भीष्मस् तं शिखण्डिनमाहवे
प्रययौ सृञ्जयान् क्रुद्धस् स्त्रीत्वं चिन्त्य शिखण्डिनः
सृञ्जयास्तु ततो दृष्ट्वा भीष्मं युद्धे महारथम्
सिंहनादं बहुविधं चक्रुश्शङ्खविमिश्रितम्
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
अपरां दिशमास्थाय स्थिते सवितरि प्रभो
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः
अस्त्रैश्च बहुलै राजन् जघ्नतुस्तावकान् रणे
ते हन्यमानास्सङ्ग्रामे तावका भरतर्षभ
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्
यथोत्साहं तु समरे जघ्नुर्लोकमहारथाः
अत्राक्रन्दो महानासीत् तावकानां महात्मानाम्
वध्यतां समरे राजन् पार्षतेन महात्मनाम्
तं श्रुत्वा निनदं घोरं तावकानां विशां पते
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ
ततोऽस्य तुरगान् हत्वा त्वरमाणौ महारथौ
छादयामासतुरुभौ शरवर्षेण पार्षतम्
अवप्लुत्य ततो यानादद्धताश्वाद्भरतर्षभ
आरुरोह रथं तूर्णं सात्वतस्य महात्मनः
ततो युधिष्ठिरो राजा महत्या सेनया वृतः
आवन्त्यौ समरे क्रुद्धो समभ्ययात् तरस्विनौ
तथैव तव पुत्रोऽपि सर्वोद्योगेन भारत
विन्दानुविन्दौ समरे परिवार्योपतस्थिवान्
अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान् क्षत्रियर्षभः
अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान्
द्रोणास्तु समरे क्रुद्धः पुत्रस्य प्रियकृत् तव
व्यधमत् सर्वपाञ्चालांस् तूलराशिमिवानलः
दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते
परिवार्य रणे भीष्मं युयुधुः पाण्डवैस्सह
ततो युधिष्ठिरो राजा लोहितायति भास्करे
अब्रवीत् स्वान् नृपान् क्रुद्धो युध्यध्वमिति भारत
युध्यतां तु ततस्तेषां कुर्वतां कर्म दुष्करम्
अस्तं गिरिमथारूढे न प्रकाशति भास्करे
ततः प्रावर्तत नदी शोणितौघतरङ्गिणी
गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे
शिवाभिरशिवाभिश्च रुदन्तीभिस्समन्ततः
घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम्
राक्षसाश्च पिशाचाश्च तत्रान्ये पिशिताशिनः
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः
अर्जुनोऽथ सुशर्मादीन् राज्ञस्तान् सपदानुगान्
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति
युधिष्टिरोऽपि कौरव्य भ्रातृभ्यां सहितो वशी
ययौ स्वशिबिरं रात्रौ निजया सेनया वृतः
भीमसेनो महाराज सिन्धुराजमुखान् रथान्
पराजित्य ततस्सङ्ख्ये ययौ स्वशिबिरं प्रति
दुर्योधनोऽपि नृपतिः परिवार्य महारणे
भीष्मं शान्तनवं तूर्णं प्रयात् स्वशिबिरं प्रति
द्रोणो द्रौणिः कृपश्शल्यः कृतवर्मा च सात्वतः
परिवार्य चमूस्सर्वाः प्रययुश्शिबिराणि वै
तथैव सात्यकी राजन् धृष्टद्युम्नश्च पार्षतः
परिवार्य रणे योधाञ् जग्मतुश्शिबिरं प्रति
ततस्सरथनागाश्वजयं प्राप्य ससोमकाः
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः
प्रययुश्शिबिरायैव धनञ्जयपुरस्कृताः
वादित्रघोषैस्संहृष्टाः प्रनृत्यन्तो महारथाः
एवमेते महाराज तावकाः पाण्डवैस्सह
पर्यवर्तन्त सहिता निशाकाले परन्तप
यथास्वशिबिरं गत्वा पाण्डवाः कुरुभिस्सह
न्यविशन्त महाराज पूजयन्तः परस्परम्
रक्षां कृत्वाऽऽत्मनश्शूरा न्यस्तगुल्मा यथाविधि
अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः
कृतस्वस्त्ययनास्सर्वे स्तूयमानाश्च वन्दिभिः
गीतवादित्रशब्दैश्च क्रीडन्तो वै यशस्विनः
शयानास्तेऽपि शय्यासु महार्हासु विशां पते
निद्रां प्राप्य सुखाविष्टाः क्षणमात्रं विजह्रिरे
मुहूर्तमिव तं सर्वे महत् स्वप्नं समाश्रिताः
तस्मात् समुत्थाय नृपाः कथाश्चक्रुश्च सर्वशः
सङ्ग्रामसांश्रिताश्चान्याः बह्वीर्विक्रमजाश्शुभाः
ते प्रसुप्तजने सेने परिश्रान्ते उभे निशि
हस्त्यश्वबहुले घोरे प्रेक्षणीये बभूवतुः