सञ्जयः-
स ताड्यमानस्तु शरैर्धनञ्जयः पदाहतो नाग इव श्वसन् बली
बाणाेन बाणांश्च महारथानां चिच्छेद चापानि रणे प्रसह्य
सञ्छिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन
विव्याध बाणैर्युगपन्महात्मा विशेषतस्तेष्वथ मन्यमानः
निपेतुराजौ रुधिरोक्षिताङ्गस् ते ताडिताश्शक्रसुतेन राजन्
विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुत्रकायाः
महीं गताः पर्थबलाभिभूता विचित्ररूपा युगपन्महारथाः
दृष्ट्वा हतांस्तान् युधि राजपुत्रांस् त्रिगर्तराजः प्रययौ क्षणेन
तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्
तथैव ते तं परिवार्य पार्थं विकृष्य चापानि महारवाणि
सिषेचिरे बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः
सम्पीड्यमानस्तु शरौघवृष्ट्या धनञ्जयस्तान् युधि जातरोषः
षष्ट्या शरैस्संयति तैलधौतैर् जघान तानप्यथ पृष्ठगोपान्
षष्टिं रथांस्तानवजित्य सङ्ख्ये धनञ्जयः प्रीतमना यशस्वी
प्रतत्वरे भीष्मवधाय जिष्णुर् बलानि राज्ञां समरे निपात्य
त्रिगर्तराजो निहतान् समीक्ष्य महात्मना तानथ बन्धुवर्गान्
रणे पुरस्कृत्य नराधिपांस्तान् जगाम पार्थं त्वरितो वधाय
अभिद्रुतं चास्त्रभृतां वरिष्ठं धनञ्जयं वीक्ष्य शिखण्डिमुख्याः
अभिद्रुताश्शस्त्रशरौघवृष्ट्या समन्ततः पार्तरथं ररक्षुः
पार्थोऽपि तानापततस्समीक्ष्य त्रिगर्तराज्ञा सहितान् नृवीरान्
विध्वंसयित्वा स महाधनुष्मान् गाण्डीवमुक्तैर्निशितैः पृषत्कैः
भीष्मं यियासुर्युधि सन्ददर्श दुर्योधनं सैन्धवादींश्च राज्ञः
आवारयिष्णूनथ सम्प्रवार्य मुहूर्तमासाद्य बलेन वीरः
उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान् महौजाः
ययौ ततो भीमबलो यशस्वी गाङ्गेयमाजौ शरचापपाणिः
भीष्मोऽपि दृष्ट्वा समरे कृतास्त्रान् स पाण्डवानां रथिनोह्युदारान्
विहाय सङ्ग्राममुखे धनञ्जयं जवेन पार्थं पुनराजगाम
युधिष्ठिरश्चोग्रबलो महात्मा समाययौ त्वरितो जातकोपः
मद्राधिपं समभित्यज्य सङ्ख्ये सहानुगं यान्तमनन्तकीर्तिः
सार्धं स माद्रीसुतभीमसेनैर् भीष्मं ययौ शान्तनवं रणाय
तैस्सम्प्रयुक्तैस्स महारथाग्र्यैर् गङ्गासुतस्समरे चित्रयोधी
न विव्यधे शान्तनवो महात्मा समागतैः पाण्डुसुतैस्समस्तैः
अथैत्य राजा युधि सत्यसन्धो जयद्रथोऽत्युग्रबलो मनस्वी
चिच्छेद चापानि महारथानां प्रसह्य तेषां बलिनां महौजाः
युधिष्ठिरं भीमसेनं यमौ च पार्थनथो युधि सञ्जातकोपः
दुर्योधनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः
कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चौजौ
विद्धाश्शरैस्तेविनिबद्धकोपैर् देवा यथा दैत्यगणैस्समेतैः
छिन्नायुधश्शान्तनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः
अजातशत्रुस्समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम्
युधिष्ठिरः-
उक्त्वा तथा त्वत्पितुरग्रतो माम् अहं हनिष्यामि महाव्रतं तम्
भीष्मं शरौघैर्विमलार्कवर्णैस् सत्यं वदामीति कृता प्रतिज्ञा
त्वया च नैषा सफला कृता च देवव्रतं यन्न निहंसि युद्धे
मिथ्याप्रतिज्ञो भव मा नृवीर रक्षस्व धर्मं स्वकुलं यशश्च
प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसङ्घान्
शरौघजालैरतितिग्मवेगै कालं यथा कालकृतं क्षणेन
निकृत्तचापस्समरानपेक्षः पराजितश्शान्तनवेन राज्ञा
विहाय बन्धूनथ सदरांश्च क्व यास्यसे नानुरूपं तवेदम्
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम्
भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः
अज्ञायमाने हि धनञ्जये तु महाहावे सम्प्रसक्ते तु घोरे
कथं हि भीष्मात् प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर
सञ्जयः-
स धर्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापानुबन्धम्
प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन्
तमापतन्तं महता जवेन शिखण्डिनं भीष्मरथं तदानीम्
निवारयामास हि शल्य एनम् अस्त्रेण घोरेण सुदुर्जयेन
स चापपृष्टात् समुदीर्यमाणम् अस्त्रं युगान्ताग्निसमप्रकाशम्
नाकम्पताथ द्रुपदस्य पुत्रो वीरो महेन्द्रप्रतिमप्रकाशः
तस्थौ च तत्रैव महाधनुष्माञ् शरैस्तदस्त्रं प्रतिबाधमानः
अथाददे वारुणमन्यदस्त्रं अग्र्यं शिखण्डी च वधाय तस्य
तदस्त्रमस्त्रेण विदार्यमाणं शल्यं तदा ददृशुः पार्थिवाश्च
खस्थास्सुरौघाश्च तथैव यक्षा गन्धर्वसिद्धा ऋषिभिस्समन्तात्
भीष्मस्तु राजन् समरे महात्मा धनुस्सुचित्रं ध्वजमेव चापि
छित्त्वाऽनदत् पाण्डुसुतस्य वीरो युधिष्ठिरस्यातिरथस्य राज्ञः
ततस्समुत्सृज्य धनुस्सबाणं वृकोदरः कोपपरीतचेताः
युधिष्ठिरं वीक्ष्य भयाभिभूतं तदन्तिके सिन्धुराजं ददर्श
गदां प्रगृह्याथ पपात सङ्ख्ये जयद्रथं भीमसेनः पदातिः
तमापतन्तं महता जवेन जयद्रथस्सगदं भीमसेनम्
विव्याध घोरैर्यमदण्डकल्पैश् शितैश्शरैः पञ्चशतैस्समन्तात्
अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः कोपपरीतचेताः
जघान वाहान् समरे समन्तान् सुसम्मतान् सिन्धुराजस्य सङ्ख्ये
ततोऽभिवीक्ष्याप्रतिमप्रभावस् तवात्मजस्त्वरमाणो रथेन
अभ्याययौ भीमसेनं निहन्तुं समुद्यतास्त्रस्सुरराजकल्पम्
जयद्रथो भग्रवाहो रथं तं त्यक्त्वा ययौ यत्र राजा कुरूणाम्
ससौबलस्सानुगस्सानुजश्च दृर्ट्वा भीमं मूढचेता भयार्तः
भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया हन्तुकामः
ससौबलं तव पुत्रं निरीक्ष्य दुर्योधनं सानुजं रोषयुक्तः
समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवस्समन्तात्
विहाय सर्वे तव पुत्रमुग्रं गतिं गदायाः परिहर्तुकामाः
अपक्रान्तास्तुमुले सम्प्रमर्दे सुदारुणे भारत मोहनीये
अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य
स्वयं स्थित्वा भीमसेनस्य चाग्रे गतिं गादायाः परिहर्तुकामः
रथं समुत्सृज्य पदातिराजौ प्रगृह्य खङ्गं विपुलं च चर्म
अवप्लुतस्सिंह इवाचलाग्राज् जगाम चान्यं भ्रमप भूमिदेशम्
गदाऽपि सा तस्य रथं सुचित्रं साश्व ससूतं विनिहत्य सङ्ख्ये
जगाम भूमिं ज्वलिता महोल्का भ्रष्टाऽम्बराद्गामिव सम्पतन्ती
आश्चर्यभूतं सुमहत् त्वदीया दृष्ट्वैव तद्भारत सम्प्रहृष्टाः
सर्वे विनेदुस्सहितास्समन्तात् पुपूजिरे तव पुत्रस्य योधाः