सञ्जयः-
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे
श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः
ततस्तु त्वरितो राजा श्रुतायुषमरिन्दमम्
निजघ्ने सायकैस्तीक्ष्णैर् नवभिर्नतपर्वभिः
स संवार्य ततो राजन् प्रेषितान् धर्मसूनुना
शरान् सप्त महेष्वासः कौन्तेयाया समार्पयत्
ते तस्व कवचं भित्त्वा पपुश्शोणितमाहवे
असूनिव विचिन्वन्तो देहे तस्य महात्मनः
पाण्डवस्तु भृशं विद्धस् तेन राज्ञा महात्मना
रणे वराहकर्णेन राजानं हृद्यविध्यता
अथापरेण भल्लेन केतुं तस्य महात्मनः
रथश्रेष्ठो रथात् तूर्णं भूमौ पार्थो न्यपातयत्
धर्मराजः पुनः केतुं तस्य राज्ञश्श्रुतायुषः
छित्त्वा स पातयामास योधानां पश्यतां भुवि
केतु निपतितं दृष्ट्वा श्रुतायुस्तं तु पार्थिवः
पाण्डवं निशितैर्बाणै राजन् विव्याध सप्तभिः
ततः क्रोघात् प्रजज्वल धर्मराजो युधिष्ठिरः
यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वदानवाः
प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत्
सर्वेषां चापि भूतानाम् इदमासीन्मनोगतम्
त्रींल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै
महर्षयश्चैव देवाश्च चक्रुस्स्वस्त्ययनं महत्
लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तथा
ततः क्रोधसमाविष्टस् सृक्विणी परिलेलिहन्
दधारात्मवपुर्घोरं युगान्ताग्निसमप्रभम्
ततस्सैन्यानि सर्वाणि तावकानि विशां पते
निराशान्यभवंस्तत्र जीवितं प्रति भारत
स तु धैर्येण तं कोपं सन्निवार्य महायशाः
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाद्धनुः
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे
निर्बिभेद तदा राजा सर्वसैन्यस्य पश्यतः
सत्वरं च रणे राजन् वाहांस्तस्य महात्मनः
निजघान शरैः क्षिप्रं सूतं च स महाबलः
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञश्च विक्रमम्
स प्रदुद्राव वेगेन श्रुतायु्स्समरात् तदा
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे
दुर्योधनबलं राजन् सर्वमासीत् पराङ्भुखम्
एवं जित्वा रणे राजन् धर्मपुत्रो युधिष्ठिरः
व्यात्ताननो यथा व्याघ्रस् तव सैन्यं जघान तत्
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम्
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः
सन्निवार्य शरांस्तांस्तु कृपश्शारद्वतो युधि
चेकितानां रणे यत्तो राजन् विव्याध पत्रिभिः
अथापरेण भल्लेन धनुश्चिच्छेद मारिष
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत्
हयांश्चास्यावधीद्राजंस् तथोभौ पार्ष्णिसारथी
सोऽवप्लुत्य रथात् तूर्णं गदां जग्राह सात्त्वतः
स तया वीरघातिन्या गदया गदिनां वरः
गौतमस्य हयान् हत्वा सारथिं स न्यपातयत्
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश
ते शरास्सात्त्वतं भित्त्वा प्राविशंस्तरसा तलम्
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम्
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः
तामापतन्तीं विमलाम् अश्यमगर्भोपमां गदाम्
शरैरनेकसाहस्त्रैर् वारयामास गौतमः
चेकितानस्ततः क्रुद्धो गदां दृष्ट्वा निपातिताम्
खङ्गमादाय वेगेन गौतमं समुपाद्रवत्
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम्
वेगेन महता राजंश् चेकितानमुपाद्रवत्
तावुभौ रथिनां श्रेष्ठौ निस्त्रिंशवरधारिणौ
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम् अन्योन्यं सन्ततक्षतुः
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ
धरणीं समनुप्राप्तौ पश्यतां सर्वधन्विनाम्
मूर्च्छयाऽभिपरीताङ्गौ व्यायामेन च मोहितौ
ततोऽभ्यधावद्वेगेन करवर्षस्सुहृत्तया
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम्
रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः
तथैव शकुनिश्शूरस् स्यालस्तव विशां पते
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम्
सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः
नवत्या सायकैस्तीक्ष्णै राजन् विव्याध वक्षसि
सौमदत्तिरुरस्थैस्तैर् भृशं बाणैरशोभत
मध्यन्दिने महाराज रश्मिभिस्तपनो यथा
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम्
हतसूतहयं चक्रे विरथं सायकोत्तमैः
विरथं तु समालोक्य हताश्वं हतसारथिम्
महता शरवर्षेण च्छादयामास संयुगे
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः
आरुरोह रथं तूर्णं शतानीकस्य भारत
चित्रसेनो विकर्णश्च राजन् दुर्मर्षणस्तथा
रथिनो हेमसन्नाहास् सौभद्रमभिदुद्रुवुः
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत
शरीरस्य यथा राजन् वातपित्तकफैस्त्रिभिः
विरथांस्तव पुत्रांस्तु कृत्वा राजन् महाहवे
निजघान नरव्याघ्रस् स्मृत्वा भीमवचस्तदा
ततो राज्ञां बहुशतैर् गजाश्वरथसादिभिः
संवृतं समरे भीष्मं देवैरपि दुरासदम्
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव
अभिमन्युं समुद्दिक्ष्य बालमेकं महाबलम्
वासुदेवमुवाचेदं कौन्तेयश्श्वेतवाहनः
अर्जुनः-
चोदयाश्वान् हृषीकेश यत्रैते बहुला ध्वजाः
एते हि बहवश्शूराः कृतास्त्रा युद्धदुर्मदाः
यथा न हन्युर्नस्सैन्यं तथा माधव चोदय
सञ्जयः-
एवमुक्तस्तु वार्ष्णेयः कौन्तेयेन महात्मना
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे
निष्ठानको महानासीत् तव सैन्यस्य मारिष
यदर्जुनो रणे क्रुद्धः प्रयातस्तावकान् प्रति
समासाद्य तु कौन्तेयो राज्ञस्तान् भीषयन् युधि
अर्जुनस्तु सुशर्माणम् इदं वचनमब्रवीत्
अर्जुनः-
जानामि त्वां युधि श्रेष्ठम् अत्यन्तं पूर्ववैरिणम्
पर्यायस्याद्य सम्पक्वं फलं पश्य सुदारुणम्
अद्य त्वां दर्शयिष्यामि पूर्वप्रेतान् पितामहान्
सञ्जयः-
एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः
श्रुत्वाऽपि परुषं वाक्यं सुशर्मा रथयूथपः
न चैनमब्रवीत् किञ्चिच् छुभं वा यदि वाऽशुभम्
अभि गत्वाऽर्जुनं वीरं राजभिर्बहुभिर्वृतः
पुरस्तात् पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैस्सहानघः
शरैस्सञ्छादयामास मेघैरिव दिवाकरम्
ततः प्रववृते घोरस् सङ्ग्रामश्शोणितोदकः
तावकानां परेषां च दारुणो रोमहर्षणः