धृतराष्ट्रः
बहूनि सुविचित्राणि द्वैरथानि स्म सञ्जय
पाण्डूनां मामकैस्सार्धम् आश्रौषं जल्पतस्तव
न चैव मामकं किञ्चिद् धृष्टं शंससि संयुगे
नित्यं पाण्डुसुतान् हृष्टान् अभग्नांश्चैव शंससि
हीयमानान् विमनसो मामकान् विगतौजसः
मानुषं न परं मन्ये दिष्टमत्र न संशयः
सञ्जयः-
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ
गङ्गायास्सुरनद्या वै स्वादुभूतं यथोदकम्
महोदधिं समभ्येत्य लवणत्वं निगच्छति
तथा तत् पौरुषं राजंस् तावकानां महात्मनाम्
प्राप्य पाण्डुसुतान् वीरान् व्यर्थं भवति संयुगे
यतमानान् यथाशक्ति कुर्वाणान् कर्म दुष्करम्
न दोषेण कुरुश्रेष्ठ कौरवान् गन्तुमर्हसि
तवापराधात् सुमहान् सपुत्रस्य विशां पते
पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः
आत्मदोषात् समुत्पन्नं शोचितुं नार्हसे नृप
न हि रक्षन्ति राजानस् सर्वार्थेनापि जीवितम्
युद्धेन स्वार्जिताँ लोकान् इच्छन्तो वसुधाधिपाः
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः
तन्ममैकमना भूत्वा शृणु देवासुरोपमम्
आवन्त्यौ तु महात्मानौ महेष्वासौ महाबलौ
युधामन्युमभिप्रेक्ष्य समेयतुररिन्दमौ
तेषां प्रववृते युद्धं समुहद्रोमहर्षणम्
युधामन्युस्सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ
विव्याध निशितैस्तूर्णं शरैस्सन्नतपर्वभिः
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ
युध्यतां हि तथा राजन् विशेषो न व्यदृश्यत
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्
युधामन्यू रणे राजन्ननुविन्दस्य सायकैः
चतुर्भिश्चतुरो वाहान् अनयद्यमसादनम्
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष
चिच्छेद समरे राजंस् तदद्भुतमिवाभवत्
त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः
धनुर्गृह्य तथा चित्रं भारसाधनमुत्तमम्
तावेकरथमारूढावावन्त्यौ बलिनां वरौ
शरान् मुमुचतुस्तूर्णं युधामन्यौ महात्मनि
ताभ्यां मुक्ता महावेगाश् शराः काञ्चनभूषणाः
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम्
युधामन्युरसम्भ्रान्तो भ्रातरौ तौ महारथौ
ववर्ष शरवर्षेण सारथिं च न्यपातयत्
तस्मिन् निपतिते भूमौ गतसत्त्वे तु सारथौ
रथः प्रदुद्राव दिशस् तुरगैरनिवारितैः
तौ तु दृष्ट्वा महेष्वासौ पुत्रौ तु विमुखीकृतौ
धृष्टद्युम्नो महाराज यज्ञसेनसुतः प्रभुः
पौरुषं ख्यापयंस्तूर्णं व्यधमत् तव वाहिनीम्
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः
वेदनां परमां प्राप्ता विषं पीत्वेव मानवः
हैडिम्बो राक्षसः क्रुद्धः प्राग्ज्योतिषमुपाद्रवत्
रथेनादित्यवर्णेन स जगाम महाबलः
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः
यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये
ऐरावतं समास्थाय ह्ययुध्यत महाबलः
तत्र देवास्सगन्धर्वा ऋषयश्च समागताः
विशेषं तत्र न विदुर् हैडिम्बभगदत्तयोः
यथा सुरपतिश्शक्रस् त्रासयामास दानवान्
तथा स समरे राजंस् त्रासयामास पाण्डवान्
तेन विद्राव्यमाणास्ते पाण्डवास्सर्वतो दिशम्
त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत
भैमसेनिं रथस्थं तु तत्रापश्याम भारत
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः
निवृत्तेषु तु पाण्डूनां पुनस्सैन्येषु भारत
आसीन्निष्ठानको घोरस् तव सैन्यस्य संयुगे
घटोत्कचस्ततो राजन् भगदत्तं महारणे
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः
निहत्य ताञ् शरान् राजन् राक्षसस्य धनुश्र्युतान्
भैमसेनिं रणे तूर्णं भृशं मर्मस्वताडयत्
स ताड्यमानो बहुभिश् शरैस्सन्नतपर्वभिः
न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः
भगदत्तं राक्षसेन्द्रो हैडिम्बोऽपि महाबलः
निजघान शरैस्तीक्ष्णैर् हेमपुङ्खैस्सुदारुणैः
न विव्यथे भिद्यमानो भगदत्त इवाचलः
पुनः प्राग्ज्यपतिषः क्रुद्धस् तोमरान् वै चतुर्दश
प्रेषयामास समरे तांस्तु चिच्छेद राक्षसः
स तांश्छित्त्वा महाबाहुस् तोमरान् निशितैश्शरैः
भगदत्तं तु विव्याध सप्तत्या कङ्कपत्रिभिः
तत्र देवास्सगन्धर्वा ऋषयश्च समागताः
विशेषं तत्र न विदुर् हैडिम्बभगदत्तयोः
तत प्राग्ज्योतिषो राजा प्रहसन्निव भारत
तस्याश्वांश्चतुरो राजन् पातयामास सायकैः
हताश्वे तु रथे तिष्ठन् राक्षसेन्द्रः प्रतापवान्
शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति
तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम्
त्रिधा चिच्छेद नृपतिस् सा व्यकीर्यत मेदिनीम्
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात्
यथेन्द्रस्य भूयात् पूर्वं नमुचिर्दैत्यसत्तमः
तं विजित्य रणे शत्रुं विख्यातं ख्यातपौरुषम्
अजय्यं समरे राजन् यमेन वरुणेन च
पाण्डवीं समरे सेनां सम्ममर्द स कुञ्जरः
यथा वनगजो राजन् मृद्गंश्चरति पद्मिनीम्
मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः
स्वस्त्रीयौ छादयाञ्चक्रे सायकैः पाण्डुनन्दनौ
सहदेवस्तु समरे मातुलं दृश्य सङ्गतम्
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम्
सञ्छाद्यमानस्तु शरैर् हृष्टरूपधरोऽभवत्
तयोश्चास्याभवत् प्रीतिर् अतुला मातृकारणात्
ततः प्रहस्य समरे नकुलस्य महारथः
ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष
अथैनं छिन्नधन्वानं छादयान्निव भारत
निजघान रणे तं तु सूतं चास्य न्यपातयत्
अश्वांश्च चतुरो राजंश् चतुर्भिस्सायकोत्तमैः
प्रेषयामास मद्रेशो यमस्य सदनं प्रति
हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः
आरुरोह ततो यानं भ्रातुरेव नराधिपः
एकस्थौ तु ततश्शूरौ दृढविक्षिप्तकार्मुकौ
मद्रराजरथं तूर्णं छादयामासतू रुषा
सञ्छाद्यमानो बहुभिश् शरैस्सन्नतपर्वभिः
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः
पृषत्कानां सहस्राणि प्रहसन्निव तावपि
सृजन् रुरोध समरे मेघो वृष्ट्या यथाऽचलम्
सहदेवस्ततः क्रुद्धस् शरमुत्क्षिप्य वीर्यवान्
मद्रराजमभिप्रेक्ष्य प्रेषयामास संयुगे
स शरः प्रेषितस्तेन गरुडानिलवेगवान्
मद्रराजं विनिर्भिद्य निपपात महीतले
स गाढविद्धो व्यथितो रथोपस्थे महारथः
निषसाद महाराज कश्मलं च जगाम ह
तं विसञ्ज्ञं निपतितं सूतस्सम्प्रेक्ष्य संयुगे
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखाः
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ
दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः
हृष्टौ चाद्रवतां क्षिप्रं तव सैन्यं विशां पते
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ