सञ्जयः-
प्रवृत्तमात्रे सङ्ग्रामे निवृत्ते च सुशर्मणि
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति
दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम्
त्वरमाणस्समभ्येत्य सर्वांस्तानब्रवीन्नृपान्
तेषां तु प्रमुखे वीरं सुशर्माणं महाबलम्
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन् वचः
दुर्योधनः-
एष शान्तनवो भीष्मो योद्धुकामो धनञ्जयम्
सर्वात्मना कुरुश्रेष्ठस् त्यक्त्वा जीवितमात्मनः
तं प्रयान्तं पुरो वीरास् सर्वसैन्येन भारतम्
संयुक्तास्समरे सर्वे पालयध्वं पितामहम्
सञ्जयः-
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः
नरेन्द्राणां महाराज जग्मुस्सर्वे पितामहम्
ततः प्रयातस्सहसा भीष्मश्शान्तनवोऽर्जुनम्
रणे भारतमायान्तम् आससाद महाबलम्
ततश्श्वेतपताकेन श्वेतवर्महयेन च
महता मेघनादेन रथेन सुविराजता
पश्यतां सर्वसैन्यानाम् उपयातो धनञ्जयः
अभवत् तुमुलो नादो हयान् दृष्ट्वा किरीटिनः
अभीशुहस्तं कृष्णं च दृष्ट्वाऽऽदित्यमिवापरम्
मध्यन्दिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम्
ततश्शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम्
न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवापरम्
स सर्वतः परिवृतस् त्रिगर्तैस्तु महात्मभिः
भ्रातृभिस्सह पुत्रैश्च तथाऽन्यैश्च महारथैः
पृष्टतस्तु जुगोपात्र भीष्मं युधि सुयोधनः
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा
ध्वजमेकेन बाणेन पातयामास भूतले
धनुश्चिच्छेद राजेन्द्र शितनैकेन पत्रिणा
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः
अन्यदादत्त वेगेन धनुर्भारसहं दृढम्
शरांश्चाशीविषाकाराञ् ज्वलितान् पन्नगानिव
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः
धनुश्चैकेषुणाऽविध्यत् ततोऽविध्यद्द्विजर्षभम्
ततः क्रुद्धो द्विजश्रेष्टश् चापमुद्यम्य वै दृढम्
तस्य द्रोणोऽवधीदश्वाञ् शरैस्सन्नतपर्वभिः
अच्छिनद्भरतश्रेष्ठ सूतमेकेन पत्रिणा
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथेः
आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः
ततस्तु तु पितापुत्रौ भारद्वाजं रथे स्थितौ
महता शरवर्षेण वारयामाससतुर्बलात्
भारद्वाजस्ततः क्रुद्धश् शरमाशीविषोपमम्
चिक्षेप समरे राजन् शङ्खं प्रति जनेश्वरः
स तस्य कवचं भित्त्वा पीत्त्वा शोणितमाहवे
जगाम धरणीं बाणो लोहितार्द्रवरच्छदः
स पपात रथात् तूर्णं भारद्वाजशराहतः
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः
हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम्
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्
दारयामास समरे शतशोऽथ सहस्रशः
शिखण्ड्यपि समासाद्य द्रौणिमाहवशोभिनम्
आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः
प्रबभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः
शिखरैः काञ्चनमयैर् मेरुस्त्रिभिरिवोच्छ्रितैः
अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः
सूतं ध्वजमथो राजंस् तुरगानायुधानि च
शरैर्बहुभिराच्छिद्य पातयामास संयुगे
स हताश्वादवप्लुत्य रथाग्निहतसारथेः
खङ्गमादत्त वेगेन विपुलं चर्म चापरम्
श्येनवद्व्यचरत् क्रुद्धश् शिखण्डी शत्रुतापनः
सखङ्गस्य महाराज चरतस्तस्य संयुगे
नान्तरं ददृशे द्रौणिस् तदद्भुतमिवाभवत्
ततश्शरसहस्राणि बहूनि भरतर्षभ
प्रेषयामास समरे द्रौणिस्समरकोपनः
तामापतन्तीं सहसा शरवृष्टिं सुदारुणाम्
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः
ततोऽस्य विपुलं द्रौणिश् शतच्चन्द्रमलप्रभम्
चर्माच्छिनदसिं चापि लघुहस्तश्च संयुगे
शितैस्तं बहुशो राजन् तदा विव्याध मार्गणैः
शिखण्डी तु ततः खङ्गं खण्डितं द्रौणिसायकैः
आविध्य व्यसृजत् तूर्णं द्रोणपुत्राय वेगितः
तमापतन्तं सहसा कालानलसमप्रभम्
शरैरचूर्णद्द्रौणिर् र्दर्शयन् हस्तलाघवम्
शिखण्डिनं च विव्याध शरैर्बहुभिरा्लुगैः
शिखण्डी तु भृशं राजंस् तड्यमानोऽनिशं शरैः
आरुरोह रथं तूर्णं माधवस्य महात्मनः
सात्यकिस्त्वथ सङ्क्रुद्धो राक्षसं क्रूरमाहवे
अलम्बुसं शरैर्घोरैर् विव्याध बलिनं बली
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद मारिष
अर्धचन्द्रेण समरे तं च विव्याध सायकैः
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम्
नासम्भ्रमत् स समरे वध्यमानश्शितैश्शरैः
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास वीर्यवान्
विजयाद्यदनुप्राप्तं माधवेन यशस्विना
तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा
अलम्बुसं रणे राजञ् शितैरस्त्रैरवाकिरत्
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
स तु सम्पीडितस्तेन माधवेन यशस्विना
प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे
तमजय्यं माघवता जित्वा भारत सात्यकिः
शैनेयः प्राणदन्नादं योधानां तव पश्यताम्
न्यहनत् तावकांश्चापि सात्यकिस्सत्यविक्रमः
निशितैर्बहुभिर्बाणैः प्राद्रवन्त भयार्दिताः
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली
धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम्
छादयामास समरे शरैस्सन्नतपर्वभिः
छाद्यमानोऽपि विशिखैर् धृष्टद्युम्नेन भारत
विव्यथे नैव राजेन्द्र पुत्रस्ते भरतर्षभ
धृष्टद्युम्नस्तु सङ्क्रुद्धो राजन् विव्याध पत्रिभिः
नवत्या त्ववनीपालस् तदद्भुतमिवाभवत्
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष
हयांश्च चतुरश्शीघ्रं निजघान महारथः
शरैश्चैनं सुनिशितैश् शीघ्रं विव्याध सप्तभिः
स हताश्वान्महाबाहुर् अवप्लुत्य रथाद्बली
पदातिरसिमुद्यम्य प्राद्रवत् पार्षतं प्रति
शकुनिस्तं समभ्येत्य राजगृध्नुर्महाबलः
राजानं सर्वलोकस्य रथमारोपयत् स्वकम्
ततो नृपं पराजित्य पार्षतः परवीरहा
न्यहनत् तावकं सैन्यं वज्रपाणिरिवासुरान्
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथम्
प्रच्छादयामास च तं महामेघो रविं यथा
ततः प्रहस्य समरे भीमसेनः परन्तपः
प्रेषयामास सङ्क्रुद्धस् सायकान् कृतवर्मणि
तैरर्द्यमानोऽतिरथस् सात्वतश्शस्त्रकोविदः
नाकम्पत महाराज भीमं चार्च्छच्छितैश्शरैः
तस्याश्वांश्चतुरो हत्वा भीमो भीमपराक्रमः
सारथिं पातयामास ध्वजं च सुपरिष्कृतम्
शरैर्बहुविधैश्चैनम् आच्छिन्नः परवीरहा
शकलीकृतसर्वाङ्गश् श्वाविट् तु शललैरिव
हताश्वात् तु रथात् तूर्णं सौबलस्य रथं ययौ
स्वालस्य ते महाराज तव पुत्रस्य पश्यतः
भीमसेनोऽपि सङ्क्रुद्धो गजनीक्रमुपाद्रवत्
निजघान च गजांश्चैव दण्डपाणिरिवान्तकः
अन्तकाले महाराज प्रजा इव जनेश्वर