सञ्जयः-
गाङ्गेयस्तु सुतं तुभ्यं निश्वसन्तं यतोरगम्
अब्रवीद्भरतश्रेष्ठस् सम्प्रहर्षकरं वचः
भीष्मः-
अहं द्रोणश्च कर्णश्च कृतवर्मा च सात्वतः
अश्वत्थामा विकर्णश्च सोमदत्तश्च सैन्धवः
विन्दानुविन्दावावन्त्यौ बाह्लीकस्सह बाह्लिकैः
त्रिगर्तराजो बलवान् मागधश्च सुदुर्धरः
बृहद्बलश्च शल्यश्च चित्रसेनो विविंशतिः
कृपश्च सह सोदर्यैस् तव राजन् पदानुगाः
रथाश्वबहुसाहस्राश् शोभनाश्च महाध्वजाः
देशजाश्च हया राजन् स्वारूढा हयसादिभिः
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः
पादाताश्च दृढा राजन् नानाप्रहरणा युधि
नानादेशसमुत्पन्नास् त्वदर्थे योद्धुमुद्यताः
एते चान्ये च बहवस् त्वदर्थे त्यक्तजीविताः
देवानपि रणे जेतुं समर्था इति मे मतिः
अवश्यं तु महाराज तव वाच्यं हितं सदा
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः
सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव
पाण्डवान् वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः
सञ्जयः-
एवमुक्त्वा ददावस्मै विशल्यकरणीं शुभाम्
ओषधीं वीयसम्पन्नां रज्ञे शान्तनवो ददौ
तदोषधिप्रभावेन विशल्योऽभूत् तदा नृपः
ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान्
ययौ शान्तनवो धीमान् युद्धाय समुपस्थितः
अयोजयत् स्वयं व्यूहं भीष्मो व्यूहविशारदः
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम्
सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः
रथैरनेकसाहस्रैस् समन्तत् पर्यवारितम्
रथिनो रथमुख्याश्च समन्तात् पर्यवारयन्
अश्वबृन्दैर्महद्भिश्च रथेभनिकरैस्तथा
धनुर्धरैः पदातैश्च यष्टितोमरधारिभिः
नागे नागे रथास्सप्त सप्तश्वाश्च रथे रथे
अश्वेऽश्वे चर्मिणस्सप्त धानुष्कास्सप्तचर्मिणम्
एवं व्यूहं महाराज तव सैन्यस्य दंशितम्
स्थितं रणाय महते भीष्मेण परिपालितम्
दश चाश्वसहस्राणि दन्तिनां हि तथैव च
रथानामयुतं चैव तव पुत्राश्च दंशिताः
चित्रसेनादयश्शूरा अभ्यरक्षन् पितामहम्
रक्ष्यमाणस्तु तश्शूरैस् सन्नद्धोऽभूत् पितामहः
ते शूरा गोप्यमानाश्च तेन भीष्मेण धिमता
सन्नद्धास्समदृश्यन्त राजानश्च महाबलाः
दुर्योधनस्स्वसोदर्यैर् दंशितो रथमास्थितः
विरराज श्रिया यक्तो महेन्द्रस्त्रिदिवे यथा
ततश्शब्दो महानासीत् पुत्राणां तव भारत
रथघोषश्च तुमुलो वादित्राणां च निस्स्वनः
भीष्मेण धार्तराष्ट्राणां सह प्रत्यङ्मुखे युधि
मण्डलस्स महाव्यूहस् सुदुर्गोऽमित्रघातनः
सर्वतश्शुशुभे राजन् रणेऽरीणां दुरासदः
मण्डलं तु समालोक्य व्यूहं भीष्मेण कल्पितम्
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमकल्पयत्
तथा व्यूढेष्वनीकेषु योद्धुकामा महारथाः
रथिनस्सादिनश्चैव सिंहनादमथानदन्
बिभित्सवस्ततो व्यूहान् निर्ययुस्तावका नृपाः
रथस्था युद्धसन्नद्धाः पाण्डवैर्युद्धकाङ्क्षिणः
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि सिखण्डिनम्
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत्
नकुलस्सहदेवश्च राजान् मद्रेशमीयतुः
विन्दानुविन्दावावन्त्यौ युधामन्युमभिद्रुतौ
सर्वे नृपास्तु समरे धनञ्जयमयोधयन्
भीमसेनो रणे यात्तो हार्दिक्यस्समवारयत्
चित्रसेनं विकर्णं च तथा दुश्शासनं विभुः
आर्जुनिस्समरे राजंस् तव पुत्रानयोधयत्
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम्
अलम्बुसस्तदा राजन् सात्यकिं युद्धदुर्मदम्
ससैन्यं समरे क्रुद्धो राक्षसस्समुपाद्रवत्
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्
श्रुतायुषं च राजानं धर्मपुत्रो युधिष्ठिरः
चेकितानस्तु समरे कृपमेवान्वयोधयत्
ये चान्येऽपि नृपा यत्ता भीष्ममेव महारथम्
प्रययुर्युद्धसम्मत्ता युधि तं वै जिगीषवः
ततो राजसहस्राणि परिवव्रुर्धनञ्जयम्
शक्तितोमरनाराचगदापरिघपाणयः
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्
अर्जुनः-
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना
युद्धाभिकामाञ् शूरांश्च पश्य माधव दंशितान्
त्रिगर्तराजं सहितं भ्रातृभिः पश्य माधव
अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे
सञ्जयः-
एतावदुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च
ववर्ष शरवर्षाणि नराधिपगणान् प्रति
तेऽपि तं परमेष्वासं शस्त्रवर्षैरवारयन्
तटाकमपि धाराभिर् यथा प्रावृषि तोयदाः
हाहाकारो महानासीत् तव सैन्ये विशां पते
छाद्यमानौ रणे कृष्णौ शरैर्दृष्ट्वा महारथैः
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः
विस्मयं परमं जग्मुर् दृष्ट्वा कृष्णौ तथाऽऽगतौ
ततः क्रुद्धो रणे पार्थो ह्यैन्द्रमस्त्रमवासृजत्
तत्राद्भुतमपश्याम विजयस्य पराक्रमम्
शरवृष्टिं परैरस्तां शरौघैः पर्यवारयत्
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते
तेषां राजसहस्राणां हयानां दन्तिनां तथा
द्वाभ्यां त्रिभिश्शरैश्चान्यान् पार्थो विव्याध मारिष
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः
अगाधे मञ्जतां तेषां भीष्मस्त्राता तदाऽभवत्
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम्
सञ्चुक्षुभे महाराज वातेनेव महार्णवः