सञ्जयः-
ततो दुर्योधनो राजा लोहितायति भास्करे
सङ्ग्रामे सहसा भीमं हन्तुकामोऽभ्यधावत
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम्
भीमसेनस्सुसङ्क्रुद्ध इदं वचनमब्रवीत्
भीमः-
अयं स कालस्सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम्
अहं कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः
द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि
यत् त्वं पुरा कृतं स्मृत्वा पाण्डवानवमन्यत
तस्य पापस्य गान्धारे पश्य व्यसनमागतम्
कर्णस्य मतमास्थाय सौबलस्य च यत् पुरा
अचिन्त्य पाण्डवान् कामाद् यथेष्टं कृतवानसि
याचमानं च यन्मोहाद् दाशार्हमवमन्यसे
तस्य पापस्य गान्धारे पश्य व्यसनमागतम्
उलूकस्य च सन्देशं यद्ददासि च हृष्टवत्
त्वां निहत्याद्य समरे सानुबन्धं सबान्धवम्
समीकरिष्ये तत् पापं यत् पुरा कृतवानसि
सञ्जयः-
एवमुक्त्वा धनुर्घोरं विकृष्यानम्य चासकृत्
समाधत्त शरान् घोरान् महाशनिसमप्रभान्
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने
ज्वलिताग्निशिखाकारान् वज्रकल्पानजिह्मगान्
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यामथावधीत्
चतुर्भिरश्वांश्च तथा ह्यनयद्यमसादनम्
द्वाभ्यां चाशु विकृष्टाभ्यां शराभ्यामरिमर्दनः
चिच्छेद समरे छत्रं राज्ञस्तस्य रथोत्तमात्
त्रिभिश्च तस्य चिच्छेद चलद्ध्वजमनुत्तमम्
छित्त्वाऽथ च ननादोच्चैस् तव पुत्रस्य पश्यतः
रथाच्च स ध्वजश्श्रीमान् नानारत्नविभूषितः
पपात सहसा राजन् विद्युञ्जलधरादिव
ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम्
ध्वजं कुरुपतेश्छिन्नं ददृशुस्सर्वपार्थिवाः
अथैनं दशभिर्बाणैस् तोत्रैरिव महाद्विपम्
आजघान रणे भीमस् स्मयन्निव महारथः
स गाढविद्धो व्यथितो भीमसेनेन संयुगे
निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः
ततस्तु राजा सिन्धूनां रथिश्रेष्ठो महाबलः
दुर्योधनस्य जग्राह पार्ष्णिं स्वपुरुषैस्सह
कृपश्च रथिनां श्रेष्ठस् तव पुत्रमचेतनम्
आरोपयद्रथं राजन् दुर्योधनमथ स्वकम्
परिवार्य ततो भीमं हन्तुकामो जयद्रथः
रथैरनेकसाहस्रैर् भीमस्यावारयद्दिशः
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्
केकया द्रौपदेयाश्च तव पुत्रानयोधयन्
चित्रसेनस्सुिमित्रश्च चित्राङ्गश्चित्रदर्शनः
चारुचित्रस्सुबाहुश्च तथा नन्दोपनन्दकौ
अष्टावेते महेष्वासास् तक्षमाणाश्शिलाशतैः
अभिमन्युरथं राजन् समन्तात् पर्यवारयन्
आजघान ततस्तूर्णम् अभिमन्युर्महारथान्
एकैकं पञ्चभिर्बाणैश् शितैस्सन्नतपर्वभिः
वज्रमृत्युप्रतीकाशैर् विचित्रायुधनिस्स्वनैः
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम्
ववृषुर्मार्गणैस्तीक्ष्णैर् गिरिं मेरुमिवाम्बुदाः
स पीड्यमानस्समरे कृतास्त्रो युद्धदुर्मदः
अभिमन्युर्महाराज तावकान् समकम्पयत्
पुरा देवासुरे युद्धे वज्रपाणिरिवासुरान्
विकर्णस्य ततो भल्लान् प्रेषयामास भारत
चतुर्दश रथश्रेष्ठस् शरानाशीविषोपमान्
पुश्चतुर्दश शरान् शितानाशीविषोपमान्
प्रेषयामास सङ्क्रुद्धो विकर्णस्य रथं प्रति
तैश्शनैर्निशिताग्रैश्च युद्धमार्गविशारदः
ध्वजं सूतं हयांश्चापि छित्त्वा नृत्यन्निवाहवे
पुनश्चान्याञ्शरान् स्फीतान् अकुण्ठाग्राञ्शिलाशितान्
प्रेषयामास सौभद्रो विकर्णाय महाबलः
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः
ते शरा हेमपुङ्खाग्राः प्रत्यदृश्यन्त भूतले
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम्
विकर्णं प्रेक्ष्य निर्भिन्नं तव सैन्ये सहोदराः
अभ्यद्रवन्त सङ्क्रुद्धा किरन्तश्शतशश्शरान्
तानर्जुनश्शरैस्तूर्णं निहत्य भरतर्षभ
व्यरोचत यथा वह्निर् दावं दग्ध्वा हिमात्यये
तयोस्सेनामतिक्रम्य कृच्छ्राम्निघ्नन् धनञ्जयः
विबभौ जलदान् भित्त्वा दिवाकर इवोदितः
तं दृष्ट्वा कुरवस्सर्वे प्रहृष्टाश्चाभवन् पुनः
अभ्यद्रवन्त समरे सौभद्रप्रमुखान् रथान्
प्रत्युद्ययुस्तेऽपि रथांस् तथा तान् सूर्यवर्चसः
अविध्यन् समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः
दुर्मुखश्श्रुतवर्माणं विद्ध्वा सप्तभिराशुगैः
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तमिः
अश्वाञ्जाम्बूनदैर्बाणैस् सञ्छन्नान् वातरंहसः
जघान षङ्भिरासाद्य सारथिं न न्यबर्हयत्
स हताश्वे रथे तिष्ठञ् श्रुतवर्मा महाबलः
शक्तिं चिक्षेप समरे महोल्कां ज्वलितामिव
सा दुर्मुखस्य विपुलं वर्म भित्त्वा महात्मनः
विदार्य प्राविशद्भूभिं दीप्यमाना स्वतेजसा
दुर्मुखो विह्वलस्तत्र निषसाद रथे विभो
विसञ्ज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन्
तं दृष्ट्वा विरथं तत्र श्रुतवर्माणमाहवे
तत्रागत्य तथा चाशु सुतसोमो महाबलः
पश्यतां सर्वसैन्यानां रथमारोपयत् स्वकम्
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव
अभ्ययात् समरे राजन् हन्तुकामो यशस्विनम्
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम्
चिच्छेद समरे तूर्णं जयत्सेनस्सुतस्तव
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत
तं दृष्ट्वा भीमधन्वानं शतानीकस्सहोदरम्
अभ्यपद्यत तेजस्वी सिंहवन्निनदन् रणे
शतानीकस्तु समरे दृढं विष्फार्य कार्मुकम्
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः
ननाद च महानादं प्रावृषीव वलाहकः
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना
शतानीको जयत्सेनं विव्याध हृदये भृशम्
तथा तस्मिन् विनिर्भिन्ने दुष्कर्णो भ्रातुरन्तिके
मुमोचास्मै शितान् बाणांस् तीक्ष्णानाशीविषोपमान्
चिच्छेद स तदा चापं नाकुलेः क्रोधमूर्च्छितः
अथान्यद्धनुरादाय भारसाधनमुत्तमम्
समाधत्त शितान् बाणान् शतानीको महाबलः
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः
मुमोच स शितान् बाणाञ् ज्वलितानिव पावकान्
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष
चिच्छेद समरे राजंस् तं च विव्याध सप्तभिः
अश्वान् मनोजवांश्चास्य कल्मषान् वीतकल्मषः
जघान निशितैस्तूर्णं सर्वान् द्वादशभिश्शितैः
अथापरेण बाणेन सुयुक्तेनाशुपातिना
दुष्कर्णं नाकुलिः क्रुद्धो विव्याध समरे भृशम्
स विह्वलो रथोपस्थे निषसाद सुतस्तव
दुष्कर्णं मोहितं दृष्ट्वा राजन् पञ्च महारथाः
दिघांसन्तश्शतानीकं सर्वतः पर्यवारयन्
छाद्यमानं शतानीकं शरव्रतैर्यशस्विनम्
अभ्यधावन्त सङ्क्रुद्धाः केकयाः पञ्च सोदराः
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः
प्रत्युद्ययुर्महाराज गजा इव महागजान्
दुर्मुखो दुष्षहश्चैव तथा दुर्मर्षणो युवा
शत्रुञ्जयश्शत्रुसहस् सर्वे क्रुद्धा यशस्विनः
प्रत्युद्ययुर्महाराज केकयान् भ्रातृभिस्सह
रथैर्नगरसङ्काशैर् हययुक्तैर्महारथाः
नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः
शरचापधरा वीरा विचित्रकवचध्वजाः
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम्
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्
अवर्तत महारौद्रं निघ्नतामितरेतरम्
अन्योन्यागस्कृतानां तु यमराष्ट्रविवर्धनम्
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम्
रथिनस्सादिनश्चाथ व्यवकीर्यन्त सर्वशः
ततश्शान्तनवः क्रुद्धश् शरैस्सन्नतपर्वभिः
नाशयामास तां सेनां पाण्डवानां महात्मनाम्
पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम्
एवं हवा महेष्वासः पाण्डवानामनीकिनीम्
कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिराय वै
नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ
कौरवाणामनीकानि शरैस्सन्नतपर्वभिः
धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ
मूर्ध्नि चैतावुपाघ्राय नृपस्स्वशिबिरं ययौ
अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम्
हत्वा विद्राव्य च शरैश् शिबिरायैव जग्मतुः