सञ्जयः-
ततो दुर्योधनो राजा महोत् प्रत्यागतस्मृतिः
शरवर्षैः पुनर्भीमं पर्यवारयदच्युतम्
एकीभूताः पुनश्चैव तव पुत्रा महारथाः
समेत्य समरे वीरं योधयामासुरुद्यताः
भीमसेनोऽपि सङ्ग्रामे प्राप्य वै स्वरथं पुनः
समारुह्य महाबाहुर् ययौ येन तवात्मजान्
प्रगृह्य च महावेगं परासुकरणं दृढम्
चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान्
ततो दुर्योधनो राजा भीमसेनं महाबलम्
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्
सोऽतिविद्धो महेष्वासस् तव पुत्रेण धन्विना
क्रोधसंरक्तनयनो वेगेनात्क्षिप्य कार्मुकम्
दुर्योधनं त्रिभिर्बाणैर् बाह्वोरुरसि चार्पयत्
स तदाऽभिहतो राजा नाचलद्गिरिराडिव
तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम्
दुर्योधनानुजास्सर्वे शूरास्सन्त्यक्तजीविताः
सस्मरुर्मन्त्रितं पूर्वं निग्रहे भीमकर्मणः
निश्चयं मनसा कृत्वा निग्रहे समुपाक्रमन्
तानापतत एवाजौ भीमसेनो महाबलः
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव
भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत्
चित्रसेनं महाराज तव पुत्रं महायशाः
तथेतरांस्तव सुतांस् ताडयामास भारत
शरैर्बहुविधैस्सङ्ख्ये रुक्मपुङ्खैस्सुतेजनैः
ततस्सम्प्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम्
अभिमन्युप्रभृतयस् ते द्वदश महारथाः
प्रेषिता धर्मपुत्रेण भीमसेनपदानुगाः
प्रतिजग्मुर्महाराज तव पुत्रान् महाबलान्
दृष्ट्वा प्राप्तान् रथस्थांस्तान् सूर्याग्निसमतेजसः
सर्वानेव महेष्वासान् भ्राजमानाञ् श्रिया वृतान्
महाहवे दीष्यमानान् सुवर्णमकटकोज्ज्वलान्
तत्यजुस्समरे भीमं तव पुत्रा महाबलाः
तान् नामृष्यत कौन्तेयो जीवमाना गता इति
अन्वीय च पुनस्सर्वांस् तव पुत्रानपीडयत्
तथाऽभिमन्युस्समरे भीमसेनेन सङ्गतः
पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः
समेत्य सङ्घशस्सर्वे संस्थितास्स्युः परस्परम्
तान् दृष्ट्वा समरे क्रुद्धांस् तव सैन्ये महारथाः
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः
भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः
अपराह्णे महाराज प्रावर्तत जनक्षयः
तावकानां च समरे परेषां चैव भारत
अभिमन्युर्विकर्णस्य हयान् हत्वा महामृधे
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः
आरुरोह रथं भ्रातुश् चित्रसेनस्य भास्वरम्
योधयामास समरे तदद्भुतमिवाभवत्
स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ
आर्जिनिः शरजालेन च्छादयामासतू रणे
दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः
विद्ध्वा नाकम्पयत् राजन् मैनाकमिव पर्वतम्
दुश्शासनस्तु समरे केकयान् पञ्च मारिष
योधयामास समरे तदद्भुतमिवाभवत्
द्रौपदेया रणे क्रुद्धा दुर्योधनमुपाद्रवन्
शरैराशीविषाकारैः पुत्रं तव विशां पते
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान् रणे
एकैकं त्रिभिरानर्च्छच् छरैरग्निशिखोपमैः
तैश्चापि विद्धश्शुशुभे रुधिरेणावसेचितः
गिरिः प्रस्रवणो र्यद्वद् गिरिधातुविचित्रितः
भीष्मोऽपि समरे राजन् पाण्डवानामनीकिनीम्
कालयामास बलवान् पालः पशुगणानिव
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते
दक्षिणेन वरूथिन्याः कुरून् राजन् विनिघ्नतः
उत्तस्थुस्समरे तत्र कबन्धानि सहस्रशः
कुरूणां चैव सैन्येषु पाण्डवानां च भारत
शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम्
रथनौभिर्नरव्याघ्राः प्रतेरुस्सैन्यसागरम्
भिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः
अदृश्यन्त रणे तत्र पतिताश्च सहस्रशः
निहतैर्मत्तमातङ्गैश् शोणितौघपरिप्लुतैः
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा
तत्राद्भुतमपश्याम तव तेषां च भारत
न तत्रासीत् पुमान् कश्चिद् यो युद्धं नाभिकाङ्क्षति
कश्चिद्योद्धा रणे तत्र योद्धुमिच्छन् स्वशत्रुणा
अन्येन युद्धं कुर्वाणं पुमांसं नाभिकाङ्क्षते
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः
तावकाः पाण्डवैस्सार्धं काङ्क्षमाणा रणे जयम्