सञ्जयः-
आत्मदोषात् त्वया राजन् प्राप्तं व्यसनमीदृशम्
न हि दुर्योधनस्तात पश्यते भरतर्षभ
यदिदं पश्यसे राजन् धर्मसङ्करकारणात्
तव दोषात् पुरा वृत्तं द्यूतमेतद्विशां पते
तव दोषेण युद्दं हि प्रवृत्तं पाण्डवैस्सह
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते
इह वा प्रेत्य वा राजन् तत् त्वां प्राप्तं यथातथम्
तस्माद्राजन् स्थिरो भूत्वा प्राप्येदं व्यसनं महत्
शृणु युद्धं यथावृत्तं शंसतो मम भारत
भीमसेनस्तु निशितैर् बाणैर्भित्त्वा महाचमूम्
आससाद ततो वीरस् सर्वान् दुर्योधनानुगान्
दुश्शासनं दुर्विषहं दुष्षहं दुर्जयं जयम्
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च
एतांश्चान्यांश्च सुबहून् समीपस्थान् महाबलान्
धार्तराष्ट्रान् सुसङ्क्रुद्धान् दृष्ट्वा भीमो महाबलः
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्
समाह्वयंस्तथाऽन्योन्यम् अयं प्राप्तो वृकोदरः
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः
इत्येवं वादिनस्सर्वे परिवव्रुर्वृकोरम्
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः
सम्प्राप्य मध्यं व्यूहस्य भीत्त्वाऽरीन् सोऽहनत् तदा
यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान्
ततश्शतसहस्राणि रथिनां च महात्मनाम्
छादयानाश्शरैर्घोरैस् तमेकं परिवव्रिरे
स तेषां प्रवरान् योधान् हस्त्यश्वरथसादिनः
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघांसताम्
समस्तानां वधे राजन् मतिं चक्रे महामनाः
ततो रथं समुत्सृज्य गदामादाय पाण्डवः
उवाच सारथिं भीमस् स्थीयतामिति भारत
यावदेतान् हनिष्यामि धार्तराष्ट्रान् सहानुगान्
इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम्
जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम्
गदया भिमसेनेन ताडिता वारणोत्तमाः
भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच
भिन्नगात्रास्सहारोहाश् शेरते पर्वता इव
रथाश्च भग्नास्तिलशस् सयोधाश्शतशो रणे
अश्वाश्च सादिनश्चैव पादातै्स्सह भारत
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
यदेकस्समरे राजन् बहुभिस्समयोधयत्
अन्तकाले प्रजास्सर्वा दण्डपाणिरिवान्तकः
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः
द्रोणमुत्सृज्य तरसा ययौ येन वृकोदरः
विदार्य सेनां महतीं तावकानां नरर्षभः
आससाद रथं शून्यं भीमसेनस्य संयुगे
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः
अपृच्छद्बाष्पसंरुद्धो गद्गदां वाचमीरयन्
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः
विशोकः-
संस्थाप्य मामिह बली भीमसेनो महाबलः
प्रविष्टो धार्तराष्ट्राणाम् एतद्बलमहार्णवम्
मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः
प्रतिपालय मां सूत नियम्याश्वान् मुहूर्तकम्
यावदेवान्निहन्म्याशु य इमे मद्वधोद्यताः
अभ्यधावद्गदापाणिस् तद्बलं स महाबलः
ततो दृष्ट्वा सखायं ते प्रधावन्तं महाबलम्
सर्वेषामेव सैन्यानां सङ्घर्षस्समजायत
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके
भित्त्वा राजन् महाव्यूहं प्रविवेश सखा तव
सञ्जयः-
विशोकस्य वचश्श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः
प्रत्युवाच ततस्सूतं रणमध्ये महाबलः
धृष्टद्युन्मः
न हि मे जीविते किञ्चिद् विद्यतेऽत्र प्रयोजनम्
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति
एकायनगते भीमे मयि चावस्थिते युधि
परत्र तस्य कुर्वन्ति देवा इन्द्रपुरोगमाः
यस्सहायं परित्यज्य स्वस्तिमानाव्रजेद्गृहान्
रौरवे नरके मञ्जेद् अप्लवे दुस्तरे नृभिः
मम भीमस्सखा चैव सम्बन्धी च महाबलः
भक्तोऽस्मान् भक्तिमांश्चाहं तमप्यरिनिषूदनम्
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः
निघ्नन्तं मामरीन् पश्य दानवानिव वासवम्
सञ्जयः-
एवमुक्त्वा ततो राजन् ययौ मध्येन वाहिनीम्
भीमसेनस्य मार्गेषु गदाविमथितैर्गजैः
स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम्
वातं वृक्षानिव बलात् प्रभञ्जन्तं रणे नृपान्
ते हन्यमानास्समरे रथिनस्सादिनस्तथा
पादाता दन्तिनश्चैव चक्रुरार्तस्वरं पृथक्
हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष
क्रोधितो भीमसेनेन क्रोधिना चित्रघाधिना
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम्
अभीतास्समवर्षन्त शस्त्रवृष्ट्या समन्ततः
अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरैः
सैन्येन घोरेण सुसंवृतेन सुसंवतं पार्षतो भीमसेनम्
अथोपगच्छच्छरविक्षताङ्गं पदातिनं घोरविषक्तरूपम्
आश्वासयन् पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले
विश्शल्यमेनं च चकार तूर्णम् आरोपयच्चात्मरथं महात्मा
भृशं परिष्वज्य च भीमसेनम् आश्वासयामास च शत्रुमध्ये
तथा तस्मिन् वर्तमानेऽतिवेलं भ्रातॄनथोपेत्य तवापि पुत्रः
तस्मिन् विमर्दे सहसा प्रवृत्ते दृष्ट्वा रणे वाक्यमिदं बभाषे
दुर्योधनः-
अयं दुरात्मा द्रुपदस्य पुत्रस् समागतो भीमसेनेन सार्धम्
तं यात सर्वे सहसा निहन्तु मा वो रिपुः प्रार्थयतामनीके
सञ्जयः-
श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठज्ञया चोदिता धार्तराष्ट्राः
वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः
प्रगृह्य चित्राणि धनूंषि वीरा ज्यानेमिघोषैः प्रविकम्पयन्तः
शरैरवर्षर्द्रुपदस्य पुत्रं यथाम्बुदा भूधरमम्बुजालैः
स घातितश्चापि शरैस्सुतीक्ष्णैर् न विव्यथे समरे चित्रयोधी
समभ्युदीर्णांश्च तवात्मजांस्तदा निशाम्य वीरानभितस्स्थितान् रणे
जिघांसुरुग्रो द्रुपदात्मजो रणे प्रमोहनास्त्रं युयुजे महारथः
पुत्रेषु ते क्रोधवशेषु राजन् दैत्येषु यद्वत् समरे महेन्द्रः
स वै ततोऽस्त्रं सुमहाप्रभावं प्रमोहनं द्रोणदत्तं महात्मना
प्रयोजयामास उदारकर्मा तस्मिन् रणे तव सैन्यस्य राजन्
ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्त्वाः
प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागास्सरथास्समन्तात्
परीतकाला इव नष्टसञ्ज्ञा मोहाश्रया नावगच्छन्ति किञ्चित्
एतस्मिन्नेव काले तु भीमः प्रहरतां वरः
विश्रम्य च तदा राजन् पीत्वाऽमृतरसं जलम्
पुनस्सन्नह्य सहसा योधयामास संयुगे
धृष्टद्यम्नेन सहितः कालयामास भारत
एतस्मिन्नन्तरे राजन् द्रोणश्शस्त्रभृतां वरः
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः
सोऽतिविद्धस्ततो राजन् रणे द्रोणेन पार्थिवः
अपायाद्द्रुपदो राजन् पूर्ववैरमनुस्मरन्
जित्वा तु द्रुपदं द्रोणः प्रदध्मौ शङ्खमाहवे
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुस्सर्वसोमकाः
अथ शुश्राव तेजस्वी द्रोणश्शस्त्रभृतां वरः
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव
ततो द्रोणो राजगृध्नुस् त्वरितोऽभिययौ रणम्
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान्
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे
मोहाविष्टांश्च ते पुत्रान् अपश्यत् स
ततः प्रज्ञास्त्रमदाय मोहनास्त्रं व्यनाशयत्
ततः प्रत्यागतप्राणास् तव पुत्रा महारथाः
पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्
युधिष्ठिरः-
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः
प्रवृत्तिमभिगच्छन्तु न हि शुद्ध्यति मे मनः
प्रवृत्तिं भिमसेनस्य पार्षतस्य च संयुगे
विज्ञेया समरे शीघ्रं प्रविशध्वं रणार्णवम्
गच्छन्तु परया शक्त्या भवन्त इति मे मनः
सञ्जयः-
बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः
मध्यन्दिनगते सूर्ये प्रययुस्ते महारथाः
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान्
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः
ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमाः
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे
तान् प्रयातान् महेष्वासान् अभिमन्युपुरोगमान्
भीमसेनभयाविष्टा धृष्टद्युम्नेन मोहिता
मोहिता मदमूर्च्छाभिर् नारीव विवशा तथा
न च सन्धाररयितुं सेहे तव सेना नराधिप
ततो गत्वा महेष्वासास् सुवर्णविकृतध्वजाः
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ
तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान्
बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम्
द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम्
दृष्ट्वा तु सहसाऽऽयान्तं पाञ्चाल्यो गुरुमात्मनः
नाशंसत वधं वीरः पुत्राणां तव पार्षतः
ततो रथं समारोप्य कैकेयस्य वृकोदरम्
अभ्यधावत् सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम्
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्
क्रुद्धश्चिच्छेद समरे तद्धनुश्शत्रुसूदनः
अन्यांश्च शतशो बाणान् प्रेषयामास पार्षते
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन्
अथान्यद्धनुरादाय पार्षतः क्रोधमूर्च्छितः
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक
द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैश्शिलाशितैः
वैवस्वतक्षयं घोरं प्रेषयामास भारत
हयांश्च चतुरस्तूर्णं चतुर्भिस्सायकोत्तमैः
सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे
हताश्वात् स रथात् तूर्णम् अवप्लुत्य महारथः
आरुरोह महाबाहुर् अभिमन्योर्महारथम्
ततस्सरथनागाश्वा समकम्पत वाहिनी
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः
तत् प्रभग्नं बलं दृष्ट्वा द्रोणेनामित्रकर्शिना
नाशक्रुवन् धारयितुं समस्तास्ते महारथाः
वध्यमानं तु समरे द्रोणेन निशितैश्शरैः
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः
तथा तु दृष्ट्वा तत् सैन्यं जहृषे तावकं बलम्
दृष्ट्वाऽऽचार्यं च सङ्क्रुद्धं तपन्तं रिपुवाहिनीम्
तुष्टुवुस्सर्वतो योधास् साधु साध्विति भारत