धृतराष्ट्रः-
एवं बहुगुणं सैन्यम् एवं बहुविधं परम्
व्यूढमेवं यथान्यायम् अमोघं चैव सञ्जय
जुष्टमस्माकमत्यन्तम् अभिरामं च नस्सदा
प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम्
नातिवृद्धमबालं च न कृशं न च पीवरम्
लघुवृत्तायतप्रायं सागराकारमव्ययम्
आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम्
असियुद्धे नियुद्धे च गदायुद्धे च सञ्जय
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च
भिण्डिपालेषु शूलेषु मुसलेषु च सर्वशः
कर्षणेषु च चापेषु करणेषु च सर्वशः
क्षेपणीषु विचित्रासु मुष्टियुद्धेषु कोविदम्
अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम्
अस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्
आरोहे पर्यवस्कन्दे सरणे सोत्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्
नागाश्वरथयानेषु बहुशः परिनिष्ठितम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः
न सौहृदबलात्कारैर् न कुलैर्न परिग्रहैः
कुलीनमाढ्यं वीरं च तुष्ठं सत्कृतबान्धवम्
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च
अजेयैश्च जनैर्मुख्यैर् बहुशो मुख्यकर्मभिः
लोकपालोपमैस्तत्र पालितं लोकविश्रुतैः
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां शूरसत्तमै
अस्मानभिगतं कामात् सबलं सपदानुगम्
महोदधिमिवापूर्णम् आपगाभिस्समन्ततः
सपक्षगिरिसङकाशै रथैर्नागैश्च संवृतम्
नानायोधबलैर्भीमं वाहनोर्मितरङ्गिणम्
क्षेपणासिगदाशक्तिशरप्राससामाकुलम्
ध्वजभूषणसम्बाधं रत्नकुट्टिमभूषितम्
वाहनैः परिधावद्भिर् वायुवेगसमैर्जवे
परिकल्पितभूयिष्ठं ग्राहैरिव जलाशयैः
अपारमिव गर्जन्तं सागरप्रतिमं महत्
द्रोणभीष्मादिभिर्गुप्तं गुप्तं च कृतवर्मणा
कृपदुश्शासनाभ्यां च जयद्रथमुखैस्तथा
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः
गुप्तं प्रवीरैर्लौकस्य सारवद्भिर्महारथैः
यदहन्यत सैन्यं मे दिष्टमत्र परायणम्
नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय
ईदृशो हि बलौघस्तु युक्तश्शस्त्रास्त्रसम्पदा
वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः
विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय
यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान्
अथवा पाण्डवार्थाय देवास्तत्र समागताः
युध्येयुर्मामकं सैन्यं यथाऽहन्यत संयुगे
उक्तोऽपि विदुरेणाहं हितं युक्तं च नित्यशः
न श्रृणोत्यपि तन्मन्दः पुत्रो दुर्योधनो मम
तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः
आसीद्यथागतं तात येन दृष्टमिदं पुरा
अथवा भाव्यमेवं हि सञ्जयैतेन सर्वथा
पुरा धात्रा यथा दिष्टं तत् तथा न तदन्यथा