सञ्जयः-
विहृत्य तु ततो राजन् सहिताः कुरुपाण्डवाः
ततो रात्र्यां व्यतीतायं पुनर्युद्धाय निर्ययुः
ततश्शब्दो महानासीत् तव तेषां च भारत
गच्छतां पाण्डवानां च सन्नद्धानां दृढात्मनाम्
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम्
सन्नह्यतां पदातीनां हयानां चैव भारत
सन्नह्यतां रणे योद्धुं दृढकञ्चुकधारिणाम्
शङ्खदुन्दुभिनादश्च तुमुलस्सर्वतोऽभवत्
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत
युधिष्ठिरः-
व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम्
सञ्जयः-
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः
मकरं व्यूहमकरोत् पुरा भीष्मेण कारितम्
व्यादिदेश यथान्यायं रथिनो रथिनां वरः
मकरेण तु संव्यूह्य बलं व्यूहविदां वरः
शिरोऽभूद्द्रुपदश्चास्य पाण्डवश्च धनञ्जयः
चक्षुषी सहदेवश्च नकुलश्च महारथः
तुण्डमासीन्महाराज भीमसेनो महाबलः
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समाश्रिताः
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः
धृष्टद्युम्नो सहितो महत्या सेनया वृतः
केकया भ्रातरः पञ्च वामपार्श्वमुपाश्रिताः
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे
धृष्टकेतुर्नरव्याघ्रः कनकर्षश्च वीर्यवान्
कुन्तिभोजश्शतानीको महत्या सेनया वृतः
शिखण्डी तु महेष्वासस् सोमकैस्संवृतो बली
इरावांश्च नृपः पुच्छे मकरस्य व्यवस्थितौ
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः
सूर्योदये महाराज पुनर्युद्धाय दंशिताः
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः
समुच्छ्रितैर्ध्वजैश्छत्रैश् शस्त्रैश्च विमलैश्शितैः
व्यूहितं दृश्य तत् सैन्यं पिता देवव्रतस्तव
कौञ्चेन महता राजन् प्रत्यव्यूहत वाहिनीम्
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत
अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर
कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः
शिरस्यासीन्नरश्रेष्ठश् श्रेष्ठस्सर्वधनुष्मताम्
ग्रीवायां शूरसेनश्च तव पुत्रश्च भारत
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः
भगदत्तो महावीरो मद्रसौवीरकेकयैः
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः
पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः
स्वसेनया च सहितस् सुशर्मा प्रस्थलाधिपः
वामं पक्षं समाश्रित्य दंशितस्समवस्थितः
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत
श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्
ततो युद्धाय संसक्ताः कौरवा पाण्डवैस्सह
सूर्योदये महाराज प्रावर्तत जनक्षयः
जग्मुश्च रथिनो नागान्नागाश्च रथिनो ययुः
हयारोहा गजारोहान् रथिनश्चापि सादिनः
सादिनो रथिनो राजन् कुञ्जराश्च विशां पत
हस्त्यारोहान् हयारोहान् रथिनश्चापि सादिनः
सादिनः पत्तिभिस्सार्धं सादिभिश्चापि पत्तियः
अन्योन्यं समरे राजन् प्रत्यधावन्नमर्षिताः
भीमसेनार्जुनयमैर् गुप्ता चान्यैर्महारथैः
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः
तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी
अभ्ययाज्जवनैरश्वैर् भारद्वाजस्य वाहिनीम्
विव्याध त्वरितो राजन् मर्माण्युद्दिश्य भारत
द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः
दृढाहतस्तदा भीमो भारद्वाजस्य संयुगे
सारथिं प्रेषयामास यमस्य सदनं प्रति
स सङ्गृह्य स्वयं वाहान् भारद्वाजः प्रतापवान्
व्यधमत् पाण्डवीं सेनां तूलराशिमिवानलः
ते वध्यमाना भीष्मेण द्रोणेन च महात्मना
सृञ्जयाः केकयैस्सार्धण पलायनपरा भवन्
तथैव तावकी सेना भीमसेनपरिक्षतम्
मुह्यते तत्र तत्रैव समदेव वराङ्गना
अभिद्येतां महाव्यूहौ तस्मिन् वीरवरक्षये
आसीद्व्यतिकरो घोरस् तव तेषां च भारत
तदद्भुतमपश्याम तावकानां परैस्सह
एकायनगतास्सर्वे यदयुध्यन्त संयुगे
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते
युयुधुः पाण्डवाश्चैव कुरवश्च समाहिताः