सञ्जयः-
अथ राजन् महाबाहुस् सात्यकिर्युद्धदुर्मदः
विकृष्य चापं समरे भारसाधनमुत्तमम्
यत् तत् सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम्
प्रगाढं लघु चित्रं च दर्शयन् हस्तलाघवम्
प्रामुञ्चत् पुङ्खसंयुक्ताञ् शरानाशीविषोपमान्
तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः
आददानस्य भूयश्च सन्दधानस्य चापरान्
क्षिपतश्चापरांस्तस्य रणे शत्रून् विनिघ्नतः
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः
तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः
रथानामयुतं तस्य प्रेषयामास भारत
तांस्तु सर्वान् महेष्वासान् सात्यकिस्सत्यविक्रमः
जघान च मेहेष्वासो दिव्येनास्त्रेण संयुगे
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः
आससाद ततो वीरो भूरिश्रवसमाहवे
स दृष्ट्वा निहतां सेनां सात्यकेन निपातिताम्
अभ्यधावदसम्भ्रान्तः कुरूणां कीर्तिवर्धनः
इन्द्रायुधसवर्णाभं स विष्फार्य महाधनुः
विसृजन् वज्रसङ्काल्पाञ् शरानाशीविषोपमान्
सहस्रशो माहाराज दर्शयन् पाणिलाघवम्
शरांस्तान् मृत्युसंस्पर्शान् सात्यकेस्तु पदानुगाः
विषेहिरे न ते राजन् दुद्रुवुश्च समन्ततः
विहाय समरे शूरं सात्यकिं युद्धदुर्मदम्
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः
महारथास्समाख्याताश् चित्रवर्मायुधध्वजाः
तमासाद्य महेष्वासं भूरिश्रवसमाहवे
क्रुद्धास्सर्वे सुसंरब्धा आहुरेवं महारणे
युयुधानपुत्राः-
भो भो कौरवादायाद सहास्माभिर्महाबल
आगच्छ युधि युध्यस्व समस्तैः पृथगेव वा
अद्य त्वस्मान् पराजित्य यशः प्राप्नुहि संयुगे
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः
सञ्जयः-
एवमुक्तस्तथा वीरैर् वीर्यश्लाघी महाबलः
तानुवाच नरश्रेष्ठो दृष्ट्वा वै समुपस्थितान्
सात्यकिः-
साध्विदं कथ्यते वीरा यद्येवं मतिरद्य वः
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे
सञ्जयः-
एवमुक्ता महेष्वासास् ते वीरान् क्षिप्रकारिणः
महता शरवर्षेण अभ्यवर्षदरिन्दमः
सोऽपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत्
एकस्य च बहूनां च समेतानां रणाजिरे
तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन्
प्रावृषीव महामेरुं सिषिचुर्जलदा यथा
तैस्तु त्यक्ताञ् शरौघांस्तान् यमदण्डाशनिप्रभान्
असम्प्राप्तानसम्प्राप्तश् चिच्छेदाशु महारथः
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्
यदेको बहुभिर्युद्धे समसददभीतवत्
विसृज्य शरवृष्टिं तां दश राजन् महारथाः
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः
सौमदत्तिस्ततः क्रुद्धस् तेषां चापानि भारत
चिच्छेद दशभिर्भल्लैर् निमेषेण महाबलः
अथैषां छिन्नधनुषां शरैस्सन्नतपर्वभिः
चिच्छेद समरे राजन् शिरांसि भरतर्षभ
ते हता न्यपतन् भूमौ वज्रभग्ना इव द्रुमाः
तान् दृष्ट्वा निहतान् वीरान् रणे पुत्रान् महाबलान्
वार्ष्णेयोऽभ्यपतद्राजन् भूरिश्रवसमाहवे
रथं रथस्य वेगेन पीडयन् सौमदत्तिनः
तावन्योन्यस्य समरे निहत्य रथवाजिनः
विरथावभिवल्गन्तौ समेयातां महारथौ
प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ
शुशुभाते नरव्याघ्रौ युद्धाय समपस्थितौ
खङ्गप्रहारैस्सुभृशं जघ्नतुश्च परस्परम्
पीडितौ खङ्हघाताभ्यां स्रवद्रक्तो क्षितौ भृशम्
शुशुभाते महावीर्यावुभौ समरदुर्जयौ
असृगुक्षितसर्वाङ्गौ पुष्पताविव किंशुकौ
असह्यमसियुद्धाय भूरिश्रवसमाहवे
मत्वा वृकोदरस्तूर्णम् अभिप्लुत्य महारथः
ततस्तु सात्यकिं राजन् सनिस्त्रिंशं महारथम्
त्वरमाणो रणे भीमो रथमारोपयत् स्वकम्
तथैव तव पुत्रोऽपि भूरिश्रवसमाहवे
आरोपयद्रथं तूर्णं स्वं रथं सर्वधन्विनाम्
लोहितायति चादित्ये त्वरमाणो धनञ्जयः
पश्यतां युधि राजेन्द्र तदद्भुतमिवाभवत्
पञ्चविंशतिसाहस्रान् निजघान महारथान्
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ
ते हि दुर्योधनादिष्टास् तदा पार्थनिबर्हणे
ते प्राप्यैव गता नाशं शलभा इव पावकम्
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः
परिवव्रु रणे पार्थं सहपुत्रं महारथम्
अस्तं गते तदाऽऽदित्ये तुमुले सङ्कुले भशम्
सर्वेषामेव सैन्यानां प्रमोहस्समजायत
अवहारं ततश्चक्रे पिता देवव्रतस्तव
सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः
पाण्डवानां कुरूणां च परस्परसमागमे
ते सेने भृशसन्तप्ते ययतुस्स्वं निवेशनम्
ततस्ते शिबिरं गत्वा न्यविशंस्तत्र भारत
पाण्डवस्सृञ्जयैस्सार्धं कुरवश्च यथाविधिः