सञ्जयः-
विराटोऽय त्रिभिर्बाणैर् भीष्ममार्च्छन्महारथम्
विव्याध तुरमान्त्रास्य त्रिभिर्बाणैर्महारथः
तं प्रत्यविध्यद्दशभिर् भीष्मश्शान्तनवश्शरैः
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः
अविध्यदिषुभिष्षङ्भिर् दृढहस्तस्स्तनान्तरे
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा
अविध्यच्च पुनस्तीक्ष्णैः पत्रिभिश्शत्रुकर्शनः
सोऽन्यत् कार्मुकमादाय वेगवान् क्रोधमूर्च्छितः
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे
अविध्यत् फल्गुनं राजन् नवत्या निशितैश्शरैः
वासुदेवं च सप्तत्या विव्याध परमेषुभिः
ततः क्रोधाभिताम्राक्षस् सह कृष्णेन फल्गुनः
दीर्घमुष्णं च निश्श्वस्य चिन्तयित्वा मुहुर्मुहुः
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
गाण्डीवधन्वा सङ्क्रुद्धश् शितान् सन्नतपर्वणः
जीवितान्तकरान् घोरान् समाधत्त शिलीमुखान्
तैस्तूर्णं समरेऽविध्यद् द्रौणिं बलवतां वरः
कवचं घातयामास पुनस्तीक्ष्णैश्शिलीमुखैः
तस्य ते कवचं भित्त्वा पपुश्शोणितमाहवे
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना
तथैव च शरान् पार्थे प्रविमुञ्चन्न विह्वलः
तस्थौ च समरे राजंस् त्रातुमिच्छन् महाव्रतम्
तस्य तत् सुमहत् कर्म शशंसुः कुरुसत्तमाः
यत् कृष्णाभ्यां समेताभ्यां प्रयुध्यन्नात्रसद्युधि
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः
तथाऽर्जुनोऽपि संहृष्ट अश्वत्थामानमाहवे
शशंस सर्वभूतानां श्रृण्वतामपि भारत
अस्त्रग्रामं ससंहारं द्रोणात् प्राप्य सुदुर्लभम्
ममायमाचार्यसुतो द्रोणस्यापि प्रियस्सुतः
ब्राह्मणश्च विशेषेण माननीयो ममेति च
समास्थाय मतिं धीरो बीभत्सुश्शत्रुतापनः
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयश्शत्रुतापनः
युयुधे तावकान् वीरान् स्मयमानाः पराक्रमी
दुर्योधनस्तु दशभिर् गार्ध्रपत्रैश्शिलाशितैः
भीमसेनं महेष्वासं रुक्मपुङ्खैस्समार्पयत्
भीमसेनस्तु सुसङ्क्रुद्धः परासुकरणं दृढम्
चित्रं कार्मुकमादत्त शरान् सुनिशितान् बहून्
आकर्णप्रेषितैस्तैस्तु वेगितैस्तिग्मतेजनैः
अविध्यत् तूर्णमव्यग्रः कुरुराजं महोरसि
तस्य काञ्चनसूत्रस्थश् शरैः परिवृतो मणिः
रराजोरसि खे सूर्यो ग्रहैरिव समावृतः
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित
नामृष्यत यथा नागस् तलशब्दं मदोत्कटः
ततश्शरैर्महाराज रुक्मपुङ्खैश्शिलाशितैः
भीमं विव्याध सङ्क्रुद्धस् त्रासयानो वरूथिनीम्
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ
पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि
नृत्यन्निव रणे वीरः परान् सन्तापयद्रणे
तं प्रत्यविध्यद्दशभिश् चित्रसेनश्शिलीमुखैः
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः
स विद्धो विक्षरन् रक्तं देहात् सम्भिन्नकञ्चुकात्
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत्
ततस्तु तावका वीरा राजपुत्रा महारथाः
समेत्य युधि संरब्धा विव्यधुर्निशितैश्शरैः
तांश्च सर्वाञ् शरैस्तीक्ष्णैर् जघान परमास्त्रवित्
तस्य दृष्ट्वा तु तत् कर्म परिवव्रुस्सुतास्तव
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम्
अपेतशिशिरे काले समिद्ध इव पावकः
अत्यरोचत सौभद्रस् तव सैन्यानि नाशयन्
तत् तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते
लक्ष्मणोऽभ्यपतद्राजन् सात्वतीपुत्रमाहवे
अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम्
विव्याध विशिखैष्षड्भिस् सारथिं च त्रिभिश्शरैः
तथैव लक्ष्मणो राजन् सौभद्रं निशितैश्शरैः
अविध्यत महाराज तदद्भुतमिवाभवत्
सौभद्रस्तु ततः क्रुद्धो लक्ष्मणं निजघान ह
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैश्शरैः
हताश्वे तु रथे तिष्ठल्ँलक्ष्मणः परवीरहा
शक्तिं चिक्षेप सङ्क्रुद्धस् सौभद्रस्य रथं प्रति
तामापतन्तीं सहसा घोररूपां दुरासदाम्
अभिमन्युश्शरैस्तीक्ष्णैश् चिच्छेद भुजगोपमाम्
ततस्स्वरथमारोप्य लक्ष्मणं गौतमस्तदा
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः
ततस्समाकुले युद्धे वर्तमाने भयावहे
हयो हयं गजो नागं वीरो वीरं विशां पते
अभ्यद्रवज्जिघांसन्त सोऽहन्यत स चावधीत्
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः
जुह्वन्तस्समरे प्राणान् आजघ्नुरितरेतरम्
मुक्तकेशा विकवचा विरथा भिन्नकार्मुकाः
बाहुभिस्समयुध्यन्त सृञ्जयाः कुरुभिस्सह
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम्
सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः
रथैर्भग्नपताकैश्च समास्तीर्यत मेदिनी