सञ्जयः-
शिखण्डी सह मात्स्येन विराटेन विशां पते
भीष्ममेव महेष्वासस् आससाद सुदुर्जयम्
द्रोणं कृपं विकर्णं च महेष्वासान् महाबलान्
राज्ञश्चान्यान् रणे राजन् बहूनार्च्छद्धनञ्जयः
सैन्धवं च साहामात्यं महेष्वासं सबन्धुभिः
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपालन् विशां पते
पुत्रं च तव दुर्धर्षं दुर्योधनममर्षणम्
दुष्षहं चैव समरे भीमसेनोऽभ्यवर्तत
सहदेवस्तु शकुनिम् उलूकं च महारथम्
पितापुत्रौ महेष्वासौ अभ्यवर्षत् सुदुर्जयौ
युधिष्ठिरो महाराज राजानीकं महारथः
समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव
माद्रीपुत्रस्तु नकुलश् शूरसङ्क्रन्दनो युधि
त्रिगर्तानां सौभद्रश्च समसञ्जत पाण्डवः
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः
अभ्यवर्तन्त सङ्ग्रामे दुर्धर्षान् साल्वकेकयान्
नाकुलिश्च शतानीकस् समरे रथपुङ्गवः
पुत्राणां ते रथानीकं अभ्यवर्तत दुर्धरः
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः
द्रोणेन समरे राजन् समियायोग्रकर्मणा
एवमेते महेष्वासास् तावकाः पाण्डवैस्सह
समेत्य समरे शूरास् सम्प्राहारं प्रचक्रिरे
मध्यन्दिनगते सूर्ये प्रतापयति सर्वतः
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे
सपताका रथा रेजुर् वैयाघ्रपरिवारणाः
समेतानां च समरे जिगीषूणां परस्परम्
बभूव तुमुलश्शब्दस् सिंहानामिव नर्दताम्
तत्राद्भुतमपश्यास सम्प्रहारं सुदारुणम्
यदकुर्वन् रणे वीराः कुरुवः पाण्डवैस्सह
नैव खं न दिशो राजन् न सूर्यश्शत्रुतापन
विदिशस्समदृश्यन्त शरैर्मुक्तैस्समन्ततः
शक्तीनां विमलाग्राणां तोमराणां तथाऽस्यताम्
निस्त्रिंशानां च क्षिप्तानां नीलोत्पलनिभाः प्रभाः
कवचानां विचित्राणां भूषणानां तथा प्रभाः
खं दिशः प्रदिशश्चैव छादयामासुरोजसा
असिभिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः
विरराज तथा राजंस् तत्र तत्र रणाङ्गणम्
रथसिंहा रथव्याघ्रास् समवेताश्च संयुगे
विरेजुस्समरे राजन् ग्रहा इव नभस्स्थले
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम्
अवारयत सङ्क्रुद्धस् सर्वसैन्यस्य पश्यतः
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाश्शिलाशिताः
अभ्यघ्नन् समरे भीमं तैलघौतास्सुतेजनाः
तस्य शक्तिं महावेगं भीमसेनो महाबलः
क्रुद्धाशीविषसङ्काशं प्रेषयामास भारत
तामापतन्तीं सहसा रुक्मपुङ्खां सुदुरुणाम्
चिच्छेद समरे भीष्मश् शरैस्सन्नतपर्वभिः
ततोऽपरेण भल्लेन पीतेन निशितेन च
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत
अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः
शरैर्बहुभिरानर्च्छद् भीष्मं शान्तनवं युधि
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे
शरैर्बहुभिरानर्च्छत् पितरं ते नरेश्वर
ततस्सन्धाय वै तीक्ष्णं शरं परमदारुणम्
वार्ष्णेयस्य ततो भीष्मः पातयामास सारथिम्
तस्याश्वाः प्रद्रुता राजन् निहते रथसारथौ
तेन तेनैव धावन्ति मनोमारुतरंहसः
ततस्सर्वस्य सैन्यस्य निस्स्वनस्सुमहानुभूत्
हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम्
अभ्यद्रवत गृह्णीत हयान् यच्छत धावत
इत्यासीत् तुमुलश्शब्दो युयुधानरथं प्रति
एतस्मिन्नेव काले तु भीष्मश्शान्तनवस्तदा
न्यहनत् पाण्डवीं सेनाम् आसुरीमिव वृत्राहा
ते वध्यमाना भीष्मेण पाञ्चालास्सह सोमकैः
क्रुद्धा युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः
धृष्टद्युम्नमुखाः पार्थाः भीष्मं शान्तनवं रणे
अभ्यधावञ्जिघांसन्तः पुत्रस्य तव वाहिनीम्
तथैव तावका राजन् भीष्मद्रोणमुखाः परान्
अभ्यधावञ्जिघांसन्तः पाण्डवानां महाचमूम्
तावकानां परेषां च ततो युद्धमवर्तत