सञ्जयः-
तस्यां रात्र्यां व्यतीतायां निर्ययुः कुरुपुङ्गवाः
पुरस्कृत्य महात्मानं भीष्मं शान्तनवं युधि
अभ्यधावन्त सङ्क्रुद्धाः परस्परजिघांसवः
सर्वे ते सहिता राजन् समालोक्य परस्परम्
पाण्डवा धार्तराष्ट्राश्च राजन् दर्मन्त्रिते तव
व्यूहौ च व्यूह्य संरब्धास् सम्प्रवृद्धाः प्रहारिणः
अरक्षन् मकरव्यूहं भीष्मो राजन् समन्ततः
तथैव पाण्डवा राजन्नरक्षन् व्यूहमात्मनः
अजातशत्रुश्शत्रूणां मनांसि समकम्पयत्
श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात् स्वयम्
स हि तस्य सुविज्ञात अग्निचित्येषु भारत
मकरस्तु महाव्यूहस् तव पुत्रस्य धीमतः
स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा
यथाव्यूहं शान्तनवस् सोऽन्ववर्तत तत् पुनः
स निर्ययौ महानीकात् पिता देवव्रतस्तव
महता रथवंशेन संवृतो बलिनां वरः
इतरे त्वन्वयुस्सर्वे यथाभागमवस्थिताः
रथिनः पत्तयश्चापि दन्तिनस्सादिनस्तथा
तान् दृष्ट्वा द्रवतस्सङ्ख्ये पाण्डवा अपि भारत
श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे
अशोभत मुखे तस्य भीमसेनो महाबलः
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः
शीर्षे तस्याभवद्वीरस् सात्यकिस्सत्यविक्रमः
विधुन्वन् गाण्डिवं पार्थो ग्रीवायामभवत् तदा
अक्षौहिण्या समग्राया वामपक्षोऽभवत् तदा
महात्मा द्रुपदश्श्रीमान् मत्स्येन सह संयुगे
दक्षिणे चाभवत् पक्षे कैकेयोऽक्षौहिणीपतिः
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्
पुच्छे समभवच्छ्रीमान् स्वयं राजा युधिष्ठिरः
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः
प्रविश्य च तदा भीमो मकरस्सागरं यथा
भीष्ममासाद्य सङ्ग्रामे च्छादयामास सायकैः
ततो भीष्मो महास्राणि पातयामास संयुगे
मोहयन् पाण्डुपुत्राणां व्यूढं सैन्यं महारणे
सम्मुह्यमाने सैन्ये तु त्वरमाणो धनञ्जयः
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि
प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः
ततो दुर्योधनो राजा भारद्वाजमभाषत
पूर्वं दृष्ट्वा क्षयं घोरं बलस्य बलिनां वरः
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः
दुर्योधनः-
आचार्य सततं त्वं हि हितकामो भवान् मम
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्
देवानपि रणे जेतुं प्रार्थयामो न संशयः
किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान्
सञ्जयः-
एवमुक्तस्ततो द्रोणस् तव पुत्रेण भारत
उवाच तत्र राजनं सङ्क्रुद्ध इव निश्चसन्
द्रोणः-
बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम्
न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः
यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते
सञ्जयः-
इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम्
अभिनत् पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः
सात्यकिस्तु ततो द्रोणं वारयामात भारत
तयोः प्रववृते युद्धं घोररूपं भयावहम्
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान्
अविध्यन्निशितैर्बाणैर् जत्रुदेशे स्मयन्निव
भीमसेनस्ततः क्रुद्धो भारद्वाजमयुध्यत
संरक्षन् सात्यकिं राजन् द्रोणाच्छस्त्रभृतां वरात्
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च भारत
भीमसेनं रणे क्रुद्धाश् छादयाञ्चक्रिरे शरैः
अथाभिमन्युस्सङ्क्रुद्धो द्रौपदेयाश्च भारत
विव्यधुर्निशितैर्बैणैस् सर्वांस्तानुद्यतायुधान्
द्रोणभीष्मौ शरैः क्रुद्धाश् छादयन्ति समन्ततः
प्रत्युद्ययौ शिखण्डी च महेष्वासो महाहवे
प्रगृह्य बलवद्वीरो धनुर्जलदनिस्स्वनम्
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम्
शिखण्डिनं समासाद्य भरतानां पितामहः
अवर्जयत सङ्ग्रामं स्त्रीत्वं तस्यानुसंस्मरन्
ततो द्रोणो महेष्वासस् शिखण्डिनमभिद्रवत
रक्षमाणो रणे भीष्मं तव पुत्रेण चोदितः
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्
अवर्जयत सन्त्रस्तो युगान्ताग्निमिवोत्थितम्
ततो बलेन महता पुत्रस्तव विशां पते
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः
तथैव पाण्डवा राजन् पुरुस्कृत्य धनञ्जयम्
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्
तद्युद्धमभवद्धोरं देवानां दानवैरिव
जयमाकाङ्क्षतां युद्धे यशश्च सुमहद्रणे