भीष्मः-
स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत
ब्रह्मर्षिभिश्च देवैश्च पुरा यः कथितो भुवि
साध्यानामपि देवानां देवदेवेश्वरं प्रभुम्
लोकभावनभावज्ञं विदित्वां नारदोऽब्रवीत्
नारदः-
भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह
यज्ञानामपि यज्ञश्च तपश्च तपसामपि
देवानामपि देवं च त्वामाह भगवान् भृगुः
पुराणे वैभवं रूपं विष्णोऽभूत्तव चेति वै
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तदा
देवदेवोऽसि देवानाम् इति द्वैपायनोऽब्रवीत्
पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम्
स्रष्टारं सर्वभूतानाम् आङ्गिरास्त्वामथाऽब्रवीत्
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम्
देवानां सम्भवश्चेति देवलस्त्वसितोऽब्रवीत्
शिरसा ते दिव्यं व्याप्तं बाहुभ्यां धरणी धृता
जठरं ते त्रयो लोकाः पुरुषस्त्वं सनातनः
देवास्त्वामभिजानन्ति तपसा भावितास्सदा
आत्मदर्शनतृप्तानाम् ऋषीणामृषिसत्तम
राजर्षीणामुदाराणाम् आहवेष्वनिवर्तिनाम्
सर्वभूतप्रधानानां गतिस्त्वं पुरुषोत्तम
एतद्वैपायनः प्राह स्तुवा वै पुरुषोत्तमम्
एतद्विस्तरश्चापि सङ्क्षेपश्च प्रकीर्तितः
केशवस्य यथातत्त्वं सुप्रीतो भज केशवे
सञ्जयः-
एतच्छ्रुत्वा तु वचनं भीष्मस्य तनयस्तव
केशवं बहुमेने च पाण्डवांश्च महारथान्
तमब्रवीन्महाराज भीष्मश्शान्तनवस्तदा
भीष्मः-
माहात्म्यं ते श्रुतं राजन् केशवस्य महात्मनः
नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि
यदर्थं नृषु सम्भूतौ नरानारायणावुभौ
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ
यथा च पाण्डवा राजन् न वध्या युधि कस्यचित्
प्रीतिमान् हि यथा कृष्णः पाण्डवेषु महात्मसु
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी
नरानारायणौ देवाववज्ञाय विनङ्क्ष्यसि
सञ्जयः-
एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते
व्यसर्जयच्च राजानं शयनं च विवेश ह
राजा च शिबिरं प्रायात् प्रणिपत्य महात्मने
शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ