दुर्योधनः-
वासुदेवो महद्भूतं सर्वलोके गुरुश्च यः
तस्यागमं प्रतिष्ठां च श्रोतुमिच्छे पितामह
भीष्मः-
वासुदेवो महद्भूतं सम्भूतमिह दैवतम्
न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ
श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च
असितो देवलश्चापि वालखिल्यास्तपोधनाः
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत्
सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्
स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः
सर्वदेवमयो देवश् शयानश्शयने सुखम्
मुखतस्सोऽग्निमसृजत् प्राणाद्वायुमथापि च
सरस्वतीं च वेदांश्च वासुदेवो महायशाः
एष लोकान् ससर्जादौ देवानृषिगणैस्सह
निधनं चैव मृत्युं च प्रजानां प्रभवाप्ययौ
एष धर्मश्च धर्मज्ञो वरदस्सर्वकामदः
एष कर्ता च कार्यं च आदेरादिस्स्वयं प्रभुः
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्
उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः
ऋषींश्चैव हि गोविन्दस् तपश्चैवाभ्यकल्पयत्
स्रष्टा यो जगतश्चापि महात्मा प्रभुरव्ययः
अग्रजस्सर्वभूतानां सङ्कर्षणमकल्पयत्
शेषं चाकल्पयद्देवम् अनन्तमिति यं विदुः
यो धारयति भूतानि धरां चेमां सपर्वताम्
ध्यानयोगेन विप्राश्च तं विदन्ति महौजसः
कर्णस्रोतोभवश्चापि मधुर्नाम महासुरः
तमुग्रमुग्रकर्माणम् उग्राबुद्धिं समाश्रितम्
हरन्तं ब्रह्मणो वेदाञ् जघान ब्रह्मणः पिता
ब्रह्मणोऽपचितिं कुर्वन् महात्मा पुरुषोत्तमः
तस्य तात वधादेव देवदानवमानवाः
मधुसूदनमित्याहुर् ऋषयश्च जनार्दनम्
वराहं नारसिंहं च त्रिविक्रममिति प्रभुम्॥
एष धाता विधाता च सर्वेषां प्राणिनां प्रभुः
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति
असृजन्मुखतो विप्रान् बाहुभ्यां क्षत्रियांस्तथा
वैश्यांश्चाप्यूरुतो राजञ् शूद्रान् पद्भ्यां तथैव च
तपसा नियतं देवम् ईशानं सर्वदेहिनाम्
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च
योगभूतं परिचरन् केशवं महदाप्नुयात्
केशवः परमं तेजस् सर्वलोकपितामहः
एवमार्हुर्हृषीकेशं मुनयो वै नराधिप
एवमेनं विजानीहि आचार्यं पितरं गुरुम्
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः
यश्चैनं वै भयस्थाने केशवं शरणं व्रजेत्
अध्यायं श्रृणुयाच्चैनं स्वस्तिमान् स भवेन्नरः
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः
भये महति मग्नांश्च त्राति नित्यं जनार्दनः
एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत
सर्वात्मनां महात्मानं केशवं जगदीश्वरम्
प्रपन्नश्शरणं राजन् योगानामीश्वरं प्रभुम्