भीष्मः-
ततस्स भगवान् देवो लोकानां परमेश्वरः
ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा
विदितं तत् तु लोकात्मन् सर्वं तु तव चेप्सितम्
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत
ततो देवर्षिगन्धर्वा विस्मयं परमं गताः
कौतूहलपरास्सर्वे प्रजापतिमथाब्रुवन्
देवर्षिगन्धर्वाः-
को न्वयं यो भगवता प्रणम्य विनयाद्विभो
वाग्भिस्स्तुतो वरिष्ठाभिश् श्रोतुमिच्छाम तं वयम्
भीष्मः-
एवमुक्तस्स भगवान् प्रत्युवाच पितामहः
देवब्रह्मर्षिगन्धर्वान् सर्वान् मधुरया गिरा
ब्रह्माः-
यत्तत् परं भविष्यं च भवितव्यं च यत् परम्
भूतात्मा चः प्रसूश्चैव ब्रह्मवर्चः परं पदम्
तेनाहं कृतसंवादः प्रसन्नेन सुरर्षभाः
जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः
असुराणां वधार्थाय सम्भवस्व महीतले
सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः
त इमे नृषु सम्भूता घोररूपा महाबलाः
तेषां वधार्थं भगवान् नरेण सहितो वशी
मानुषीं योनिमास्थाय चरिष्यति महीतले
नरनारायणावेतौ पुराणावृषिसत्तमौ
सम्भूतौ मानुषे लोके सहितावमितद्युती
अजेयौ हि रणे यत्तौ सहितावमरैरपि
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी
यस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः
वासुदेवोऽर्चनीयो वै सर्वलोकमहेश्वरः
न वै मनुष्योऽयमिति कदाचित् सुरसत्तमाः
अवज्ञेयो महावीर्यश् शङ्खचक्रगदाधरः
एतत् पपरुषसञ्ज्ञं वै पुराणं रूपमुत्तमम्
एतत् परमकं गुह्यं एतत् परमकं यशः
एतत् परमकं ब्रह्म एतत् परमकं महः
एतदक्षरमव्यक्तम् एतद्वै शाश्वतं महः
यतत् पुरुषसञ्ज्ञं तु हीयते जायते न च
एतत् परमकं धाम एतत् परमकं सुखम्
एतत् परमकं सत्यं कीर्तितं विश्वकर्मणा
तस्मात् सेन्द्रैस्सुरैस्सार्धं लोकैश्चामितविक्रमः
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः
यश्च मानुषमात्रोऽयम् इति ब्रूयात् स मन्दधीः
हृषीकेशमविज्ञाय तमाहुः तामसात्मकम्
यो योगिनं महात्मानं प्रविष्टं मानुषीं तनुम्
अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः
वासुदेवं जगद्वन्धं श्रीवत्साङ्कं सुवर्चसम्
पद्मनाभं न जानान्ति तमाहुस्तामसं जनाः
किरीटकौस्तुभधरं मित्राणामभयप्रदम्
अवजानन् महात्मानं घोरे तमसि मञ्जति
एवं विदिततत्त्वार्थो लोकानामीश्वरेश्वरः
वासुदेवो नमस्कार्यो लोकैस्सर्वैस्सुरोत्तमाः
तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः प्रभुः
भीष्मः-
एवमुक्त्वा स भगवान् देवान् सर्षिगकणान् पुरा
विसृज्य सर्वभूतानि जगाम भवनं स्वकम्
ततो देवास्सगन्धर्वा मुनयोऽप्सरसोऽपि च
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः
एतच्छ्रुतं मया तात मुनीनां भावितात्मनाम्
वासुदेवं कथयतां समवाये पुरातनम्
रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः
व्यासनारदयोश्चापि श्रुतं श्रुतवतां वर
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम्
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम्
जानामि भरतश्रेष्ठ कृष्णं नारायणं प्रभुम्
यस्यसीदात्मजो ब्रह्मा सर्वस्य जगतः पिता
कथं न वासुदेवोऽर्च्यस् सेव्यश्चैवेह मानवैः
वारितोऽसि पुरा तात मुनिर्भिर्वेदपारगैः
मा गास्त्वं वासुदेवेन विग्रहं तेन धीमता
मा तात पाण्डवैस्सार्ध तच्च मोहान्न बुध्यसे
मन्ये त्वां राक्षसं क्रूरम् अथवा तामसात्मकम्
यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम्
नरनारायणौ देवौ कोऽन्यो द्वेष्टा हि मानवः
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः
सर्कवलोकमयो नित्यश् शास्ता धाता धरो ध्रुवः
यो धारयति लोकांस्त्रींश् चराचरगुरुः प्रभुः
योद्धा जयश्च धाता च सर्वप्रकृतिरीश्वरः
राजन् सत्त्वमयो ह्येष तमोरागविवर्जितः
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
तस्य माहात्म्ययोगेन योगेनास्त्रबलेन च
धृताः पाण्डुसुता राजञ् जयश्चैषां भविष्यति
श्रेयोयुक्तां सदा बुद्धिं पाण़्डवानां ददाति सः
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति
स एष शाश्वतो देवस् सर्वगुह्यमयश्शिवः
वासुदेव इति ख्यातो यन्मां त्वं पृष्टवानसि
स एष कृष्णः कौरव्य पाण्डवार्थमिहागतः
ब्राह्मणैः क्षत्रिकयैर्वैश्यैश् शूद्रैश्च कृतलक्षणैः
अर्चनीयश्च सेव्यश्च नित्ययुक्तैस्स्वकर्मसु
द्वापरस्य युगस्यान्ते चादौ कलियुगस्य च
सात्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः
कृष्णेति नाम्ना विख्यात इमं लोकं स रक्षति
स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीश्च
युगे युगे मानुषं चैव वासं पुनःपुनस्सृजते वासुदेवः