धृतराष्ट्रः-
भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय
श्रुत्वा पाण्डुकुमाराणां कर्म देवैस्सुदुष्करम्
पुत्राणां वै पराभवं श्रुत्वा सङ्ख्ये महत्तरम्
चिन्ता मे महती जाता कथमेतद्भविष्यति
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम
तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय
यत्र भीष्ममुखान् सर्वाञ् अस्त्रज्ञान् योधसत्तमान्
पाण्डवानामनीकानि योधयन्ति प्रहारिणः
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः
केन दत्तवरास्तात किमु ज्ञानं विदन्ति ते
केन क्षयं विन्दन्ति दिवि तारागणा इव
पुनःपुनर्न मृष्यामि हतसैन्योऽस्मि पाण्डवैः
मय्येव दण्डः पतति दैवादेष सुदारुणः
यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः
एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय
न हि पारं प्रपश्यामि दुःखस्यास्य कथञ्चन
समुद्रस्येव महतो भुजाभ्यां प्रतरन् नरः
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम्
घातयिष्यति मे स्रवान् पुत्रान् भीमो न शंसयः
न हि पश्यामि तं वीरं यो मे रक्षेत् सुतान् रणे
तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः
ध्रुवं विनाशस्समरे पुत्राणां मम सञ्जय
पृच्छते हि यथातत्त्वं सर्वमाख्याहि सञ्जय
दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान् विमुखान् रणे
भीष्मद्रोणौ कृपश्चैव सौबलोऽथ जयद्रथः
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मानाम्
विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय
सञ्जयः
श्रृणु राजन्नवहितश् श्रुत्वा चैवावधारय
नैव मन्त्रकृतं किञ्चिन्नैव मायां तथाविधाम्
न वै विभीषिकां काञ्चिद् राजन् कुर्वन्ति पाण्डवाः
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे
धर्मेण सर्वकार्याणि जीवितादीनि भारत
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः
श्रिया परमया युक्ता यतो धर्मस्ततो जयः
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव
तव पुत्रा दुरात्मानः पापेष्वभिरतास्सदा
निष्ठुरा हीनकर्माणस् तेन हीयन्ति संयुगे
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वरे
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम्
सापह्नवास्सदैवासन् पाण्डवाः पाण्डुपूर्वज
न चैतान् बहुमन्यन्ते पुत्रास्तव विशां पते
तस्य पापस्य सततं क्रियमाणस्य कर्मणः
सम्प्राप्तस्सुमहान् घोरो विपाको दुर्नयात् तव
स तं भुङ्क्ष्व महाराज सपुत्रस्समुहृञ्जनः
नावबुध्यसि यद्राजन् वार्यमाणस्सुहृज्जनैः
विदुरेणाथ भीष्मेण द्रोणेन न कृपेण च
तथा मया वार्यमाणो न गृह्णास्यसकृद्विभो
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम्
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान्
शृणु राजन् यथातत्त्वं यन्मां त्वं परिपृच्छसि
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति
ततोऽहं कथयिष्यामि यथाश्रुतमरिन्दम
दुर्योधनेन सम्पृष्ट एतदर्थं पितामहः
दृष्ट्वा भ्रातॄन् रणे सर्वान् निर्जितान् सुमहारथान्
शोकसम्मूढहृदयो निशाकाले स कौरवः
पितामहं महाप्राज्ञं विनयोपगम्य तु
यदब्रवीत् सुतस्तेऽसौ तत् त्वं शृणु जनेश्वर
दुर्योधनः-
भवान् द्रोणश्च कर्णश्च कृपो द्रौणिश्च कृप एव च
कृतवर्मा च हार्दिक्यः काम्भोजश्च सुदक्षिणः
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान्
महारथास्समाख्याताः कुरूणां कीर्तिवर्धनाः
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः
पाण्डवानां समस्तानां न तिष्ठन्ति पराक्रमे
तत्र मे संशयो जातस् तत्त्वमाचक्ष्व पृच्छतः
यं समाश्रित्य कौन्तेया जयन्त्यस्मान् पदे पदे
भीष्मः-
शृणु राजन्नवहितो यत् त्वा वक्ष्यामि कौरव
बहुशश्च मयोक्तोऽसि न च मे तत् त्वया कृतम्
क्रियतां पाण्डवैस्सार्ध शमो भरतसत्तम
एतत् क्षेममहं मन्ये पृथिव्यास्तव चाभिभोः
भुङ्क्ष्वेमां पृथिवीं सर्वां स्वपुत्रैस्सङ्तस्सुखी
दुर्हृदस्तापयन् सर्वान् नन्दयंश्चापि बान्धवान्
न च मे क्रोशतस्तात श्रुतवानसि यत् पुरा
तदिदं समनुप्राप्तं यत् पाण्डूनवमन्यसे
यश्च हेतुरवध्यत्वे तेकषामक्लिष्टकर्मणाम्
तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो
नास्ति लोकेषु स पुमान् न भूतो न भविष्यति
ससुरासुरमर्त्येषु यो विद्यात् तत्त्वतो हरिम्
यत् तु मे कथितं तात मुनिभिर्भावितात्मभिः
पुराणं तत्त्वधर्मज्ञैस् तच्छृणुष्व यथातथम्
पुरा किल सुरास्सर्वे ऋषयश्च समागताः
पितामहमुपासेदुः पर्वते मानसोत्तरे
प्रजापतिरथाऽपश्यद् आसीनो महदद्भुतम्
विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे
ध्यानेनावेक्ष्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम्
नमश्चकार हृष्टात्मा पुरमं परमेश्वरम्
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम्
तस्थुः प्राञ्जलयस्सर्वे पश्यन्तो महदद्भुतम्
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः
जगाद जगतस्स्रष्टा परं परमधर्मवित्
ब्रह्मा-
विश्वावसुर्विश्वमूर्तिर्हि विश्वे विष्वक्सेनो विश्वकर्मा वशी च
विश्वेश्वरो वासुदेवोऽसि तस्माद् योगात्मानं दैवतं त्वामुपैमि
जय विश्वमहादेव जय लोकहिते रत
जय योगमयो देव जय योगेश्वरेश्वर
भूतभव्यभवोद्भाव जय सौम्यात्मजात्मज
असङ्क्येयगुणाजेय सर्वलोकपरायण
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर
जय सर्वगुणोपेत विश्वमूर्ते निरामय
विश्वेश्वर महाबाहो जय लोकार्थतत्पर
महोरगवराहाद्य हरिकेश विभो जय
हरिवासदिशामीश विश्ववासामिताव्यय
व्यक्ताव्यक्तास्थितस्थान नियतेन्द्रिय सेन्द्रिय
असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद
अनन्त विदितात्मा त्वम् अद्भुताद्भुतभावन
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह
गुणात्मन् सर्वभूतात्मन् स्फुटसम्भूतसम्भव
भूतात्मन् सर्वलोकेश जय भूतविभावन
आत्मयोने महाभाग कल्पसङ्क्षेपतत्पर
उद्भावनमनूद्भाव जय ब्रह्मजनप्रिय
निसर्गसर्गनिरत कामेश परमेश्वर
अमृतोद्भवसद्भाव युक्ताग्निविजयप्रद
प्रजापतिपते देव पद्मनाभ महाभुज
आत्मभूतमहाभूत धर्मात्मञ्जय सर्वदा
क्षितिः पादोद्भवा देव दिग्बाहुर्द्यौर्महाशिरः
मूर्तिस्तेऽहं सुराः कायश् चन्द्रादित्यौ च चक्षुषी
बलं तपश्च सत्यं च धर्मः कामस्तवात्मजाः
तेजोऽग्निः पवनश्श्वास आपस्ते स्वेदसम्भवाः
अश्विनौ श्रवणौ देव जिह्वा देवी सरस्वती
वेदास्संस्कारनिष्ठा हि त्वयीदं जगदास्थितम्
न सङ्ख्यानं परीमाणं न तेजो न पराक्रमम्
न बलं योगयोगीश विजानीमः परन्तप
त्वद्भक्तिनिरता देव नियमस्थास्समाहिताः
अर्चयामस्सदा विष्णुं परमेशं महेश्वरम्
ऋषयो देवगन्धर्वयक्षराक्षसपन्नगाः
पिशाचा मानुषाश्चैव मृगपक्षिनगास्तथा
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम्
पद्मनाभ विशालाक्ष कृष्ण दुस्स्वप्ननाशन
त्वं गतिस्सर्वभूतानां तेनेदं त्वन्मुखं जगत्
त्वत्प्रसादेन देवेश सुखिनो विबुधास्सदा
पृथिवी निर्भया देव त्वत्प्रसादाद्भविष्यति
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः
धर्मसंस्थापनार्थाय दैतेयानां वधाय च
जगतो रक्षणार्थाय प्रसादं कुरु मे प्रभो
यत् तत् परमकं गुह्यं त्वत्प्रसादमयं विभो
वासुदेव तदेवं तु मया गीतं यथातथम्
सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना
सृज त्वमात्मना कृष्ण प्रद्युम्नं चात्मसम्भवम्
प्रद्युम्नादनिरुद्धं च यं विहुर्विष्णुमव्ययम्
अनिरुद्धोऽसृजत् साम्बं ब्रह्माणं लोकधारिणम्
वासुदेवमयस्सोऽहं त्वयैवास्मि विनिर्मितः
वासुदेवेति तं विद्याद् येनाहं निर्मितः प्रभो
तस्माद्याचामि लोकेश चतुरात्मानमात्मना
विभज्य भागशोत्मानं व्रज वै मानुषीं तनुम्
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै
धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः
ततो दिशश्च लोकाश्च देवाश्चामितविक्रम
तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम्
सर्वभूतेश्वरं देवं योगयोगेश्वरं विभुम्
स्थिताश्च सर्वे त्वयि भूतसङ्घाः कृत्वाऽऽश्रयं त्वां वरदं सुबाहो
अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः