सञ्जयः-
ततो भूरिश्रवा राजन् सात्यकिं नवभिश्शरैः
प्राविध्यद् सुसङ्क्रुद्धस् तोत्रैरिव महाद्विपम्
कौरव्यं सात्यकिश्चैव शरैस्सन्नतपर्वभिः
पर्यवारयदव्यग्रस् सर्वसैन्यस्य पश्यतः
ततो दुर्योधनो राजा सोदर्यैः परिवारितः
सौमदत्तिं रणे यत्तस् समन्तात् पर्यवारयत्
तथैव पाण्डवास्सर्वे सात्यकिं तु महारणे
परिवार्य स्थितास्सङ्ख्ये तव पुत्रस्य पश्यतः
भीमसेनस्ततः क्रुद्धो गजामुद्यम्य भारत
दुर्योधनमुखान् सर्वान् पुत्रांस्ते पर्यकालयत्
रथैरनेकसाहस्रैस् समन्तात् पर्यवारयत्
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम्
विव्याध निशितैष्षड्भिः कङ्कपत्रैश्शिलाशितैः
दुर्योधनस्तदा राजन् भीमसेनं महाहवे
आजघानोरसि क्रुद्धो मार्गणैर्नवभिशिशितैः
ततो भीमो महाबाहुर् आस्थाय स्वरथं महत्
स्मयमानश्च कोपेन स्वसारथिमथाब्रवीत्
भीमः-
एते महारथाश्शूरा धार्तराष्ट्रास्समागताः
मामेवाभिमुखास्तूर्णम् उपतिष्ठन्ति दंशिताः
एतानद्य हनिष्यामि पश्यतस्ते न संशयः
तस्मान्ममाश्वान् सङ्ग्रमे यत्तस्संयच्छ सारथे
सञ्जयः-
एवमुक्त्वा ततः पार्थः पुत्र तव विशां पते
विव्याध निशितैस्तीक्ष्णैश् शरैः कनकभूषणैः
नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे
तं तु दुर्योधनष्षष्ट्या विद्ध्वा भारत संयुगे
त्रिभिरन्यैस्सुनिशितैर् विशोकं प्रत्यविध्यत
भीमस्य च रणे राजन् धनुश्चिच्छेद भास्वरम्
मुष्टिदेशे भृशं तीक्ष्णैर् विध्वा राजन् महाशरैः
समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः
पीडितं विशिखैस्तीक्ष्णैस् तव पुत्रेण धन्विना
अमृष्यमाणस्संरब्धो धनुर्दिव्यं परामृशत्
पुत्रस्य ते महाराज वधार्थं भरतर्षभ
समधत्तातिसङ्क्रुद्धः क्षुरप्रं लोमवापिनम्
तेन चिच्छेद नृपतेर् भीमः कार्मुकमुत्तमम्
अपविद्ध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव
अन्यत् कार्मुकमादत्त सत्वरं वेगवत्तरम्
तत्र सन्धाय सशरं कालमृत्युसमप्रभम्
तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे
स गाढविद्धो व्यथितस् सर्वगात्रैर्विचेतनः
निषसाद रथोपस्थे मूर्च्छामभिजगाम ह
तं दृष्ट्वा व्यथितं भीमम् अभिमन्युपुरोगमाः
नामृष्यन्त महेष्वासाः पाण्डवानां महारथः
ततस्सुतुमुलां वृष्टिं शस्त्राणामुग्रतेजसाम्
अपातयन् महाराज तव पुत्रस्य मूर्धनि
प्रतिलभ्य ततस्सञ्ज्ञां भीमसेनो महाबलः
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
शल्यं च पञ्चविंशत्या शरैस्सन्नतपर्वभिः
रुक्मपुङ्खैर्महेष्वासस् स विद्धो व्यपयाद्रणात्
प्रत्युद्ययुस्तदा भीमं तव पुत्राश्चतुर्दश
सेनापतिस्सुषेणश्च जलसन्धस्सुलोचनः
उद्रो भीमरथो भीमो भीमबाहुरलोलुपः
दुर्मुखो दुष्प्रधर्षश्च विचित्रो विकटस्समः
विसृजन्तो बहून् बाणान् कोपसंरक्तलोचनाः
भीमसेनमभिद्रुत्य विव्यथुश्चापि पाण्डवम्
पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः
सृक्किणी संलिहन् वीरः पशुमध्ये वृको यथा
अभिपत्य महाबाहुर् गरुत्मानिव पन्नगान्
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद भारत
जलसन्धं त्रिभिर्बाणैर् अनयद्यमसादनम्
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्
भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम्
निनाय भरतश्रेष्ठ परलोकाय भारत
भीमं भीमरथं चोभौ भीमसेनो हसन्निव
पुत्रौ ते युद्धदुर्मत्तावनयद्यमसादनम्
ततस्सुलोचनं भीमः क्षुरप्रेण महाहवे
मिषतां सर्वसैन्यानाम् अनयद्यमसादनम्
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्
शेषा ये चाऽभवंस्तत्र ते भीमस्य भयात् तदा
विप्रसस्त्रुर्दिशो राजन् वध्यमाना महात्मना
ततोऽब्रवीच्छान्तनवस् सर्वानेव समागतान्
भीष्मः-
एवं भीमो रणे क्रोधी सर्वानेव महारथान्
यथाप्रज्ञं यथाशूरं यथाश्रेष्ठं च सङ्गतान्
चरन् न्यपातयत् क्रुद्धस् सम्प्रधावत मा चिरम्
सञ्जयः-
एवमुक्ताततस्सर्वे धार्तराष्ट्रस्य सैनिकाः
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनममर्षणम्
भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते
अभ्ययात् सहसा तत्र यत्र भीमो व्यवस्थितः
आपतन्नेव च रणे भीमसेनं शिलीमुखैः
अदृश्यं समरे चक्रे महामेघो रविं यथा
अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः
भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः
त एनं शरवर्षेण समन्तात् पर्यवारयन्
स शस्त्रवृष्ट्याऽभिहतस् समरे तैर्महारथैः
प्राग्ज्योतिषगजो राजन्नानालिङ्गैस्सुतेजनैः
सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्
सञ्चोदितो मदस्रावी तान् सर्वानभ्यधावत
द्विगुणं जवमास्थाय कम्पयन्निव मेदिनीम्
तस्य यत् सुमहद्युद्धं दृष्ट्वा सर्वे महारथाः
असह्यं मन्यमानास्ते नाव्यग्रनसोऽभवन्
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे
आजघान महाराज शरेणानतपर्वणा
सोऽतिविद्धो महेष्वासस् तेन राज्ञा महाबलः
मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिमुपाश्रयत्
तांस्तु भीतान् समालक्ष्य भीमसेनं च मूर्च्छितम्
ननाद बलवन्नादं भगदत्तः प्रतापवान्
ततो घटोत्कचो राजन् भीमं वीक्ष्य तथा गतम्
सङ्क्रुद्धो राक्षसो घोरस् तत्रैवान्तरधीयत
स कृत्वा दारुणां मायां भीरूणां भववर्धिनीम्
प्रत्यदृश्यतन्निमेषार्धाद् धोररूपं समास्थितः
ऐरावतं समारूह्य अष्ठदन्तं महाबलम्
कैलासगिरिसङ्काशं वज्रपाणिरिवाभ्ययात्
तथाऽन्ये चैव दिङ्नागास् त्रासयन्तोऽनुयायिनः
अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः
त्रय एते महानागा राक्षसैस्समधिष्ठिताः
महाकायास्त्रिधा राजन् प्रस्रवन्तो मदं बहु
तेजोवीर्यबलोपेता महाबलपराक्रमाः
घटोत्कचश्च दिङनागांश्चोदयत् स्ततस्तदा
सगजं भगदत्तं तु हन्तुकामः परन्तपः
ते चान्ये चोदिता राजन् राक्षसैस्तैर्महाबलैः
परिपेतुस्सुसंरब्धाश् चतुर्दन्ताश्चतुर्दिशम्
भगदत्तस्य तं नागं विषाणैस्समपीडयन्
सम्पीड्यमानस्तैर्नागैर् वेदनार्तश्शरातुरः
व्यनदत् सुमहानादम् इन्द्राशनिसमस्वनम्
मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत
व्यनर्दत महाघोषो भैमसेनिशरार्दितः
तस्य तं नदतो नादं सुघोरं भीमनिस्स्वनम्
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम्
भीष्मः-
एष युध्यति सङ्ग्रामे हैडिम्बेन महात्मना
भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते
राक्षसश्च महामायास् स च राजाऽतिकोपनः
एतौ समेतौ समरे कालमृत्यूपमावुभौ
एषोऽश्रीयत हृष्टानां पाण्डवानां महास्वनः
हस्तिनश्चैव सुमहान् भीमस्य नदतो ध्वनिः
गच्छामस्तत्र भद्रं वो राजानं परिरक्षितुम्
अरक्ष्यमाणस्समरे क्षिप्रं प्राणान् विमोक्ष्यति
ते त्वरध्वं महावीर्या मा चिरं कुरुतानघाः
महान् हि वर्तते रौद्रस् सङ्ग्रामो रोमहर्षणः
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत
सञ्जयः-
भीष्मस्य तद्वचश्श्रुत्वा सर्व एव महारथाः
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया
उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्
तान् प्रयातान् समालोक्य युधिष्ठिरपुरोगमाः
पञ्चालाः पाण्डवैस्सार्धं पृष्ठतोऽनुययुः परान्
तान्यनीकान्यथालोक्य राक्षसः परवीरहा
ननाद सुमहानादं विस्फोटमशनेरिव
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः
भीष्मश्शान्तनवो राजन् भारद्वाजमभाषत
भीष्मः-
न रोचते मे सङ्ग्रामो हैडिम्बेन महात्मना
बलवीर्यसमायुक्तस् ससहायश्च साम्प्रतम्
नैष शक्यो महारौद्र इन्द्रेणापि युधा क्वचित्
लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः
पाञ्चालैः पाण्डवेयैश्च दिवसं शरविक्षताः
इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः
अस्तमभ्येति सविता रात्रौ योद्धुं न शक्यते
अवहारमतः कुर्मश् श्वो योत्स्यामः परैस्सह
सञ्जयः-
पितामहवचश्श्रुत्वा यथा चक्रुरमर्षिताः
उपायेनापयानं ते घटोत्कचभयार्दिताः
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः
सिंहनादान् भृशं चक्रुश् शङ्खान् दध्मुश्च भारत
एवं तदभवद्युद्धं दिवसं भरतर्षभ
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम्
ततस्तु कौरवा राजन् प्रययुश्शिबिरं स्वकम्
प्राप्ते तदा निशाकाले पाण्डवेयैः पराजिताः
शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः
युद्धा सुमनसो राजन् जग्मुस्स्वशिबिरं प्रति
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ
पूजयन्तो यथान्यायं मुदिताः प्रियदर्शनाः
नदन्तो विविधान्नादांस् तूर्यमिश्रितनिस्वनाः
सिंहनादांश्च कुर्वाणा विमिश्राञ् शङ्खनिस्स्वनैः
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम्
कम्पयन्तश्च राजेन्द्र पुत्राणां ते मनांस्युत
तव पुत्राश्च राजेन्द्र तथैव शरविक्षताः
प्रयाताश्शिबिरायैव निशाकाले परन्तप
दुर्योधनस्तु नृपतिर् दीनो भ्रातृवधेन च
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः
ततः कृत्वा विधिं तत्र शिबिरस्य यथाविधि
प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः