सञ्जयः-
तस्मिन् हते गजानीके पुत्रो दुर्योधनस्तव
भीमसेनवधायैव सर्वसैन्यमचूचुदत्
ततस्सर्वाण्यनीकानि तव पुत्रस्य शासनात्
अभ्यधावन् भीमसेनं नदन्तं सिंहवद्रणे
तं बलौघमपर्यन्तं देवैरपि दुरासदम्
आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम्
अनन्तरथपादातं रजसा सर्वतो वृतम्
भीमसेनो महाराज नृपोदधिमिवापरम्
सेनासागरमक्षोभ्यं वेलेव समवारयत्
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः
भीमसेनस्य समरे कर्मामानुषकर्मणः
उदीर्णां पृतनां सर्वां साश्वान् सरथकुञ्जरान्
असम्भ्रमं भीमसेनो गदया समपोथयत्
स संवार्य बलौघांस्तन् गदया बलिनां वरः
अतिष्ठत् समरे भीमो गिरिर्मेरुरिवाचलः
तस्मिंस्तु तुमुले घोरे काले परमदारुणे
भ्रातृभिस्सह पुत्रैश्च धृष्टद्युम्नो महाबलः
द्रौपदेयाश्चाभिमन्युश् शिखण्डी चापराजितः
न प्राजहन् भीमसेनं भये जाते महाबलम्
ततश्शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्
अधावत् तावकान् योधान् दण्डपाणिरिवान्तकः
पोथयन् रथबृन्दानि वाजिबृन्दनि चाभिभूः
व्यचरत् समरे भीमो युगान्ते पावको यथा
ऊरुवेगेन सङ्कर्षन् रथजालानि पाण्डवः
विनिध्रन् व्ययचरत् सङ्ख्ये युगान्ते कालवद्विभुः
बलानि च ममर्दाशु नलिनानीव कुञ्जरः
रथेभ्यो रथिनश्चापि गजेभ्यो गजयोधिनः
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः
पातयामास राजेन्द्र युद्धभूम्यां महाबलः
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः
विबभौ कर्म तद्रौद्रं रुद्रस्येव युगक्षये
यमदण्डोपमामुग्राम् इन्द्राशनिसमस्वनाम्
ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम्
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः
गदा मारुतवेगाऽभूद् विष्फूर्जितमिवाशनेः
तं तथा महतीं सेनां त्रासयानं पुनः पुनः
दृष्ट्वा मृत्युमिवायान्तं सर्वेषां विस्मयोऽभवत्
यतो यतस्समुद्युक्तो गदामुद्यम्य पाण्डवः
ततस्ततो व्यदीर्यन्ते सर्वसैन्यानि भारत
विदारयन्तं सैन्यानि बलेनामितविक्रमम्
व्यादितास्यमनीकानि ग्रसमानमिवान्तकम्
समरे भीमकर्माणं प्रगृहीतमहागदम्
दृष्ट्वा वृकोदरं भीष्मस् तत एनं समभ्ययात्
छादयञ् शरवर्षेण पर्जन्य इव वृष्टिमान्
भीमसेनं रणे भीष्मो व्यात्ताननमिवान्तकम्
महता मेघघोषेण रथेनादित्यवर्चसा
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षिणम्
तस्मिन् क्षणे सात्यकिस्सत्यसन्धश् शिनिप्रवीरोऽभ्यपतत् पितामहम्
निघ्नन्नमित्रान् धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सैन्यम्
तं यान्तमश्वै रजतप्रकाशैश् शरान् वमन्तं निशितान् सुपुङ्खान्
नाशक्नवन् प्रेक्षयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः
अविध्यदेनं दशभिश्शिताग्रैर् अलम्बुसोऽसौ समरे तदानीम्
शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद्रथेन
समागतं वृष्णिवरं निशम्य मध्ये रुपूणां परिवर्तमानम्
प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ
नाशक्नवन् वारयितुं वरिष्ठं सैन्यं हि तूर्णं खमिवापतन्तम्
तत्रापि कश्चिन्न विषक्त आसीद् ऋते राजन् सोमदत्तस्य पुत्रान्
सोऽप्याददानो धनुरुग्रवेगं भूरिश्रवा भारत सौमदत्तिः
दृष्ट्वा रथाश्वान् सारथिचोद्यमानान् प्रत्युद्रवत् सात्यकिं योद्धुकामः