धृतराष्ट्रः-
दैवमेव परं मन्ये पौरुषादपि सञ्जय
यत् सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते
नित्यं हि मामकांस्तात हतानेव स्म शंससि
उदग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान्
विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान्
हीनान् पुरुषकारेण निरुत्साहांश्च सञ्जय
युध्यमानान् यथाशक्ति घटमानाञ् जयं प्रति
मामकांश्च रणे तात निहतानेव शंससि
पाण्डवा विजयन्त्येव हीयन्ते चैव मामकाः
सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च
समश्रौषमहं तात दुस्सहानि बहूनि च
उपायं तु न पश्यामि येन जेया हि पाण्डवाः।
मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय
सञ्जयः-
गजवाजिमनुष्याणां तथैव रथिनां क्षयम्
श्रृणु राजन् स्थिरो भूत्वा तवैवापनयं महात्
धृष्टद्युम्नस्तु शल्येन पीडितो नवतैश्शरैः
पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः
तत्राद्भुततरं चक्रे पार्षतः परवीरहा
न्यवारयत यत् सङ्ख्ये शल्यं समितिशोभनम्
नान्तरं दृश्यते कश्चित् तयोः पुरुषसिंहयोः
मुहूर्तमिव तद्युद्धं तयोस्समभवत् तदा
ततश्शल्यो महाराज धृष्टद्युम्नस्य संयुगे
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च
अथैनं शरवर्षेण च्छादयामास भारत
गिरिं जलागमे यद्वद् धाराभिर्जलदो यथा
अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने निपीडिते
अभिदुद्राव वेगेन मद्रराजरथं प्रति
ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः
आर्तायनिममेयात्मा विव्याध निशितैश्शरैः
ततस्तु तावका राजन् परीप्सन्तोऽर्जुनिं रणे
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे
दुर्योधनो दुर्विषहो दुर्मुखो दुस्सहस्तथा
दुर्मर्षणश्च राजेन्द्र चित्रसेनो विविंशतिः
सत्यव्रतः पुरुमित्रो विकर्णश्च महारथः
एते मद्राधिपरथं पालयन्तस्स्थिता रणे
भीमसेनस्ततः क्रुद्धो धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाश्चाभिमन्युर् माद्रीपुत्रौ च पाण्डवौ
नानारूपाणि शस्त्राणि विसृजन्तो विशां पते
अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः
ततस्समायुर्वीरा राजन् दुर्मन्त्रिते तव
तस्मिन् दशरथे युद्धे वर्तमाने भयावहे
तावकानां परेषां च प्रेक्षका रथिनोऽभवन्
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः
अन्योन्यमभिगर्जन्तस् सम्प्रहारं प्रचक्रिरे
ते तदा जातसंरम्भास् सर्वेऽन्योन्यं जिघांसवः
महाशस्राणि मुञ्चन्तस् समापेतुरमर्षिणः
दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नममर्षणम्
विव्याध निशितैर्बाणैश् चतुर्भिस्समरे द्रुतम्
दुर्मर्षणश्च विंशत्या चित्रसेनश्च सप्तभिः
दुर्मुखो नवभिर्बाणैर् दुस्सहश्चापि सप्तभिः
विविंशतिस्स्त्रिभी राजन् विकर्णः पञ्चभिश्शरैः
तान् प्रत्यविध्यद्राजेन्द्र पार्षतश्शत्रुतापनः
एकैकं पञ्चविंशत्या दर्शयन् पाणिलाघवम्
सत्यव्रतं च समरे पुरुमित्रं च भारत
अभिमन्युरविध्यत् तान् तावकान् नृपतीन् नृप
प्रत्येकं समरे वीरान् दशभिर्दशभिश्शरेैः
माद्रीपुत्रौ तु समरे मातुलं प्रीतिवर्धनौ
छादयेतां शरैर्घोरैस् तदद्भुतमिवाभवत्
माद्रीपुत्रौ पुनः क्रुद्धौ शल्यं विव्यधतुश्शरैः
ततश्शल्यो महाराज स्वस्त्रीयौ युद्धदुर्मदौ
शरैर्बहुभिरानर्च्छत् कृतप्रतिकृतैषिणौ
वार्यमाणश्शरैर्घोरैर् मद्रराजो न विव्यथे
ततो दुर्योधनं दृष्ट्वा भीमसेनो महाबलः
दिदृक्षुः कलहस्यान्तं गदां जग्राह पाण्डवः
तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन् भयात्
दुर्योधनस्ततः क्रुद्धो मागधं समचोदयत्
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्
मागधस्तं रथानीकैर् भीमसेनं समभ्ययात्
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः
गदापाणिरवारोहद् रथात् सिंह इवोन्नदन्
अश्मसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः
स गजान् गदया निघ्नन् व्यचरत् समरे बली
भीमसेनो गदापाणिर् वृत्रहा दानवेष्विव
तस्य नादेन महता मनोहृदयकम्पिना
प्रावेपन्त च सम्भीता गजा भिमस्य गर्जतः
ततस्तु द्रौपदीपुत्रास् सौभद्रश्च महारथः
नकुलस्सहदेवश्च धृष्टद्युम्नश्च पार्षतः
पृष्ठं भीमस्य रक्षन्तश् शरवर्षेण वारणान्
अभ्यधावन्त वर्षन्तो मेघा इव गिरीन् यथा
नाकुलिस्तु शतानीकश् समरे शत्रुपूगहा
शरैः क्षुरप्रैर्भल्लैश्च वत्सदन्तैर्वरासिभिः
न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम्
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः
हृतोत्तमाङ्गास्स्कन्धेषु गजानां गजयोधिनः
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिपा इव
मागधोऽथ महीपालो गजमैरावणोपमम्
प्रेषयामास समरे सौभद्रस्य रथं प्रति
तमापतन्तं सम्प्रेक्ष्य मागधस्य महागजम्
जघानैकेषुणा वीरस् सौभद्रः परवीरहा
तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः
धृष्टद्युम्नहतानन्यान् विमुखान् समरे गजान्
पततः पतितांश्चान्यान् पार्षतेन महात्मना
विगाह्य तं गजानीकं भीमसेनोऽपि मारिष
व्यचरत् समरे मृद्गन् गजानिन्द्रो गिरीनिव
एकप्रहारनिहतान् भीमसेनेन दन्तिनः
अपश्याम रणे तस्मिन् गिरीन् वज्रहतानिव
भग्नदन्तान् भग्नकरान् भग्नसक्थींश्च वारणान्
भग्नपृष्ठत्रिकानन्यान् निहतान् सह सादिभिः
द्रवतस्सीदतश्चान्यान् विमुखान् समरे गजान्
भीमसेनस्य मार्गेषु पतितान् पर्वतोपमान्
अपश्याम हतान् राजन् गजान् निष्टनतोऽपरान्
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः
विह्नलन्तो गता भूमिं शैला इव धरातले
मेदोरुधिरदिग्धाङ्गो वसामेदस्समुक्षितः
व्यचरत् समरे वीरो दण्डपाणिरिवान्तकः
गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः
घोरः प्रतिभयश्चासीत् पिनाकीव पिनाकभृत्
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः
सहसा प्राद्रवन् भीता मृदित्वा तव वाहिनीम्
तं हि वीरं महेष्वासास् सौभद्रप्रमुखा नृपाः
पर्यरक्षन्त सङ्क्रुद्धा वज्रायुधमिवामराः
शोणिताक्तां गदां बिभ्रद् उक्षितो गजशोणितैः
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत
व्यायच्छमानं गदया दिक्षु सर्वासु भारत
अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम्
यमदण्डोपमां गुर्वीम् इन्द्राशनिसमस्वनाम्
अपश्याम गदां राजन् रौद्रां परमदारुणाम्
केशमज्जासृगभ्यक्तो रौद्रं बिभ्रत्तदा वपुः
मारुतिर्भीमसेनस्तु व्यनिघ्नत्तव वाहिनीम्
यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयत्
तथा भीमो गजानीकं गदया समकालयत्
गदया वध्यमानास्ते मार्गणैश्च समन्ततः
स्वान्यनीकानि मृद्गन्तः प्राद्रवन् कुञ्जरास्तव
महावात इवाभ्राणि विधमित्वा स वारणान्
अतिष्ठत् तुमुले भीमस् श्मशान इव शूलधृक्॥