सञ्जयः-
द्रौणिर्भूरिश्रवाश्शल्यश् चित्रसेनश्च मारिषः
पुत्रस्सांयमनेश्चैव सौभद्रं समयोधयन्
संसक्तमतितेजोभिस् तमेकं ददृशुर्जनाः
पञ्चभिर्मनुजव्याघ्रैर् गजैस्सिंहशिशुं यथा
नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे
बभूव सदृशः कार्ष्णेर् नास्त्रे नापि च लाघवे
तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्
दृष्ट्वा पार्थस्सुसम्पन्नं सिंहनादं ननाद ह
पीडयानं तु तत् सैन्यं पौत्रं तव विशां पते
ददर्श राजन् पाञ्चाल्यस् सेनापतिररिन्दमः
स च तां धार्तराष्ट्राणां ध्वजिनीं परवीरहा
अत्यरोचत सौभद्रस् तेजसा च बलेन च
तस्य लाघवमार्गस्थम् आदित्यसदृशप्रभम्
व्यदृश्यत महच्चापं समरे युध्यतः परैः
द्रौणिमेकेषुणा विद्ध्वा शल्यं विव्याध पञ्चभिः
ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन
शितेनोरगसङ्काकाशां पत्रिणाऽभिजघान ताम्
शल्यस्य च महावेगान् अस्यतस्समरे शरान्
धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः
जघानार्जुनदायादश् चतुर्भिश्चतुरो हयान्
भूरिश्रवाश्च शल्यश्च द्रौणिस्सांयमनिश्शलः
नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात्
ततस्त्रिगर्ता राजेन्द्र सहितास्तत्र केकयैः
पञ्चत्रिंशत्साहस्राणि पुत्रेण तव चोदिताः
धनुर्वेदविदां श्रेष्ठा ह्यजेया अरिभिर्युधि
सहपुत्रं जिघांसन्तः परिवव्रुः किरीटिनम्
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ
ददर्श राजन् पाञ्चल्यस् सेनापतिरमित्रजित्
पारावताश्वं स रथम् आस्थाय परवीरहा
धनुर्विष्फार्य सङ्क्रुद्धश् चोदयित्वा च वाहिनीम्
ययौ स मद्रकानीकं केकयांश्च परन्तप
तेन कीर्तिमता गुप्तम् अनीकं दृढधन्वना
संरब्धरथनागाश्वं योत्स्यमानमशोभत
सोऽर्जुनप्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दनः
त्रिभिश्शारद्वतं बाणैर् भुजदेशे समार्पयत्
ततस्स मद्रराजानं विव्याध दशभिश्शरैः
हृष्ठ एकं जघानाश्व भल्लेन कृतवर्मणः
दमनं चापि दायादं पौरवस्य महात्मनः
जघान विमलाग्नेण नाराचेन परन्तपः
ततस्सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्
अविध्यत् त्रिंशता बाणैर् दशभिश्चास्य सारथिम्
सोऽतिविद्धो महेष्वासस् सृक्किणी परिसंलिहन्
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम्
अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत्
अश्वांश्चास्यावधीद्राजन् रथरक्षौ च सारथिम्
स हताश्वे रथे तिष्ठन् ददर्श भरतर्षभ
पुत्रः सांयमनेः पुत्रं पाञ्चाल्य च यशस्विनम्
स प्रगृह्य महाघोरं निस्त्रिंश वरमायुधम्
पदातिस्तूर्णमभ्यागाद् रथस्यं पुरुषर्षभम्
तं महौघमिवायान्तं स्वे पतन्तमिवोरगम्
भ्रान्तावरणनिस्त्रिंशं कालसृष्टमिवान्तकम्
दीप्यमानं यथा वह्निं मत्तवारणवारणम्
पश्यतां पाण्डुपुत्राणां प्रवेगस्समपद्यत
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः
पीतनिस्त्रिंशहस्तस्य शरावरणधारिणः
बाणवेगमतीतस्य र थाभ्याशमुपेयुषः
त्वरन् सेनापतिः क्रुद्धो बिभेद गदया शिरः
निस्त्रिंशस्तस्य राजेन्द्र सम्प्रभग्नशरावरः
हतस्य पततो हस्ताद् वेगेन न्यपतद्भुवि
तं निहत्य गदाग्रेण लेभे परमकं यशः
पुत्रः पाञ्चालराजस्य इन्द्रो बलमिवेश्वरः
तस्मिन् हते महेष्वासे शल्यपुत्रे महारथे
हाहाकारो महानासीत् तव सैन्यस्य मारिष
ततस्सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम्
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ
ददृशुस्सर्वराजानः कुरवः पाण्डवास्तथा
ततस्सांयमनिः क्रुद्धः पार्षतं परवीरहा
आजघान त्रिभिर्बाणैस् तोत्रैरिव महाद्विपम्
तथैव पार्षतं वीरश् शल्यं समितिशोभनम्
आजघान शरैः क्रुद्धस् ततो युद्धमवर्तत