धृतराष्ट्रः-
प्रतिज्ञाते ततस् तस्मिन् युद्धे भीष्मेण सुदारुणे
पाण्डवान् वारयिष्येति कथं युयुधिरे नृपाः
मम पुत्रस्य वाक्यैस्तु क्रोधितश्च महाव्रतः
भीष्मः किमकरोत् तत्र पाण्डवेयेषु सञ्जय
ये चान्ये पथिवीपालाः किमकुर्वन्त मामकैः
पितामहे च पञ्चालाश् शुरा युद्धाभिनन्दिनः
सञ्जयः-
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव
अभ्ययाज्जवनैरश्वैः पार्थमेव धनञ्जयम्
महत्या सेनया गुप्तस् तव पुत्रैश्च भारत
प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम्
अस्माकं पाण्डवैस्सार्धं सेनयोर्भरतर्षभ
धनुषां कूजतां तत्र तलानां चाभिहन्यताम्
महान् समभवच्छब्दो गिरीणामिव दीर्यताम्
तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव
स्थिरोऽस्मि प्रहरस्वेति वाचोऽश्रूयन्त सर्वशः
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च
शिलानामिव शैलेषु पतितां च महाध्वनिः
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः
हृतोत्तमाङ्गाः केचित् तु तथैवोद्यतकार्मुकाः
प्रगृहीतायुधाश्चैव तस्थुः पुरुषसत्तमाः
प्रावर्तत महावेगा नदी रुधिरवाहिनी
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा
नराश्वद्विरदेन्द्राणां शरीरप्रभवा तथा
परलोकार्णवमुखी गृध्रगोमायुमोदिनी
नैवं दृष्टं न श्रुतं चापि युद्धमेतादृशं पुरा
यथा तव सुतानां च पाण्डवानां च भारत
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः
गजैश्च पतितैर्नीलैर् गिरिशृङ्गैरिवावृतः
विकीर्णैः कवचैश्चित्रैर् ध्वजैश्छत्रैश्च मारिष
शुशुभे तद्रणस्थानं शरदीव नभस्स्थलम्
विनिर्भिन्नाः शरैः केचिद् दन्तपीडप्रकर्षणः
अभीतास्समरे शत्रून् अभ्यधावन्त दंशिताः
तात भ्रातस्सखे बन्धो वयस्य मम मातुल
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे
अदावभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि
स्थितोऽहं समरे मा भैर् इति चान्ये विचुक्रुशुः
ततो भीष्मश्शान्तनवो नित्यं मण्डलकार्मुकः
मुमोच बाणान् दीप्ताग्रान् अहीनाशीविषानिव
शरैरेकायनीकुर्वन् दिशस्सर्वा यतव्रतः
जघान पाण्डवरथान् आविश्याविश्य भारत
स नृत्यन् वै रथमार्गेषु दर्शयन् हस्तलाघवम्
अलातचक्रवत् सङ्ख्ये तत्र तत्र स्म दृश्यते
तमेकं समरे शूरं पाण्डवास्सह सृञ्जयैः
अनेकशतसाहस्रैस् समपश्यन्त लाघवात्
मायाकृतात्मानमिव भीष्मं तं तत्र मेनिरे
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः
उदीच्यां दक्षिणस्यां च मघुत्वात् प्रत्यदृश्यत
एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत
न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम्
विशिखानेव पश्यामो भीष्मचापच्युतान् बहून्
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम्
व्याक्रोशन्त रणे तत्र वीरास्ते बहवो बहु
अमानुषेण वपुषा चरन्तं पितरं तव
शलभा इव राजेन्द्र पतन्ति विधिचोदिताः
भीष्माग्निमभिसङ्क्रुद्धं विनाशाय सहस्रशः
न हि मोघश्शरः कश्चिद् आसीद्भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः
प्रच्छादयञ् शरान् भीष्मो निशितान् कङ्कपत्रिणः
अश्वमेकेन बाणेन जगमेकेन पत्रिणा
चिच्छेद समरे राजन् वज्रेणेव शिलोच्चयम्
गजांश्च सगजारोहान् वर्मिणश्चापरानपि
छिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा
गजं कङ्कटसन्नद्धं वज्रेणेव शिलोच्चयम्
द्वित्रानपि गजान् भीष्मो वर्मितान् पिण्डितानपि
नाराचेन सुमुक्तेन निजघान पिता तव
यो यो भीष्मं नरव्याघ्रम् अभ्येति युधि कश्चन
मुहूर्तदृष्टस्सहसा पतितो भुवि दृश्यते
एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा
प्राकम्पत महासेना शरवर्षेण पीडिता
ताडिता पाण्डवी सेना बहुधा सा व्यभज्यत
पश्यतो वासुदेवस्य पार्थस्य च शिखण्डिनः
यतमाना महावीर्याः पाण्डवास्सोमकास्तथा
नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडिताः
महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज धर्मपुत्रस्य पश्यतः
आविद्धध्वजनागां च पतितध्वजकूबरम्
अनीकं पाण्डुपुत्राणां हाहाभूतमदृश्यत
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
प्रियं सखायं चाक्रन्दत् सखा दैवबलात्कृतः
विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः
विकीर्य केशान् धावन्तः प्रत्यदृश्यन्त भारत
तद्गोकुलमिवोद्भ्रान्तम् उद्भ्रान्तरथकुञ्जरम्
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः
उवाच पार्थं बीभत्सुं प्रगृह्य रथमुत्तमम्
श्रीभगवान्-
अयं स कालस्सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे
यत्पुरा कथितं वीर त्वया राज्ञां समागमे
भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्
सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संयुगे
इति तत् कुरु कौन्तेय सत्यं वाक्यमरिन्दम
स्वसैन्यं पश्य बीभत्सो धावमानमितस्ततः
द्रवतश्च महीपालान् पश्य यौधिष्ठिरे बले
दृष्ट्वा भीष्मं च समरे व्यात्ताननमिवान्तकम्
भयार्ताः प्रपलायन्ते सिंहात् क्षुद्रमृगा इव
सञ्जयः-
अर्जुनः-
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः
चोदयाश्वान् यतो भीष्मो विगाहे तद्बलार्णवम्
सञ्जयः-
ततोऽश्वान् रजतप्रख्यांश् चोदयामास केशवः
यतो भीष्मरथो राजन् दुष्प्रेक्ष्यो रश्मिमानिव
ततस्तत् पुनरावृत्तं युधिष्ठिरबलं महत्
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे
ततो भीष्मः कुरुश्रेष्ठ सिंहवद्विनदन् मुहुः
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत्
क्षणेनातिरथस्तस्य सहयस्सहसारथिः
शरवर्षेण महता सञ्छन्नो न प्रकाशते
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय वीर्यवान्
चोदयामास तानश्वान् विभिन्नान् भीष्मसायकैः
ततोऽर्जुनो धनुर्गृह्य दिव्यं जलदनिस्स्वनम्
पातयामास भीष्मस्य धनुश्छित्वा शितैश्शरैः
सञ्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव
विचकर्ष ततो दोर्भ्यां धनुस्तज्जलदस्वनम्
अथास्य तदपि क्रुद्धश् चिच्छेद धनुरर्जुनः
तस्य तत् पूजयामास लाघवं शन्तनोस्सुतः
भीष्मः-
साधु पार्थ महाबाहो साधु पाण्डवनन्दन
त्वय्येवैतद्युक्तरूपं महत् कर्म धनञ्जय
प्रीतोऽस्मि ते भृशं पार्थ कुरु युद्धं मया सह
सञ्जयः-
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः
मुमोच समरे वीरश् शरान् पार्थरथं प्रति
अदर्शयद्वासुदेवो हययाने परं बलम्
मोघान् कुर्वञ् शरांस्तस्य मण्डलान्व्यचरल्लघु
तथा भीष्मस्तु सुदृढं वासुदेवधनञ्जयौ
विव्याध निशितैस्तीक्ष्णैस् सर्वगात्रेषु मारिष
शुशुभाते नरव्याघ्रौ भीष्मस्य शरपीडितौ
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्कितौ
पुनश्चापि सुसङ्क्रुद्धश् शरैश्शतसहस्रशः
कृष्णयोर्युधि संरब्धो भीष्मः प्राच्छादयद्दिशः
पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः
मुहुरस्य स्वयं भीष्मः प्रहस्य स्वनवत् तदा
कृष्णस्तु समरे दृष्ट्वा भीष्मं भीमपराक्रमम्
सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः
वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले
अमृष्यमाणो भगवान् केशवः परवीरहा
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम्
एकाह्नाऽपि रणे भीष्मो नाशयेद्देवदानवान्
किमु पाण्डुसुतान् युद्धे सबलान् सपदानुगान्
द्रवते च महासैन्यं पाण्डवस्य महात्मनः
एते च कौरवास्तूर्णं प्रभग्नान् वीक्ष्य सोमकान्
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम्
सोऽहं भीष्मं निहत्याद्य पाण्डवार्थाय दंशितः
भारमेनं विनेष्यामि पाण्डवानां महात्मनाम्
अर्जुनोऽपि शरैस्तीक्ष्णैर् वध्यमानोऽपि संयुगे
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्
तथा चिन्तयतस्तस्य भूय एव पितामहः
प्रेषयामास सङ्क्रुद्धश् शरान् पार्थरथं प्रति
तेषां बहुत्वात् सुभृशं शराणां दिशोऽथ सर्वाः पिहिता बभूवुः
नैवान्तरिक्षं न दिशो न भूमिर्न भास्करोऽदृश्यत रश्मिमाली
ववुश्च वातास्तुमुलास्सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः
द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च
श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च महीक्षितश्च
प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च
किरीटिनं त्वरमाणाभिसस्रुर् निदेशगाश्शान्तनवस्य राजन्
तं वाजिपादातरथौघजालैर् अनेकसाहस्रशतैर्ददर्श
किरीटिनं सम्परिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च
निरीक्षमाणास्सुभृशं नृपालास् ते पाण्डवेया व्यथिता बभूवुः
ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात्
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम्
ततो ह्यनीकानि महाधनुष्मान् शिनिप्रवीरस्सहसाऽभिपत्य
चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य
विकीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम्
युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच सन्दृश्य शिनिप्रवीरः
सात्यकिः-
क्व क्षत्रिया यास्यथ नैष धर्मस् सतां पुरस्तात् कथितः पुराणः
मा स्म प्रतिज्ञां त्यजत प्रवीरास् स्वं वीरधर्मं परिपालयध्वम्
सञ्जयः-
तान् वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान् द्रवतस्समन्तात्
पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च सङ्ख्ये समुदीर्यमाणम्
अमृष्यमाणस्स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता
उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततस्समग्रान्
श्रीभगवान्-
ये यान्ति यान्त्वेव शिनिप्रवीर येऽवस्थितास्सात्वत तेऽपि यान्तु
भीष्मं रथात् पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य
न सारथेस्सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्
तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य
निहत्य भीष्मं सगणं तथाऽऽजौ द्रोणं च शैनेय रथप्रवीरौ
प्रीतिं करिष्यामि धनञ्जयस्य राज्ञश्च भीमस्य तथाऽश्विनोश्च
निहत्य सर्वान् धृतराष्ट्रपुत्रान् तत्पक्षिणो ये च नरेन्द्रमुख्याः
राज्ये च राजानमजातशत्रुं सम्पादयिष्याम्यहमद्य हृष्टः
सञ्जयः-
इतीदमुक्त्वा स महानुभावस् सस्मार चक्रं निशितं पुराणम्
सुदर्शनं चिन्तितमात्रमेव तस्याग्रहस्तं स्वयमारुरोह
तच्चक्रपद्मं प्रगृहीतमाजौ रराज नारायणबाहुनालम्
यथाऽऽदिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातम्
तत्कृष्णकोपोदयसूर्यवर्चः क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्
तेस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम्
ततस्सुनाभं वसुदेवसूनुस् सूर्यप्रभं वज्रसमप्रभावम्
क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान्
स कम्पयन् गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम्
मदान्धमाजौ समुदीर्णदर्पं सिंहो जिघांसन्निव वारणेन्द्रम्
सोऽभिद्रवन् भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी
व्यालम्बिपीताम्बरधृक् चकाशे घनो यथा सूर्यमरीचिनद्धः
सुदर्शनं चास्य रराज शौरेः करस्थितं तच्च सुनालयुक्तम्
यथा हि पद्मं तरुणं सुवर्णं रराज नारायणनाभिजातम्
तच्चक्रपद्मं शुभकोटिपत्रं गोविन्दकान्तिव्रजसूर्यबिद्धम्
तस्यैव दहोरुसरःपरूढं रराज नारायणनाभिजातम्
तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य
सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा
स वासुदेवः प्रगृहीतचक्रस् संवर्तयिष्यन्निव सर्वलोकम्
अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः
तमापतन्तं प्रगृहीतचक्रं समीक्ष्य देवं द्विपदां वरिष्ठम्
असम्भ्रमं कार्मुकबाणपाणिर् रथे स्थितश्शान्तनवोऽभ्युवाच
भीष्मः-
एह्येहि फुल्लाम्बुजपत्रनेत्र नमोऽस्तु ते देववराप्रमेय
प्रसह्य मां पातय लोकनाथ रथोत्तमाद्भूतशरण्य सङ्ख्ये
त्वया हतस्यापि ममाऽद्य कृष्ण श्रेयः परस्मिन्निह चैव लोके
सम्भावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात्
सञ्जयः-
रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्
जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः
निगृह्यमणाश्च तमादिदेवो भृशं सरोषः किल नाम योगी
आदाय वेगेन जगाम जिष्णुं विष्णुर्महावात इवैकवृक्षम्
पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम्
बलान्निजग्राह हरिं किरीटी पदे च राजन् दशमे कथञ्चित्
अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली
उवाच कोपं प्रतिसंहरेति गतिर्भवान् केशव पाण्डवानाम्
न हास्यते कर्म यथाप्रतिज्ञं पुत्रैश्शपे केशव सोदरैश्च
अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुज सम्प्रयुक्तः
ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य
स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह
ततः प्रतिज्ञां समवाप्य भीष्मः कृताञ्चलिस्स्तुत्यमथाकरोद्वै
त्रैविक्रमे यस्य वपुर्बभासे तथैव दृष्ट्वा तु समुज्ज्वलन्तम्
पुनस्त्वरन् वै वरदो जिघांसुः प्रगृह्य शङ्खं द्विषतां निहन्ता
विनादयामास दिशो नभश्च स पाञ्चजन्यस्य रवेण शौरिः
व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम्
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः
मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिस्स्वनाश्च
ससिंहनादाश्च बभूवुरुर्व्यां सर्वेष्वनीकेषु कुरूत्तमानाम्
गाण्डीवघोषस्स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च
जग्मुश्च बाणा विमलाः प्रसन्नास् सर्वा दिशः पाण्डवचापमुक्ताः
तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम्
अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः
अथार्जुनाय प्रजाहार भल्लान् भूरिश्रवास्सप्त सुवर्णपुङ्खान्
दुर्योधनस्तोमरमुग्रधन्वा शल्यो गदां शान्तनवश्च शक्तिम्
स सप्तभिस्सप्त शरप्रवेकान् संवार्य भूरिश्रवसा विसृष्टान्
शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ
ततश्शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम्
गदां च मद्राधिपवेगमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः
ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम्
माहेन्द्रमस्त्रं विधिवत् सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे
तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान्
शरौघजालैर्विमलाग्निवर्णैर् निवारयामास किरीटमाली
भीष्मं शरैस्सम्परिवार्य सङ्ख्ये चिच्छेद भूरिश्रवसश्च चापम्
शल्यञ्च विद्ध्वा नवभिः पृषत्कैर् दुर्योधनं वक्षसि निर्बिभेद
शिलीमुखाः पार्थधनुःप्रमुक्ता रथान् ध्वजान् बाणधनूंषि बाहून्
निकृत्य देहान् विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम्
ततो दिशश्चाऽनुदिशश्च पार्थश् शरैस्सुधारैर्निशितैर्वितत्य
गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथया चकार
तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिस्स्वनाश्च
ससिंहनादाश्च बभूवुरुर्व्यां सर्वेष्वनीकेषु तथा कुरूणाम्
अन्तर्हिता गाण्डिवनिस्स्वनेन बभूवुरुग्राश्च रणप्रणादाः
गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखा नरेन्द्राः
पाञ्चालराजो द्रुपदश्च वीरस् तं देशमाजग्मुरदीनसत्त्वाः
सर्वाणि सैन्यानि च तावकानि यतो यतो गाण्डिवजः प्रणादः
ततस्ततस्सन्नतिमेव चक्रुः पुनः पुनर्धार्तराष्ट्रास्समग्राः
न तं प्रतीतोऽभिससार कश्चित् तस्मिन् सुघोरे नृप सम्प्राहारे
हताः प्रवीरास्सरथास्ससूता हयाश्वनागाश्च नोघाततप्ताः
महापताकाश्शुभरुक्मकक्ष्याः परीत्तसत्त्वास्सहसा निपेतुः
किरीटिना भिन्नतनुत्रकायाः दृढं हताः पत्रिभिरुग्रवेगैः
पार्थेन भल्लैर्विमलैश्शिताग्रैः निकृत्तयन्त्रा निहतेन्द्रजालाः
ध्वजा महान्तो धव्जिनीपतीनाम् पदातिसङ्घाश्च रथाश्च सङ्ख्ये
हयाश्च नागाश्च धनञ्जयेन बाणाहताः पेतुरदीनसत्त्वाः
ऐन्द्रेण तेनास्त्रवरेण राजन् प्रकीर्णविच्छिन्नशिरोरुकायाः
ततश्शरौघैर्निशितैः किरीटी प्रवर्तयामास नदीं सुघोराम्
नृनागवाजिक्षतलोहितोदां नरान्त्रामज्जा स्थितकामांसफेनाम्
प्रभूतरक्षोगणभूतजुष्टां शिरःकपालाकुलशङ्खजुष्ठाम्
गजाश्ववालाकुलकेशशाद्बलां प्रपातिताश्वेबशरीरकच्छपाम्
नराश्वशीर्षादिसहस्रमण्डुकां गजाश्वशीर्षाकुलदारुमत्स्याम्
पादोरुचार्वाञ्चितसर्पजुष्ठां सझिल्लिकामरचारुफेनिलाम्
प्रकीर्णनानाकवचाख्यकर्कटां शरीरसङ्घाटसहस्रवाहिनीम्
नरास्थिनागाश्वनिकृत्तशर्करां विनाशिनीं भीरुभयावहां सदा
श्वकङ्कसालावृकगृध्रसङ्कुलां तरक्षुभिर्भूतगणैः प्रजुष्टाम्
क्रूरां महावैतरणीप्रकाशां व्यपेतकूलां ददृशुर्मनुष्याः
प्रवर्तिता चार्जुनबाणसङ्घैर् मेदोवसासृक्प्रवहां सुभीमाम्
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रतेरुः
हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन
वित्रास्यमाना ध्वजिनी परेषां आसीन्मृगी सिंहभयातुरेव
हतद्रुतां तव पुत्रसेनां दृष्ट्वा तदा भारतवृष्णिसिंहौ
विनेदतुस्तावतिहृष्यमाणौ गाण्डीवधन्वा च जनार्दनश्च
ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तमैन्द्रमस्त्रं विततं सुघोरम् असह्यमुद्वीक्ष्य युगान्तकल्पम्
अथापयानं कुरवस्सभीष्मास् सद्रोणदुर्योधनबाह्लिकाश्च
चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्
अवाप्य कीर्तिं च यशश्च लोके विमृद्य शत्रूंश्च धनञ्जयोऽपि
ययौ नरेन्द्रैस्सह सोदरैश्च समाप्तकर्मा शिबिरं निशायाम्
ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः
कौरवसैनिकाः-
रणे रथानामयुतं निहत्य तथा गजानामयुतानि सप्त
प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च
महत् कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः
श्रुतायुरम्बष्ठपतिश्च राजा तथा च दुर्मर्षणचित्रसेनौ
द्रोणः कृपस्सैन्धवबाह्लिकौ च भूरिश्रवाश्शल्यशलौ च राजन्
स्वबाहुवीर्येण जितास्सभीष्माः किरीटिना लोकमहारथेन
सञ्जयः-
इति ब्रुवन्तश्शिबिराणि जग्मुस् सर्वे गणा भारत ये त्वदीयाः
उल्कासहस्रैश्च सुसम्प्रदीप्तैर् विभ्राजमानैश्च तथा प्रदीपैः
किरीटिवित्रासितसर्वयोधा जग्मुर्निवेशं ध्वजिनी कुरूणाम्