सञ्जयः-
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे
रथैरनेकसाहस्रैस् समन्तात् पर्यवारयन्
अथैनं रथवंशेन कोष्ठकीकृत्य भारत
शरैरनेकासाहस्रैस् समन्तात् पर्यवारयन्
शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैस्सह
प्रासान् परश्वथांश्चैव मुद्गरान् मुसलानपि
चिक्षिपुस्समरे वीरा धनञ्जयरथं प्रति
शस्त्राणामथ तां वृष्टिं समन्तात् पतितां रथे
रुरोध समरे पार्थश् शरैः कनकभूषणैः
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
साधु साध्विति भाषन्तो विस्मयं परमं ययुः
सात्यकिश्चाभिमन्युश्च महत्या सेनया वृतौ
गान्धारान् समरे शूरान् वारयेतां ससौबलान्
तत्र सौबलकाश्शूराः वार्ष्णेयस्य रथं प्रति
तिलशश्चिच्छिदुः क्रोधान्नानाप्रहरणैस्तथा
सात्यकिश्च रथं त्यक्त्वा वर्तमाने महाहवे
अभिमन्युरथं तूर्णम् आरुरोह परन्तपः
तावेकरथमारूढौ सौबलेयस्य वाहिनीम्
जघ्नतुर्निशितैर्बाणैस् तीक्ष्णैस्सन्नतपर्वभिः
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम्
व्यदारयेतामिषुभिः कङ्कपत्रैरजिह्मगैः
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्
तत्रासीत् तुमुलं युद्धं भैरवं रोमहर्षणम्
यथा दैवासुरं युद्धं पूर्वमासीत् सुदारुणम्
पिता पुत्रश्च समरे कुर्वाणौ कर्म दुष्करम्
राजानं प्रत्युदीयतां भीमसेनघटोत्कचौ
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्
अतीत्य पीतरं युद्धे यदयुध्यत भारत
दुर्योधनस्य महतीं द्रावयामास वाहिनीम्
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत्
भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम्
हृद्यविध्यत् पृषत्केन प्रहसन्निव पाण्डवः
ततो दुर्योधनो राजा प्रहारवरपीडितः
निषसाद रथोपस्थे कश्मलं च जगाम ह
तं विसञ्ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः
अपोवाह रणाद्राजंस् तवः सैन्यमभज्यत
विद्रुतां तु तदा सेनां द्रवमाणां समन्ततः
पार्षतश्चापि तत् सैन्यं तव पुत्रस्य मारिष
द्रोणस्य च ततस्सङ्ख्ये गाङ्गेयस्य च पश्यतः
जघान विशिखैस्तीक्ष्णैस् तावनीकं विशां पते
द्रवमाणं तु तत् सैन्यं तव पुत्रस्य मारिष
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ
निवार्यमाणं भीष्मेण द्रोणेन च महात्मना
अभिदुद्राव वेगेन भीमेनार्दितमाहवे
तथा रथसहस्राणि विद्रवन्ति रणाजिरे
एकस्थौ च रणे शुरौ शैनेयकुरुपुङ्गवौ
शरौघैस्समरे सेनां नाशयेतां समन्ततः
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ
अमावास्यां गतौ यद्वत् सोमसूर्यौ नभस्स्थले
अर्जुनस्तु ततः क्रुद्धस् तव सैन्यं विशां पते
ववर्ष शरवर्षेण धाराभिरिव तोयदः
मथ्यमानं ततस्तत् तु शरैः पार्थस्य संयुगे
दुद्राव कौरवं सैन्यं विषादभयपीडिततम्
द्रवमाणं तु तत् सैन्यं तदा दृष्ट्वा महारथौ
भीष्मद्रोणौ महावीर्यौ त्वरमाणौ महारणे
वारयेतां सुसंरब्धौ दुर्योधनहितैषिणौ
ततो दुर्योधनो राजा समाश्वस्य विशां पते
न्यवर्तयत तत् सैन्यं द्रवमाणां समन्ततः
यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः
तान् निवृत्तान् समीक्ष्याथ ततोऽन्ये हीतरे जनाः
अन्योन्यस्पर्धया राजल्ँलज्जयऽन्ये व्यवस्थिताः
पुनरावर्ततां तेषां वेग आसीद्विशां पते
पूर्यतस्सागरस्येव चन्द्रस्योदयने यथा
सन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः
अब्रवीत् त्वरितो गत्वा भीष्मं शान्तनवं वचः
दुर्योधनः-
पितामह निबोधेदं यत् त्वां वक्ष्यामि भारत
नानुरूपमिदं मन्ये त्वयि जीवति कौरव
द्रोणो च रथिनां श्रेष्ठे सपुत्रे ससुहृज्जने
कृपे चैव महेष्वासे द्रवतीयं वरूथिनी
न पाण्डवान् प्रतिबलांस् तव मन्ये महाबल
तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च
अनुग्राह्याः पाण्डुसुतास् तव नूनं पितामह
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम्
सोऽहं वाच्यस्त्वया वीर पूर्वमेवेह संयुगात्
न योत्स्येऽहं रणे वीर पाण्डवान् प्रति भारत
श्रुत्वा ततोऽहं वाक्यं त आचार्यस्य च भारत
कर्णेन सहितः कृत्यं चिन्तयिष्ये यथातथम्
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे
विक्रमेणानुरूपेण युध्येतां पुरुषोत्तमौ
सञ्जयः-
एतच्छ्रुत्वा वचो भीष्मः प्रहसन् वै पुनः पुनः
अब्रवीत् तव पुत्रं तु सामपूर्वमिदं वचः
भीष्मः-
बहुशोऽसि मया राजंस् तथ्यमुक्तं हितं वचः
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः
यत् तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा
करिष्यामि यथाशक्ति पश्येदानीं सबालवत्
अद्य पाण्डुसुतान् सर्वान् ससैन्यान् सह बन्धुभिः
समरे वारयिष्यामि सर्वसैन्यस्य पश्यतः
सञ्जयः-
एवमुक्तास्तु भीष्मेण पुत्रास्तव जनेश्वर
दध्मुश्शङ्खान् मुदा युक्ता हर्षसम्पूर्णमानसाः
ततश्शङ्खांश्च भेरीश्च समन्तात् पर्यवादयन्
पाण्डवाश्च ततो राजञ् श्रुत्वा तं निनदं महत्
दध्मुश्शङ्खांश्च भेरीश्च मुरजांश्चा प्यनादयन्